सौभरिरुवाच-
विश्वास-प्रस्तुतिः
धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः
नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम् ॥ १ ॥
मूलम्

शिबिरुवाच-
मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते
माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया ॥ २ ॥

इन्द्रप्रस्थेत्र शतशः सन्ति तीर्थानि वै मुने
अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते ॥ ३ ॥

नारद उवाच-
इन्द्रप्रस्थान्तरावर्तिन्येषा या द्वारका नृप
अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे ॥ ४ ॥

काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव
सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः ॥ ५ ॥

सङ्गीतविद्याकुशलः कोकिलामधुरध्वनिः
एकदा स करे वीणां धारयन्वादयन्मुहुः ॥ ६ ॥

कण्ठेन कोकिलालाप मधुरेण नराधिप
गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः ॥ ७ ॥

तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम्
त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः ॥ ८ ॥

मोहितास्तस्य रूपेण कामवेगं न सेहिरे
जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः ॥ ९ ॥

ब्रह्मणो मानसं येन लोभितं भारतीं प्रति
शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम् ॥ १० ॥

ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि
यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचञ्चलाः ॥ ११ ॥

ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे
वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः ॥ १२ ॥

अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ
प्रगायन्कण्ठवीणाभ्यां प्रगायन्स्वरमोहितः ॥ १३ ॥

तासां पतिसुतभ्रातृपितरोऽथ नराधिप
आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति ॥ १४ ॥

तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदन्तिके
यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे ॥ १५ ॥

राजापि तं समाहूय पप्रच्छ रहसि द्विजम्
केन मन्त्रेण भो विप्र मोहितास्ताः पुरस्त्रियः ॥ १६ ॥

तन्ममाचक्ष्व विप्रेन्द्र दास्यामि बहु ते धनम्
नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः ॥ १७ ॥

श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः
उवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः ॥ १८ ॥

द्विज उवाच-
न मन्त्रं नौषधं राजन्विद्यते मयि भिक्षुके
किन्तु ते नगरे सर्वा योषितो ह्यजितेन्द्रियाः ॥ १९ ॥

रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा
स्मरवेगं सहन्ते न राजंस्तव पुरे स्त्रियः ॥ २० ॥

किं करोमि महाराज कोऽपराधोस्ति मे विभो
पुराकृतमिवोल्लङ्घ्यं शासनं न महीपते ॥ २१ ॥

उशीनरशीबे राजन्नेवं कथयति द्विजे
सर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम् ॥ २२ ॥

पौरा ऊचुः -
राजन्ननेन विप्रेण मोहिताः पौरयोषितः
गृहेषु न हि तिष्ठन्ति ह्यस्माभिरनिवारिताः ॥ २३ ॥

यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो
तदा देशान्तराण्येव यास्यामो वयमद्य वै
गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः ॥ २४ ॥

तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिव
विना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर ॥ २५ ॥

अथैनमनुयास्यन्ति वासिताभिर्वृषं यथा
शून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति ॥ २६ ॥

धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतः
कान्ताधर्म धनाधीना तयोर्नाशे न तिष्ठति ॥ २७ ॥

एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः
राजान्तिक उपाविष्टा इत्यूचुस्ताः परस्परम् ॥ २८ ॥

पौरस्त्रिय ऊचुः
कामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नः
उल्लसन्ति दिवाधीशं कमलानीव वारिणि ॥ २९ ॥

सङ्कुचन्ति विना तेन कुमुदानि यथेन्दुना
आगच्छन्तमिलित्वैनन्धारयामोनृपाग्रतः ॥ ३० ॥

अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः
नारद उवाच-
इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम् ॥ ३१ ॥

पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदा
ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् ॥ ३२ ॥

शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः
इत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह ॥ ३३ ॥

विप्र उवाच-
भवतीनामहं पुत्रो भवत्यो मातरो मम
गृहान्किमर्थमुत्सृज्य भवत्यः पर्यटन्ति हि ॥ ३४ ॥

आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम्
आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः ॥ ३५ ॥

प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम्
या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया ॥ ३६ ॥

सापवादमवाप्नोति याति घोरां च दुर्गतिम्
उषित्वा तत्र कल्पान्ते यावत्सा पतिवञ्चना ॥ ३७ ॥

पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते
तस्मादपि पशुत्वं सा लभते बहुजन्मसु ॥ ३८ ॥

ततो मुक्ता मनुष्यत्वे व्यङ्गा भवति तत्र सा
एवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात् ॥ ३९ ॥

नो वा यास्यथ देहान्ते नरकं भृशदारुणम्
यदिच्छन्ति भवन्त्यो मे सुखं तन्नेह लप्स्यथ
पापमेव हि युष्माकं यतोधःपतनं नृणाम् ॥ ४० ॥

श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च
लज्जयानम्र मुख्यस्ता लतावातहता इव ॥ ४१ ॥

तासां तु पुरनारीणां स्मराग्निर्भृशदारुणः
शशाम तस्य शीतेन बटोर्वचनवारिणा ॥ ४२ ॥

उत्थाय चेलुः सर्वास्ता विनिन्दन्त्य इति स्मरम्
ब्रह्मशक्रादिदेवानामपि मोहकरं नृप ॥ ४३ ॥

स्त्रिय ऊचुः
धिगिमं पापकर्माणं शीलदारुकुठारकम्
कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः ॥ ४४ ॥

किं वदेम जगत्पूज्यां रुक्मिणीं जठरे यया
धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचन्द्रभुक् ॥ ४५ ॥

स देवाधम आयाति यदि नो दृष्टगोचरम्
भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे ॥ ४६ ॥

येनायं जनितः पापो ह्यात्मारामेण विष्णुना
कृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा ॥ ४७ ॥

एवं विनिन्द्य तं कामं तुष्टुवुस्तं द्विजोत्तमम्
शीलं स्वस्य च तासां च रक्षितं येन भूपते ॥ ४८ ॥

धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमः
स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः ॥ ४९ ॥

धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः
याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम् ॥ ५० ॥

एवं विचिन्तयन्त्यस्ता एक्यमत्ययुताः स्त्रियः
जग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः ॥ ५१ ॥

अथ राजापि काम्पिल्यस्तं द्विजं वस्त्रभूषणैः
सम्पूज्य प्रेषयामास सद्गृहे संयतेन्द्रियम् ॥ ५२ ॥

अथागच्छति काले तु कारूषाधिपतिर्बली
काम्पिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा ॥ ५३ ॥

तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितः
नगरं लुठितं सर्वं हताः शूराश्च सर्वशः ॥ ५४ ॥

ता स्त्रियः कालकूटं तु खादित्वा मरणं गताः
प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु ॥ ५५ ॥

येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः
राक्षस्यो नगरे जाता महाकाया भयानकाः ॥ ५६ ॥

तत्र ता निहिताः सर्वाः पुरनार्यो हनूमता
यज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने ॥ ५७ ॥

पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि
क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः ॥ ५८ ॥

एवं तेन तु पापेन वाङ्मनोविहितेन तु
ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम् ॥ ५९ ॥

पापेन नाशितं तासां स नृपं नगरद्वयम्
अतएव न कर्त्तव्यं परकान्तनिषेवणम् ॥ ६० ॥

नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो
रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा
न त्याज्यः स्वपतिः स्त्रीभिः इच्छन्तीभिस्तु सद्गतिम् ॥ ६१ ॥

कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकान्तभक्त्या
फलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम् ॥ ६२ ॥

इन्द्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिन्दुदेहपतनात्पौरस्त्रियो रेभिरे
स्वर्गं चित्तवचोऽन्यकान्त भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम् ॥ ६३ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये द्वारकावर्णन्नन्नाम षष्ठाधिकद्विशततमोऽध्यायः २०६