शिवशर्मोवाच-
विश्वास-प्रस्तुतिः
एकदाऽत्र महातीर्थे पङ्के मग्नां पयस्विनीम्
दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं विवेश ह ॥ १ ॥
मूलम्

गोरक्षणे महान्धर्मो रक्षतुः स्वर्गतिर्भवेत्
चिन्तयन्निति मध्ये तु सगृहीतोम्बुहस्तिना ॥ २ ॥

नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा
तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ॥ ३ ॥

दिव्यरूपं समास्थाय विमानमपि ढौकितम्
गणेन प्रहितेनाथ दैवैरिन्द्रपुरोगमैः ॥ ४ ॥

गच्छन्निति मया पृष्टः स निशाचरपुङ्गवः
मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सदुर्लभे ॥ ५ ॥

कथं देवपदप्राप्तिर्जाता तव महामते
इत्युक्तो मामुवाचेदं वाञ्छासीदत्र मेऽनघ ॥ ६ ॥

तस्मिन्गते पुण्यजने स्वर्गं पुण्यवतां पदम्
एकाकिना मया विष्णुः सद्गतिः प्रापितस्तदा ॥ ७ ॥

गच्छंस्तिष्ठन्स्वपन्जाग्रत्स्नानं कुर्वंश्च नित्यशः
तमेव पुण्डरीकाक्षमहं दध्यावनन्यधीः ॥ ८ ॥

हरे तव पदाम्भोजमहं शरणमागतः
ब्रह्मत्वे च महेशत्वे नेन्द्रत्वे मम मानसम् ॥ ९ ॥

प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम्
उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः ॥ १० ॥

विष्णुशर्मोवाच-
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत्
कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ॥ ११ ॥

मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः
राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः ॥ १२ ॥

यस्य तीर्थवरस्यास्य जलपानाद्दिवङ्गताः
तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्य सः ॥ १३ ॥

नक्रतः स्वेच्छया स्वर्गं जगाम तव पश्यतः
न नूनं तत्र मरणं जातं यज्जन्म दृश्यते ॥ १४ ॥

नारद उवाच-
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः
उवाच पूर्ववृत्तान्तं कारणं निजजन्मनः ॥ १५ ॥

विष्णुशर्मन्शृणुष्वेदं कारणं मम जन्मनः
कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव ॥ १६ ॥

एकदा विष्णुपूजायां मयि ध्यानं समास्थिते
दुर्वासाः प्रकृतिक्रोधी ममाश्रममुपागतः ॥ १७ ॥

तमागतमविज्ञाय विष्णुध्यानपरायणः
तस्थिवांस्तदवस्थोऽहं चिरं तं नामसंस्मरन् ॥ १८ ॥

समुहूर्तं मुनिः स्थित्वा ममाग्रे क्रोधमूर्छितः
आत्मनात्मानमाहेदमुच्चैरारक्तलोचनः ॥ १९ ॥

दुर्वासा उवाच-
अहो अत्रेरहं पुत्रोऽनसूयागर्भसम्भवः
शिवांशो मानुषेणालमवज्ञातोऽमुना भवम् ॥ २० ॥

त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः
तं मामपि मनुष्योऽयमवजानाति दुर्मतिः ॥ २१ ॥

यो बिभेति न कः सोसि मत्तः कालानलादिव
मुक्त्वा देवत्रयीं लोके यतः सार्हत्तमा मम ॥ २२ ॥

यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः
न कथं बोधयत्येनं सेति मूर्त्तिस्थितो यमः ॥ २३ ॥

नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम्
यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् ॥ २४ ॥

हरिं वा ब्रह्म वा शम्भुमन्यं वा ध्यायतामहम्
मयायं सर्वथा दण्ड्यो मदवज्ञाकरो ह्ययम् ॥ २५ ॥

एवं विचिन्तयित्वा स सुमतिं मामबोधयत्
शशाप च विबुद्धं मामितिक्रोधारुणेक्षणः ॥ २६ ॥

मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः
कुतस्तेन भवेह्यस्मिन्भविष्यति हि सर्वथा ॥ २७ ॥

इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः
तदा मया चरणयोर्गृहीतोभयभीरुणा ॥ २८ ॥
मूलम्
इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः
तदा मया चरणयोर्गृहीतोभयभीरुणा ॥ २८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्विमुच्यताम्
मादृशा न विजानन्ति सम्यक्कर्म भवादृशाम् ॥ २९ ॥

शापं त्वं दत्तवान्घोरं साम्प्रतं मे निरेनसः
प्रसीद मम नम्रस्य शापान्ते कुर्वनुग्रहम् ॥ ३० ॥

इत्युक्तः कोपमुत्सृज्य दुर्वासा शीतलोभवत्
किमेतन्नोचितं तात स यतश्चन्द्रशेखरः ॥ ३१ ॥

उवाचेति समां धीमांस्तं भूत्वा ब्राह्मणोत्तमः
अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे ॥ ३२ ॥

इति मामनुगृह्याथ स जगाम दिगम्बरः
उषित्वा तद्दिनं तात मया सत्कारपूजितः ॥ ३३ ॥

न मुनेर्भाषितं मिथ्या चिन्तयित्वाहमित्यपि ॥ ३४ ॥

जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निति
अहो मे ध्यायतो नित्यं स तीर्थाश्रमिणस्तथा ॥ ३५ ॥

दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि
चातकस्येव मेघस्य शुचौ सन्तापकारिणि ॥ ३६ ॥

कुतोऽयमागतो मह्यं वैकुण्ठगतिरोधकः
जनस्य प्रस्थितस्येव जलदो कालवारिमुक् ॥ ३७ ॥

न दोषोऽस्ति मुनेर्नूनं तस्यैवेच्छाहरेः खलु
सुदर्शनं हि दत्त्वापि ममजन्मान्तरं कृतम् ॥ ३८ ॥

मया संसारभीतेन ग्राह्यं पादाम्बुजंहरेः
निदाघातपतप्तेन पथिकेनेव पादपः ॥ ३९ ॥
मूलम्
मया संसारभीतेन ग्राह्यं पादाम्बुजंहरेः
निदाघातपतप्तेन पथिकेनेव पादपः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
किं धनापत्ययोषिद्भिरनित्यैश्चान्यबन्धुभिः
गोविन्दपरमानन्द रामेति ममजल्पतः ॥ ४० ॥

उदासीनवदासीनः कुण्टुबेषु हरिं भजन्
प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् ॥ ४१ ॥

चिन्तयन्नित्यहं तात कियद्भिर्वासरैरहम्
प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकान्तरे ॥ ४२ ॥

पितुर्मरणमाख्यातं मात्रे बन्धुभ्य एव च
श्रुत्वा तेऽपि शुचं चक्रुर्नाविन्दन्निममस्थिरम् ॥ ४३ ॥

सत्यलोकादि लोकेषु निस्पृहोऽहं गृहे वसन्
मरणं प्राप्तवान्कूले गङ्गाया मुनिसेविते ॥ ४४ ॥

मुनेर्दुर्वाससः शापाज्जातोऽहं वैष्णवे कुले
मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ॥ ४५ ॥

एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तौ
द्विजोत्तमौ प्रोच्य मिथः सुतस्थतुर्विचिन्तयन्तौ हरिपादपल्लवम् ॥ ४६ ॥

विचिन्तयन्तौ हरिमब्जलोचनं चतुर्भुजं नीरदनीलविग्रहम्
निजायुधालङ्करणावभासितं स्मृत्वात्र सारूप्यमवापतुर्हरेः ॥ ४७ ॥

यस्य क्षेत्रमिमं पुण्यमिन्द्रप्रस्थाख्यमुत्तमम्
तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ॥ ४८ ॥

गङ्गास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत्
श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः ॥ ४९ ॥

पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतौ
गोदावरीजले स्नानाद्यत्फलं भुवि जायते ॥ ५० ॥

तत्फलं श्रवणादस्य जायते नात्र संशयः
अतस्तीर्थोत्तमादन्यत्तीर्थं नास्त्यखिलार्थदम्
यस्मिन्मरणतो नूनं तिर्यञ्चोऽपि चतुर्भुजाः ॥ ५१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये निगमबोधोपाख्यानं नाम पञ्चाधिकद्विशततमोऽध्यायः २०५