२०७

सौभरिरुवाच-

विश्वास-प्रस्तुतिः

धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः
नारदस्य शिबी राजा प्रोवाचेदं विनीतवत् ॥ १ ॥

मूलम्

शिबिरुवाच-
तिष्ठन्त्यो मरुमार्गे ता राक्षस्यो मुनिपुङ्गव
एतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः ॥ २ ॥

नारद उवाच-
शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम्
विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ॥ ३ ॥

एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरः
देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ॥ ४ ॥

हरिपादार्चनरतो वेदवेदाङ्गधर्मवित्
वासुदेवगुणग्राम पुराणश्रुतिमानसः ॥ ५ ॥

मूलम्

हरिपादार्चनरतो वेदवेदाङ्गधर्मवित्
वासुदेवगुणग्राम पुराणश्रुतिमानसः ॥ ५ ॥

विश्वास-प्रस्तुतिः

वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः
चकार हरिदत्तेति नाम्ना तं जनकस्तदा ॥ ६ ॥

विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत्
गुरोः सकाशाज्जग्राह छन्दांसि हरिदत्तकः ॥ ७ ॥

अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम्
प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ॥ ८ ॥

ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सला
स्नापयन्ती कुचद्वन्द्वं पुत्रविश्लेषजाश्रुभिः ॥ ९ ॥

मातोवाच-
मामनाथां परित्यज्य तात यातोऽसि कुत्र वै
पितरं च जराग्रस्तं षट्पदो बल्वजाविव ॥ १० ॥

वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया
मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ॥ ११ ॥

अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम्
अध्रुवं वाञ्छितवती भवन्तं तु सुखलब्धये ॥ १२ ॥

त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम्
अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् ॥ १३ ॥

किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मे
सुफलोत्पादकं शास्त्री रम्भामूलमिवोल्बणा ॥ १४ ॥

धन्यो दशरथो राजा यो मृतो रामशोकतः
धिङ्मां पुत्रस्य विश्लेषाद्धारयन्ती स्वजीवितम् ॥ १५ ॥

आगच्छ दर्शन्न देहि तात मां परितारय
वद वेदमयीं वाणीं पितुरग्रे गुणार्णव ॥ १६ ॥

एवं विलप्य तन्माता राजन्सा पतिता भुवि
दलनाद्राहुदत्तानां लेखा चान्द्रमसी यथा ॥ १७ ॥

अथाजगाम विप्रर्षिर्विमलो नृपसत्तमः
दृष्ट्वा तां पतितां भूमौ किङ्किमित्यभ्यभाषत ॥ १८ ॥

कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणा
पतिता भुवि कल्याणं हरिदत्तस्य विद्यते ॥ १९ ॥

तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप
वयस्या ऊचुः -
अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् ॥ २० ॥

नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः
तस्य विश्लेषशोकेन पतितेयं धरातले ॥ २१ ॥

मूलम्

नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः
तस्य विश्लेषशोकेन पतितेयं धरातले ॥ २१ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः
प्राबोधयन्निजां भार्यामिति वागमृतेन सः ॥ २२ ॥

विमल उवाच-
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि
धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् ॥ २३ ॥

धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत्
सन्तारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे ॥ २४ ॥

क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः
मत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः ॥ २५ ॥

दारा धनागार शरीरबान्धवा एते भवन्ति प्रतिजन्मदुःखदाः
तावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः ॥ २६ ॥

एवं प्रबोधिता तेन धीरेण धरणीतलात्
उत्थाय निजभर्तारमब्रवीद्दीनया गिरा ॥ २७ ॥

भार्योवाच
सर्वं जानाम्यहं कान्त यत्त्वया साधुभाषितम्
कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् ॥ २८ ॥

पुत्रे सति महत्तीर्थे किं वा केशवसेवया
गृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा ॥ २९ ॥

सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैः
तारयन्ति पितॄन्पुत्रा यतः संसारवारिधैः ॥ ३० ॥

स्रष्टारं सर्वजन्तूनां धातारं पुत्रकाम्यया
भज वाञ्छसि चेत्पुत्रं कुलधुर्यं महामते ॥ ३१ ॥

इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः
ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ॥ ३२ ॥

इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजः
स्नात्वा तत्रापि विधिवदिन्द्रप्रस्थमथागमत् ॥ ३३ ॥

कतिभिर्वासरैर्वीर सायङ्कालेऽखिलार्थिदम्
स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ॥ ३४ ॥

निशीथे स्वपतस्तस्य विमलस्यान्तिके विधिः
हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ॥ ३५ ॥

आगत्योत्थापयामास विमलं पुत्रवाञ्च्छकम्
उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ॥ ३६ ॥

ब्रह्मोवाच-
जाने समीतिं चित्तं त्वदीये मनसि स्थितम्
न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ॥ ३७ ॥

एकदा मेरुशिखरे मिलिताः सर्वदेवताः
तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ॥ ३८ ॥

स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिः
प्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ॥ ३९ ॥

इत्युक्तास्तेन ते देवा यथाभिलषितं वरम्
श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ॥ ४० ॥

मयोक्तमिति देवेश देहि मे वरमुत्तमम्
प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ॥ ४१ ॥

ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं मम
इन्द्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ॥ ४२ ॥

इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा
तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ॥ ४३ ॥

श्रीभगवानुवाच
इन्द्रस्य खाण्डवारण्ये इन्द्रप्रस्थाभिधं शुभम्
क्षेत्रं कलिन्दजातीरे मत्तुल्यास्तत्र ये मृताः ॥ ४४ ॥

विरिञ्चे रचिता तत्र स्वकीया द्वारकापुरी
मया शतगुणाम्भोधी तीरस्थायाः पुरा गुणैः ॥ ४५ ॥

तामुल्लङ्घ्य नरो यस्तु तीर्थमन्यन्निषेव्यते
न तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ॥ ४६ ॥

सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः
द्वारका च पुरी मायातीर्थमन्यच्च रक्षति ॥ ४७ ॥

यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम्
अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ॥ ४८ ॥

इत्युक्त्वान्तर्द्धधे विष्णुरहमप्यगमं स्वकम्
लोकं द्विजेन्द्र वैकुण्ठादधोभागे व्यवस्थितम् ॥ ४९ ॥

प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृता
काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ॥ ५० ॥

तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम्
एतत्त्रयमनुल्लङ्घ्य यो गच्छति सितासितम् ॥ ५१ ॥

तस्याहं वाञ्छितं विप्र ददामि खलु नान्यथा
केचिदाहुः सप्तपुरी समपुण्या महर्षयः ॥ ५२ ॥

अयोध्याद्याः शतं ताभ्य इन्द्रप्रस्थं प्रचक्षते
त्वमत्रागत्य विप्रेन्द्र सर्वकामफलप्रदे ॥ ५३ ॥

तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया
यावन्ति सर्वतीर्थानि ब्रह्माण्डकलशोदरे ॥ ५४ ॥

तेभ्यो परिमितं पुण्यं शतनामनि कीर्तिते
सुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ॥ ५५ ॥

स्नानाच्च तव गोविन्दः प्रसन्नात्मा भविष्यति
नारद उवाच-
इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ॥ ५६ ॥

विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत्
इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ॥ ५७ ॥

सुतं वंशकरं देहि मह्यम्भक्ताय ते नमः
इत्युक्ते तेन विप्रेण देववागभवत्तदा ॥ ५८ ॥

देववागुवाच-
पुत्रस्ते धर्मतत्वज्ञो वंशकर्त्ता भविष्यति
प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ॥ ५९ ॥

याहि गेहं विलम्बं मा सुकृतं तेन मज्जनम्
नारद उवाच-
इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ॥ ६० ॥

चचाल जलमादाय द्वारकायाः कमण्डलौ
मार्गे तस्य सखा विप्रो मलयाचलकेतनः ॥ ६१ ॥

मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः
तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ॥ ६२ ॥

यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये
उवाच स च धर्मात्मा सखे मम वचः शृणु ॥ ६३ ॥

यावन्ति भारते क्षेत्रे तीर्थानि विहितानि मे
तावन्ति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ॥ ६४ ॥

नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम्
सखायस्ते वरा भूमावुपकुर्वन्ति ये सखीन् ॥ ६५ ॥

न तैर्ननु समो लोके पितामाताऽथवा सुतः
निर्द्धनं पुरुषं लोके सर्वे मुञ्चन्ति बान्धवाः ॥ ६६ ॥

न मुञ्चन्ति सखायस्तु तस्य दुःखेन दुःखिताः
संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ॥ ६७ ॥

उपदिश्य हरेर्भक्तिमार्गं जन्मेन्धनानलम्
अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ॥ ६८ ॥

दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ॥ ६९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहिन्तायामुत्तरखण्डे कालिन्दीमाहात्म्ये सप्ताधिकद्विशततमोऽध्यायः २०७