नारद उवाच-
विश्वास-प्रस्तुतिः
विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः
पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया
भूयः खे मेघगम्भीरा वागासीदिति भूपते ॥ १ ॥
मूलम्

आकाशवागुवाच-
शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम्
एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति
यया जहाति लोकोऽयमविद्या मोहमुल्बणम् ॥ २ ॥

निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम्
प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम् ॥ ३ ॥

स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः पराम्
चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा ॥ ४ ॥

द्विजावूचतुः
यथावयोर्हि संयोगः पथिजातो विचारतः
यथा गृहकलत्रादि संयोगो भुवि जायते
साम्प्रतं विरहोभावी यथा नौ मार्गवर्तिनौ ॥ ५ ॥

तथादारसुतादीनां कालव्यास्यवर्तिनाम्
धन्यः स पुरुषो लोके यो दारसुतसङ्गमम् ॥ ६ ॥

विज्ञाय क्षणिकं नित्यं संश्रयेत्श्रीपतिं भजेत्
नारद उवाच-
स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः ॥ ७ ॥

सन्देशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ
शृणु राजन्यथा तेन मित्रेण विमलस्य तु ॥ ८ ॥

मोक्षणं राक्षसीनां तु विहितं पथिगच्छता
व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम् ॥ ९ ॥

यत्र ताः पापविप्लुष्टा राक्षस्यः क्षुत्तृषाकुलाः
अथ ताः पथिगच्छन्तं दूराद्दृष्ट्वा द्विजोत्तमम् ॥ १० ॥

सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे
राक्षस्य ऊचुः -
आयाति पथिकः कश्चिज्जलपात्रं करे दधत् ॥ ११ ॥

अस्माकं क्षुत्तृषोः शान्तिर्मनागपि भविष्यति
एनं सम्भक्षयिष्यामः पास्यामोऽस्य करे स्थितम् ॥ १२ ॥

पात्रं जलं वयं तृष्णा क्षुधार्ताः शतवर्षतः
नारद उवाच-
काचिदाहेत्यहं पूर्वमस्योष्णं कालखण्डकम् ॥ १३ ॥

भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम्
अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने ॥ १४ ॥

मम व्याघ्राननायास्तु पानायापि न दृश्यते
अन्या वै रथचक्राख्या श्रूयतां वचनं मम ॥ १५ ॥

करिष्ये कुण्डलमहं केनान्त्रैरस्य मेखलाम्
अन्यावददहं दन्तैरेकतः श्यामलीकृतैः ॥ १६ ॥

रमे षोडशभिर्द्यूतशालायां तद्विशारदः
इत्युक्त्वा ताः मिथः सर्वास्तन्द्विजं प्रति दुद्रुवुः ॥ १७ ॥

विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः
आयान्तीस्ताः समालोक्य ब्राह्मणो भयविह्वलः ॥ १८ ॥

आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप
ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः ॥ १९ ॥

तेजसा तस्य मन्त्रैश्च प्रत्यादिष्टा नराधिपः
ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद ॥ २० ॥

त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति
त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम्
अतो मूर्द्धसु नो देहि स्वकीयं पादपङ्कजम् ॥ २१ ॥

इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः
द्विज उवाच-
कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः ॥ २२ ॥

साम्प्रतं पुष्करं यामि भवतीभिः किमिच्छते
यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा ॥ २३ ॥

राक्षस्य ऊचुः
येषु तीर्थेषु विप्रेन्द्र त्वया स्नातं वदस्व नः
तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः
अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात् ॥ २४ ॥

ब्राह्मण उवाच-
अवन्तीमाश्रमात्पूर्वमहं हरिपुरीमितः
गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले ॥ २५ ॥

ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम्
तस्मात्सेतुनिबन्धेऽहं स्नातः परमपावने ॥ २६ ॥

तस्मादहं महापुण्यां किष्किन्धां समुपागतः
हतो यत्र तु रामेण वाली कपिगणेश्वरः ॥ २७ ॥

तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम्
समागतोऽहं यत्रास्ति भारती सर्वसेविता ॥ २८ ॥

ततोऽहम्मावेशंवेणीन्तान्नत्वादक्षिणापथे
शिवकाञ्ची विष्णुकाञ्च्यौ दृष्टे तत्र मया पुरौ ॥ २९ ॥

ययोर्मरणतो जन्तुः शिवो विष्णुश्च जायते
ततोऽहम्मुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः ॥ ३० ॥

चतुर्वर्गप्रदः साक्षाद्भक्तानामपि काङ्क्षितम्
तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम् ॥ ३१ ॥

प्रसादभूतं तस्यैव गङ्गासागरसङ्गमम्
तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि ॥ ३२ ॥

यत्र गङ्गाशतमुखी जाता तत्राहमागमम्
ततो गयामुपागत्य पिण्डान्दत्त्वा यथाविधि ॥ ३३ ॥

पितृभ्यस्तुलसीपुष्पचन्दनोदकपूजितान्
कोशलां शरयूं वारिकर्णधारनभस्वता ॥ ३४ ॥
मूलम्
पितृभ्यस्तुलसीपुष्पचन्दनोदकपूजितान्
कोशलां शरयूं वारिकर्णधारनभस्वता ॥ ३४ ॥
विश्वास-प्रस्तुतिः
पवित्रिताखिलजनांस्पर्शनेनाहमागमम्
तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम् ॥ ३५ ॥

तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया
ततः काशीमहम्प्राप्तो राजधानीमुमापतेः ॥ ३६ ॥

नत्वा विश्वेश्वरं देवं बिन्दुमाधवमेव च
स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः ॥ ३७ ॥

त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम्
पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः ॥ ३८ ॥

एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये
पुनस्तस्मात्समायातो नैमिषं गोमतीतटे ॥ ३९ ॥

यत्र तीर्थानि सर्वाणि वसन्ति च स्वमायया
ततोऽहं मथुरां प्राप्तो यत्र विश्रान्तिसञ्ज्ञकम् ॥ ४० ॥

तीर्थं तत्सन्निधौ पुण्यमसिकुण्डाख्यमुत्तमम्
कृष्णगङ्गा ध्रुवाक्रूर केशिकालीयतीर्थभृत् ॥ ४१ ॥

यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी
उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया ॥ ४२ ॥

राजमानानि खेचर्यः समस्तार्थकराणि च
सन्ति तेषु नरः स्नात्वा पीत्वा भूयो न जायते ॥ ४३ ॥

ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम्
यत्र श्रीपतिपादाब्ज जाता गङ्गा सरिद्वरा ॥ ४४ ॥

ततो नारायणस्थानं हिमवद्भूमिसंस्थितम्
आगत्य माधवं दृष्ट्वा केदारमहमागमम् ॥ ४५ ॥

तत्र सम्पूज्य विश्वेशं पीत्वा हंसोदकं पुनः
हरिद्वारं महापुण्यमागमं जाह्नवीतटे ॥ ४६ ॥

तत्र स्नात्वापितॄन्देवानृषीन्सन्तर्प्य चाप्यहम्
समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती ॥ ४७ ॥

तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेन्द्रियः
अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति ॥ ४८ ॥

चलितो मार्गमध्ये तु विमलो नाम मे सखा
मिलितो मां व्रजन्गेहमिन्द्रप्रस्थात्तु तीर्थतः ॥ ४९ ॥

नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना
तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे ॥ ५० ॥

तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम्
तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः ॥ ५१ ॥

तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये
दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना ॥ ५२ ॥

श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम्
भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति ॥ ५३ ॥

तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम्
कमण्डलुगतं पुण्यं निशाचर्यो वदाम्यहम् ॥ ५४ ॥

भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे
दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि ॥ ५५ ॥

उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम्
ज्ञानं भवतु युष्माकमिति ताः सिषिचेम्भसा ॥ ५६ ॥

तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां
संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम् ॥ ५७ ॥

आसाद्य देवतादेहं विमानं सप्तमागतम्
आरुह्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने ॥ ५८ ॥

ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसङ्गमात्
राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् ॥ ५९ ॥

इन्द्रप्रस्थान्तरावर्तिन्येषा या द्वारका द्विज
नातः परतरं लोकेऽन्यत्तीर्थमखिलार्थदम् ॥ ६० ॥

इत्युक्त्वा ताःसमारूढा विमानेषु महीपते
जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना ॥ ६१ ॥

यमुनातीरवर्तिन्या द्वारकाया महीपते
शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते ॥ ६२ ॥

वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनात्
यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते ॥ ६३ ॥

गोविन्दाराधने सम्यग्यथा वै सौख्यमिन्द्रियम्
माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप ॥ ६४ ॥

सूर्येन्दुग्रहणे दानात्सुवर्णपलविंशतेः
यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते ॥ ६५ ॥

विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते
तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा ॥ ६६ ॥

राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः
स याति ता इव श्रेष्ठं विमानेन सुरालयम् ॥ ६७ ॥

नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः
किमपरमतिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयः श्रेयसि स्वे विलम्बः ॥ ६८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दी
माहात्म्ये द्वारकायाख्यानन्नाम अष्टाधिकद्विशततमोऽध्यायः २०८