नारद उवाच-
विश्वास-प्रस्तुतिः
एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः
स हंसः कारयामास क्रियास्तस्यात्मसम्भवाः ॥ १ ॥
मूलम्

अन्तर्वत्नी मुकुन्दस्य निर्बन्धं कुर्वती वधूः
अनुगन्तुं स्वभर्तारं विदुषा तेन वारिता ॥ २ ॥

तस्यास्थीनि समादाय तेन सन्यासिना समम्
तद्भ्राता प्रययौ गङ्गाजले पातयितुं नृप ॥ ३ ॥

विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृप
सार्थलोकवशात्प्राप्तौ इन्द्रप्रस्थेऽत्र सत्पदे ॥ ४ ॥

इन्द्रप्रस्थान्तरावर्तिन्येषा या कोशला नृप
अत्र सुप्तौ निशायां तौ यमुनातीरभूतले ॥ ५ ॥

आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसम्पुटम्
मार्गखेदपरिक्रान्तौ दशां सौषुप्तिकीं गतौ ॥ ६ ॥

निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन
एकः श्वा तत्र सम्प्राप्तः पक्वान्नादि जिहीर्षया ॥ ७ ॥

बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः
भाजनानि लिहन्मूर्ध्नि क्व च दण्डाहतिं सहन् ॥ ८ ॥

केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः
प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ॥ ९ ॥

यत्रावकण्डितः स श्वा दण्डग्रावेष्टकादिभिः
पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया ॥ १० ॥

भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः
भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ ॥ ११ ॥

सारमेयस्तयोर्मध्याज्जह्रे स पटसम्पुटम्
नीत्वा स कियतीं भूमिं दन्तैस्तत्पटसम्पुटम् ॥ १२ ॥

विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः
एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत् ॥ १३ ॥

क्षिप्तमात्रेषु तेनास्थिष्वेतदम्बुनि भूपते
दिव्यं विमानमास्थाय मुकुन्दोऽत्र समागतः ॥ १४ ॥

दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा
उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप ॥ १५ ॥

मुकुन्द उवाच
वेदायन गुरो तुभ्यं नम आशीस्तवानुज
प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै ॥ १६ ॥

अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम्
एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः ॥ १७ ॥

त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः
अहं गच्छन्विमानेन दिव्येन त्रिदशालयम् ॥ १८ ॥

नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः
दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम् ॥ १९ ॥

श्रुत्वैवं वचनं तस्य मुकुन्दस्य गुरुस्तदा
वेदायनो विमानस्थं तमूचे गतविस्मयः ॥ २० ॥

देवायन उवाच-
मुकुन्दाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान्
कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम् ॥ २१ ॥

किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः
कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद ॥ २२ ॥

मुकुन्द उवाच-
कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु
तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना ॥ २३ ॥

यदाहं तेन निहतश्चण्डकेन दुरात्मना
नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः ॥ २४ ॥

पिङ्गाक्षा रक्तकेशाश्च श्यामदेह नखाधराः
वामना दीर्घचरणा ह्रस्वनासाश्च दन्तुराः ॥ २५ ॥

नीयतां नीयतामेष धर्मराजस्य शासनात्
पुरीं संयमनीमेवमूचिरे ते परस्परम् ॥ २६ ॥

इत्युक्त्वा यातना देहे मां निवेश्य महारुषा
निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः ॥ २७ ॥

तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके
अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः ॥ २८ ॥

प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु
यमदूता ऊचुः
त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम् ॥ २९ ॥

किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम्
तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया ॥ ३० ॥

तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान्
इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम् ॥ ३१ ॥

पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः
प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः ॥ ३२ ॥

आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन्
दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ॥ ३३ ॥

यम उवाच-
भो सभ्या मामकीं वाचं शृण्वन्तु सुसमाहिताः
यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः ॥ ३४ ॥

तदा मामित्युवाचासौ ब्रह्मा लोकपितामहः
ब्रह्मोवाच-
अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः ॥ ३५ ॥

यथापराधमाधत्स्व दण्डं चण्डकरात्मज
पित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यः
एतौ महापातकिनौ निपात्यौ निरयेषु ते ॥ ३६ ॥

सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत्
एतयोर्न त्वया कार्या दया जातु ककुप्पते ॥ ३७ ॥

इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवे
न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ॥ ३८ ॥

ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम्
प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः ॥ ३९ ॥

भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुते
पात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम् ॥ ४० ॥

तावन्तमेव कालं वै पापोऽयं गुरुलोपकः
नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ॥ ४१ ॥
मूलम्
तावन्तमेव कालं वै पापोऽयं गुरुलोपकः
नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
मुकुन्द उवाच-
वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात्
नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन् ॥ ४२ ॥

तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम्
यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा ॥ ४३ ॥

त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठता
एकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा ॥ ४४ ॥

पतितेष्वस्थिखण्डेषु तीर्थेऽस्मिन्नुतमोत्तमे
गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत ॥ ४५ ॥

तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया
सुखं स्वर्गे निवत्स्यामि यावदिन्द्राश्चतुर्दश ॥ ४६ ॥

यमस्य नगरे तस्मिन्याः प्रजा निवसन्ति वै
पापिनां भयदायिन्यो धर्मिणां ता मनोहराः ॥ ४७ ॥

सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीः
बिडालास्याः पिङ्गकेश्यो भामिन्यो दीर्घपत्कराः ॥ ४८ ॥

तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम्
तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ॥ ४९ ॥

सर्वास्ताः सत्यवादिन्यो विनयाचारसञ्चिताः
दिव्याभरणधारिण्यो दिव्याम्बरविभूषिताः ॥ ५० ॥

इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघ
अनुजानीहि मां गन्तुममरेशपुरीं प्रति ॥ ५१ ॥

इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा
भूयः पप्रच्छ धर्मात्मा मुकुन्दं तं द्विजं नृप ॥ ५२ ॥

वेदायन उवाच-
बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम्
शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ॥ ५३ ॥

विहिता मम शुश्रूषा भावेन भवतोत्तमा
त्वयि सन्ति सतां साधो गुणाः शमदमादयः ॥ ५४ ॥

गुरुलोपकृतं पापं कथं ते समजायत
एतदाख्याहि मे तात यथा जानामि तत्वतः ॥ ५५ ॥
मूलम्
गुरुलोपकृतं पापं कथं ते समजायत
एतदाख्याहि मे तात यथा जानामि तत्वतः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
मुकुन्द उवाच-
जन्मोपवीतकन्यानां धातारो निगमस्य च
यज्ञोपवीतदातुश्च नाज्ञाभङ्गः कृतो मया ॥ ५६ ॥

श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मया
तवापि शास्त्रदातुश्च नाज्ञाभङ्गः कृतो मया ॥ ५७ ॥

पुरोधा यः कुलाचार्यो वेदवेदान्तपारगः
तस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि ॥ ५८ ॥

यद्यस्माकं कुले पुत्रो जायते धर्मकोविद
तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ॥ ५९ ॥

दत्त्वा सञ्च्छिद्यते नालमिति वंशस्य नः स्थितिः
पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ॥ ६० ॥

कुलक्रिया मया तात न कृता मूढबुद्धिना
तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ॥ ६१ ॥
मूलम्
कुलक्रिया मया तात न कृता मूढबुद्धिना
तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
निवेदितमिदं सर्वं गुरुलोपाद्यथा मम
पापमासीदनुज्ञा मे देहि यामि सुरालयम् ॥ ६२ ॥
मूलम्
निवेदितमिदं सर्वं गुरुलोपाद्यथा मम
पापमासीदनुज्ञा मे देहि यामि सुरालयम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
वेदायन उवाच-
इन्द्रप्रस्थान्तरावर्तिन्येषा या कोशला शुभा
स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ॥ ६३ ॥

केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते
मुकुन्दाख्याहि चैतस्य स्मृतिरस्ति तवानघ ॥ ६४ ॥

मुकन्द उवाच-
एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतः
तस्मै स्थानं मया दत्तं भोजनं च यथाविधि ॥ ६५ ॥

सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे
निशीथे तस्य सर्वाङ्गे ज्वरोऽभूदति दारुणः ॥ ६६ ॥

तेन पीडितसर्वाङ्गो निद्रां लेभे न स द्विजः
प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ॥ ६७ ॥

तस्य दाहादि कर्माणि विहितानि मया गुरो
तदस्थीनि च गङ्गायां पातितानि विधानतः ॥ ६८ ॥

तेन पुण्येन मेस्थीनि पतितानि शिवप्रदे
तीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते ॥ ६९ ॥

स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या
इदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात् ॥ ७० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये मुकुन्दोपाख्याने दशाधिकद्विशततमोऽध्यायः २१०