२०९

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः
वर्णयामास शिबये शक्रतीर्थगतस्य च ॥ १ ॥

मूलम्

अतस्तु मम शुश्रूषा जायते मुनिपुङ्गवः
शिविनारदसंवादं ब्रूहि पुण्यं नताय मे ॥ २ ॥

सौभरिरुवाच-
धर्मराज शिबीराजा श्रुत्वा नारदवर्णितम्
द्वारकायास्तु माहात्म्यं तमेवापृच्छदादरात् ॥ ३ ॥

शिबिरुवाच-
ब्रह्माङ्गज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम्
इन्द्रप्रस्थतटस्थाया द्वारकाया मयाद्भुतम् ॥ ४ ॥

अयोध्यायां यदि मुने किञ्चिदस्ति पवित्रकम्
चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचोऽमृतम् ॥ ५ ॥

नारद उवाच-
अस्त्यत्र चरितं पुण्यं महापातकनाशनम्
नापितस्याद्ययुक्तस्य मुकुन्दस्य द्विजस्य च ॥ ६ ॥

ब्रह्महा नापितो राजन्नपमृत्युं गतो द्विजः
प्रसादात्कोशलायास्तु द्वावपि स्वर्गतिं गतौ ॥ ७ ॥

चन्द्रभागा नदी तीरे पुरी सा च निवेशिता
तत्रास्ति नापितः पापश्चण्डकोनाम गर्हितः ॥ ८ ॥

चौर्येण परवित्तानामपहर्ता स पापकृत्
घातकः शस्त्रपाशाद्यैः पान्थानामवलुण्ठकः ॥ ९ ॥

द्यूतमद्यरतो नित्यं परस्त्रीलम्पटेन्द्रियः
भित्वा देवालयं भित्तिमिष्टिका ग्राव विक्रयी ॥ १० ॥

स तस्योद्वसिताभ्यासे ब्राह्मणो वसति श्रिया
संयुक्तो ब्रह्मकर्मज्ञो मुकुन्दो नामतो नृप ॥ ११ ॥

स एकदा समालिङ्ग्य तरुणीमात्मयोषितम्
सुष्वाप सुरतायास श्लथाङ्गो निशि निर्भयम् ॥ १२ ॥

स चण्डको निशीथेऽथ प्रविवेश तदालयम्
मुकुन्दस्य समाहर्तुं हर्म्ये भूषादि वस्तु यत् ॥ १३ ॥

उपकार्या बहिस्थं यत्तद्गृहीत्वोऽगमद्गृहम्
स्वकीयं च पुनस्तस्य ब्राह्मणस्याविशद्गृहम् ॥ १४ ॥

कपाटोत्पाटनार्थी तु यत्नेन महताऽभवत्
लोहयन्त्रावरुद्धश्च स नोद्धाटयितुं क्षमः ॥ १५ ॥

आरुरोह तदा तस्य ब्राह्मणस्याविशद्गृहम्
प्रविश्य तद्गृहं क्रूरः कृपणं पाणिनादधत् ॥ १६ ॥

अट्टालिकां स पापिष्ठो नापितस्तस्करक्रियः
तत्रापश्यत्प्रसुप्तौ तौ दम्पतीरतिविह्वलौ ॥ १७ ॥

जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया
शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु ॥ १८ ॥

हर्तुं तदङ्गतो हस्तं प्रससार स नापितः
तस्करस्पर्शतो विप्रो जजागार भयातुरः ॥ १९ ॥

न किञ्चिदूचे सम्मील्य नेत्रे तत्रैव संस्थितः
यदा स तस्करः पापो गृहीत्वा देहभूषणम् ॥ २० ॥

चलितः स तदा तेन दोर्भ्यामात्तो द्विजेन हि
पश्चादागत्य वित्तस्यासहमानेन सङ्क्षयम् ॥ २१ ॥

तेनापि नृप चौरेण कृपाणेन हतो द्विजः
विदीर्णोदरमध्यस्तु तातमातरितीरयन् ॥ २२ ॥

वदन्तः किङ्किमेत्येतत्पार्श्वं तस्या ययुर्जनाः
ददृशुस्तं निःसृतान्त्रं रुधिरालिप्तविग्रहम् ॥ २३ ॥

पप्रच्छुश्च मुकुन्देदं कर्म केनेदृशं कृतम्
सोऽपि कृच्छ्रेण महता प्रोवाचेदं स्वबान्धवान् ॥ २४ ॥

मुकुन्द उवाच-
ममैव परिपाकोऽयं पूर्वोपार्जितकर्मणाम्
न कश्चित्सुखदुःखस्य दाता कस्यापि देहिनः ॥ २५ ॥

धर्मोऽधर्मश्च तावेव तेषां मूलं पुराकृतौ
नारद उवाच-
इत्युक्त्वा स तु भूयस्यापीडया गाढपीडितः ॥ २६ ॥

तत्याज भूपते प्राणान्पश्यतां सुहृदां तदा
विललाप तदा तस्य माता द्विजसती नृप ॥ २७ ॥

निधाय तच्छिरः स्वाङ्के कुण्डलाभ्यामलङ्कृतम्
मातोवाच-
हा हतास्मि त्वया वत्स दशामन्त्यां च गच्छता ॥ २८ ॥

दिनश्रीरिव सूर्येण पश्चिमाचललम्बिना
यदङ्गं चन्दनालेपयोग्यं तव महामते ॥ २९ ॥

मूलम्

दिनश्रीरिव सूर्येण पश्चिमाचललम्बिना
यदङ्गं चन्दनालेपयोग्यं तव महामते ॥ २९ ॥

विश्वास-प्रस्तुतिः

मां मज्जयार्तिशोकाब्धौ तदिदं धूलिधूसरम् ॥ ३० ॥

ताम्बूलचर्वणेभ्यासो यस्त्वया विहितस्त्वसौ
स एव रुधिरोद्गार मिश्रेण क्रियते ध्रुवम्
तव ये लोचने पूर्वं जिग्यतुः कमलश्रियम् ॥ ३१ ॥

त एव साम्प्रतं जाते तिमिरौघा वृते इव
उत्तिष्ठोत्तिष्ठ वत्स त्वं शिष्यानध्यापयात्मनः ॥ ३२ ॥

यथावद्वैश्वदेवान्ते पूजयातिथिमागतम्
द्वारि स्थिता वयस्यास्ते त्वाह्वयन्ति प्रयाहि तान् ॥ ३३ ॥

दातव्यं यद्ददस्वैभ्यो गृहीतव्यं गृहाण तत्
हाहा देहि प्रतिवचः पतामि तव पादयोः ॥ ३४ ॥

नोचेदहं विमोक्ष्यामि प्राणांस्तव समीपतः
नारद उवाच-
इत्युक्त्वा मूर्छिता तस्य मुकुन्दस्य प्रसूस्तदा ॥ ३५ ॥

भार्या तस्य शिरः स्वाङ्के विधाय व्यलपच्च सा
भार्योवाच-
नाममार्गेण पाथोधे मदीयं वचनं शृणु ॥ ३६ ॥

रुष्टोऽसि चेत्समं मात्रा कुतो वद ममाग्रतः
न कदाचित्त्वया साधो मौनमीदृक्कृतं पुरा
केनापि लघुना भ्रात्रा ह्यपमानः कृतस्तव ॥ ३७ ॥

शुकोऽयं पञ्जरस्थस्ते नान्नमत्ति त्वया विना
भोजयैनं सुसिद्धान्नं कलवाचं च सारिकाम् ॥ ३८ ॥

रामराम हरेकृष्ण विष्णो नामावलीमिति
पाठयोत्तिष्ठ निपुणौ द्वावेतौ सारिकाशुकौ ॥ ३९ ॥

अपराद्धं मया किं ते यत्वं मां नाभिभाषसे
यत्त्वया मे धनं दत्तं तन्मया साधुरक्षिणम् ॥ ४० ॥

अर्पितं यत्त्वया नाथ निजतेजो ममोदरे
सूतिकालमहं तस्य नोपेक्षे त्वामनुव्रजे ॥ ४१ ॥

एवं विलप्य सा तस्य मुकुन्दस्य प्रिया तदा
न रुरोद स्वभर्तारमनुगन्तुमना सती ॥ ४२ ॥

अथ तस्य मुकुन्दस्य गुरुर्वेदायनाभिधः
सन्न्यासी पर्यटन्पृथ्वीं तस्य वेश्म ययौ नृप ॥ ४३ ॥

मुकुन्दः क्व गतो माता भार्या तस्य च धीमतः
न दृश्यते तदा तेन पृष्टेत्याचष्ट चेटिका ॥ ४४ ॥

चेटिकोवाच
स्वामिन्केनापि चौरेण मम स्वामी हतो निशि
स्नुषाया भूषणं नीतं दुकूलानि च सर्वशः ॥ ४५ ॥

स मृतः पतितो भूमौ हर्म्यस्योपरि तिष्ठति
तस्य माता वधूश्चैव भ्रातरश्च तदन्तिके ॥ ४६ ॥

विलपन्ति महाशोकसागरे पतिता गुरो
नारद उवाच-
इत्याकर्ण्य परिव्राट्स वचनं चेटिकोदितम् ॥ ४७ ॥

आरुह्य हर्म्यमद्राक्षीदात्मान्ते वासिनं मृतम्
तदन्तिके समालोक्य बन्धूनां क्रन्दतो भृशम् ॥ ४८ ॥

उद्धरिष्यन्निदं धीरः शोकाब्धेस्तानुवाच ह
वेदायन उवाच-
देहमुद्दिश्य वात्मानं शोकोऽयं क्रियते त्वया ॥ ४९ ॥

मातः कथय सत्यं मे नोभयोर्युज्यते हि सः
देहोऽयं भूतसङ्घातः प्रारब्धेः समुपार्जितः ॥ ५० ॥

तेषु क्षीणेषु भूतानां पृथक्त्वमुपजायते
यदेकीभवनं तेषां कर्मभिर्जन्म तन्नृणाम् ॥ ५१ ॥

तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम्
एक्यं पृथक्त्वं भूतानां कर्मार्धा नेयतो? बुधैः ॥ ५२ ॥

अतो देहे न कर्तव्यः शोकः परवशे जडे
अनाद्यविद्यया जीवे दृष्टे मरणजन्मनी ॥ ५३ ॥

देहस्यात्मन्यहं बुद्ध्या मन्यते नहि तत्र ते
तन्निवृत्तौ स तद्ब्रह्म यच्छुद्धं रूपवर्जितम् ॥ ५४ ॥

स्वप्रकाशं जगद्धेतु हेत्वतीतं गुणोर्जितम्
नित्यं विज्ञानमानन्द स्वभासा भासयज्जगत् ॥ ५५ ॥

न जिह्वा लेढि तच्चक्षुर्न पश्यति शृणोति न
श्रुतिर्जिघ्रति न घ्राणं न त्वक्स्पृशति कर्हिचित् ॥ ५६ ॥

अतीतमिन्द्रियेभ्यस्तत्स्वप्रकाशकमात्मदृक्
अविषयं मनोदूरं बुद्धेरपि न गोचरम् ॥ ५७ ॥

तस्यावताररूपाणि शुद्धसत्वानि देवताः
सेवन्ते तन्न जानन्ति रूपं यत्सदसत्परम् ॥ ५८ ॥

एवं स्वरूपमात्मा यस्तं समुद्दिश्य कः कुधीः
क्रोधं कुर्याद्यतस्तस्य नोत्पत्तिर्नैव सङ्क्षयः ॥ ५९ ॥

इति श्रीपाद्मेमहापुराणे पचम्पञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये नवाधिकद्विशततमोऽध्यायः २०९