२११

नारद उवाच-

विश्वास-प्रस्तुतिः

शिवे तवपुरः सर्वं मुकन्दाख्यानमुत्तमम्
कथितं चण्डकस्यापि नापितस्य शृणुष्व मे ॥ १ ॥

मूलम्

यस्मिन्दिने मुकुन्दस्तु ब्राह्मणस्तेन घातितः
चण्डकेन तदाराजंस्तद्वृत्तं नागरैः श्रुतम् ॥ २ ॥

श्रुत्वा तैस्तन्नृपस्याग्रे निवेदितमिति स्फुटम्
नागरा ऊचुः
चण्डकेन हतो राजन्मुकुन्दो ब्राह्मणोत्तमः ॥ ३ ॥

नीतं च तद्धनं भूरि यद्युक्तं तद्विधीयताम्
त्वमस्माकं प्रजानां हि रक्षकः शासकोऽसताम् ॥ ४ ॥

इत्याकर्ण्य स भूपालो मन्त्रिणं पार्श्ववर्तिनम्
उवाच कोपरक्ताक्षः किमेभिः कथ्यते शृणु ॥ ५ ॥

शीघ्रमानयतं पापं नोचेत्त्वां घातयाम्यहम्
उत्तिष्ठोत्तिष्ठ पापिष्ठ साधूनां शं विधीयताम् ॥ ६ ॥

पीड्यन्ते विषये यस्य प्रजा दस्युभिरुल्बणैः
स नृपो नरकं याति तेभ्यस्ताश्चेन्न रक्षति ॥ ७ ॥

निशम्येति वचो राज्ञः सचिवः स शिवे नृपः
वेगेन हयमारुह्य पदातिशतसंयुतः ॥ ८ ॥

मूलम्

नारद उवाच-
निशम्येति वचो राज्ञः सचिवः स शिवे नृपः
वेगेन हयमारुह्य पदातिशतसंयुतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

ययौ गृहे मुकुन्दस्य तस्य बन्धूनपृच्छत
मुकुन्दः केन निहतः सत्यं ब्रूत ममाग्रतः ॥ ९ ॥

तं पापं निहनिष्यामि शासनाद्भूपतेरहम्
नारद उवाच-
श्रुत्वेति मन्त्रिणो वाक्यं प्रत्यूचुर्विप्रबान्धवाः ॥ १० ॥

विप्रबान्धवा ऊचुः -
चण्डकेन हतो मन्त्रिन्मुकुन्दो नापितेन हि
इदं पलायमानस्य तस्योष्णीषं पपात वै ॥ ११ ॥

दृष्टः स्वचक्षुषा वध्वा मुकुन्दस्यैव सोघकृत्
किं कुर्मस्तेन पापेन मज्जिताः शोकसागरे ॥ १२ ॥

नारद उवाच -
इत्याकर्ण्य वचस्तेषां बन्धूनां ब्राह्मणस्य हि
स मन्त्री तस्य पापस्य नापितस्य गृहं ययौ ॥ १३ ॥

अश्वादुत्तीर्य तरसा तद्गृहं स्वयमाविशत्
कतिभिः पत्तिभिः सार्द्धं शयानं च ददर्श ह ॥ १४ ॥

पत्तयस्तु तदाज्ञप्ताः केशेष्वाकृष्य तत्क्षणात्
तल्पादुत्थापयामासुस्तं पापं नापिताधमम् ॥ १५ ॥

किं किमित्येव सञ्जल्पन्नेत्रे उन्मीलयत्यसौ
यावत्स नापितः पापस्तावत्तं ददृशे पुरः ॥ १६ ॥

संस्मरन्तं निजं कर्म रात्रौ यत्कृतवानघम्
अधोमुखः क्षणं तस्थौ पश्यन्मूर्ध्नि स्थितं यमम् ॥ १७ ॥

ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः
निनाय नृपतेः पार्श्वमिति चोवाच भूपतिम् ॥ १८ ॥

आनीतो ब्रह्महा राजन्नयं चण्डक नापितः
यदाज्ञापयसि स्वामिंस्तरसा तत्करोम्यहम् ॥ १९ ॥

राजोवाच-
धर्मज्ञ सचिवश्रेष्ठ शृणु त्वं वचनं मम
इयं सरिद्वरा युष्मंश्चन्द्रभागात्र निर्मलाः ॥ २० ॥

त्यजन्ति येऽत्र वै प्राणाल्लँभन्ते ते सुरास्पदम्
अत एष न हन्तव्यः पापात्मा ह्यत्र नापितः ॥ २१ ॥

पञ्चकोशान्तरे ह्यस्या मर्यादाया बहिर्यदि
नरकान्दारुणान्ह्येष ब्रह्महा यातु मा चिरम् ॥ २२ ॥

नारदोवाच-
इत्युक्तस्तेन वै राज्ञा स राजन्मन्त्रिसत्तमः
श्वपचान्प्रेरयामास हन्तुं तं भूपशासनात् ॥ २३ ॥

श्वपचास्ते तमुन्नीय चन्द्रभागापरे तटे
योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम् ॥ २४ ॥

स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः
धवकोटरमध्यस्थो विषज्वालाकराननः ॥ २५ ॥

मूलम्

स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः
धवकोटरमध्यस्थो विषज्वालाकराननः ॥ २५ ॥

विश्वास-प्रस्तुतिः

स शुष्को धववृक्षस्तु तस्य फूत्कारवह्निना
तथा तपनतापेन सरसोऽपि यथा ह्रदः ॥ २६ ॥

गमनात्तस्य पापस्य सर्वतो वृक्षमूषरम्
उच्छिद्य तृणजातादि जातं पश्वहितं तदा ॥ २७ ॥

तत्र जातु समायातः सार्थो दक्षिणदेशतः
नारायणाश्रमं गच्छन्बदर्याख्यं शिवे नृप ॥ २८ ॥

तत्रैको ब्राह्मणः कश्चित्सार्थेसम्मीलितः पथि
निश्छिद्रां काष्ठमञ्जूषां पितृमात्रस्थिसंयुताम् ॥ २९ ॥

स्कन्धेन धारयन्याति तानि पातयितुं नृप
गङ्गाम्भसि महाभाग पापिनामपि कामदे ॥ ३० ॥

सोऽप्यागतस्तत्र वने यत्रास्ति स भुजङ्गमः
विविक्ते क्षिप्य मञ्जूषां शलाकालोहनिर्मिताम् ॥ ३१ ॥

अथागत्य भुजङ्गोऽसौ शलाकां फणयाघटत्
किञ्चिदुद्धाटितायां स मञ्जूषायां समाविशत् ॥ ३२ ॥

पुनः शलाका स्वंस्थानमागताथ स कुण्डली
तत्रैव तस्थौ निश्चेष्टो मञ्जूषायां विषोल्बणः ॥ ३३ ॥

अथ प्रभाते सर्वे ते चेलुः स्थानात्ततो नृप
ब्राह्मणः सोऽपि मञ्जूषां कम्बलेन समावृताम् ॥ ३४ ॥

कृत्वा शिरसि राजेन्द्र चचाल प्रति जाह्नवीम्
कतिभिर्वासरैः सार्थः सम्प्राप्तस्तीर्थगामिनाम् ॥ ३५ ॥

इहैव कोशलायां वै पुनीतायां महीपते
अथ शीतातुरो विप्रः कम्बलं चोदघाटयत् ॥ ३६ ॥

मञ्जूषावरणं राजन्तत्रायोध्यातटे शुभे
सोऽपि सर्पो निराहारो लब्ध्वा मारुतभोजनम् ॥ ३७ ॥

निश्चक्राम बहिस्तस्मादुत्क्षेप्य सुशलाकिकाम्
तं निःसृतं समालोक्य सर्प्प सर्प इति क्रुधा॥ ३८ ॥

व्याहरन्तो जनाः सर्वे लोष्टहस्ताः समभ्ययुः
यावत्पलायते सर्पस्तावदेकेन घातितः ॥ ३९ ॥

तत्याज स तदा प्राणान्पश्यतां तीर्थगामिनाम्
त्यक्त्वा भुजङ्गदेहं स देवत्वं प्राप दुर्लभम् ॥ ४० ॥

दिव्यं विमानमारुह्य प्रोवाचेदं जनानि ह
सर्प उवाच-
भो दाक्षिणात्याः शृणुत ब्राह्मणा वचनं मम ॥ ४१ ॥

पुरा चण्डकनामाहं नापितो ब्रह्महाधमः
ब्रह्महत्याप्रदोषेण सर्पआसं मरुस्थले ॥ ४२ ॥

भुक्त्वा नरकदुःखानि वर्षाणां लक्षपञ्चकम्
अतीतं सर्पयोनौ मे वर्षाणामयुतद्वयम् ॥ ४३ ॥

तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमम्
तस्मादिदं न वै त्याज्यं तीर्थं वै कोशलाभिधम्
सर्वार्थदं यतो नाकः प्राप्तः पापीयसा मया ॥ ४४ ॥

एवं स नापितः पापो योनिं प्राप्य विनिन्दिताम्
जगाम द्यां विमानस्थस्तीर्थस्यास्य प्रसादतः ॥ ४५ ॥

ते दाक्षिणात्या यतयो भूत्वा तत्रैव तीर्थके
ऊषुर्गोविन्दपादाब्ज मानसा दृष्टवैभवे ॥ ४६ ॥

माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः
तीर्थेऽत्रजातविश्रद्धः पित्रोरस्थीनि सोऽक्षिपत् ॥ ४७ ॥

पतितेष्वस्थिखण्डेषु पितरौ तस्य तत्क्षणात्
विमानवरमारूढौ दिव्यौ तत्र समागतौ ॥ ४८ ॥

ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै
वत्स जीव चिरं लोके धनधान्यसुखी भव ॥ ४९ ॥

आवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा
गङ्गायां पिण्डदानेन यत्फलं स्यात्सुतस्य वै
पितॄणां या गतिश्चात्र द्वयं स्यादस्थिपाततः ॥ ५० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
कालिन्दीमाहात्म्ये मुकुन्दोपाख्यानं नामैकादशाधिकद्विशतमोध्यायः २११