२०४

शिवशर्मोवाच-

विश्वास-प्रस्तुतिः

विष्णुशर्मंस्ततो वैश्यः शरभः सह भार्यया
नीत्वा पूजोपकरणं ययौ श्रीचण्डिकालयम् ॥ १ ॥

मूलम्

विष्णुशर्मंस्ततो वैश्यः शरभः सह भार्यया
नीत्वा पूजोपकरणं ययौ श्रीचण्डिकालयम् ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः
आनर्चतुर्भक्तियुक्तौ चण्डिकां पुत्रकाम्यया ॥ २ ॥

मूलम्

तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः
आनर्चतुर्भक्तियुक्तौ चण्डिकां पुत्रकाम्यया ॥ २ ॥

विश्वास-प्रस्तुतिः

श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरम्बिका
उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा ॥ ३ ॥

मूलम्

श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरम्बिका
उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा ॥ ३ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव
ददामि पुत्रं ते साधो यदर्थे यत्नवानसि ॥ ४ ॥

मूलम्

पार्वत्युवाच-
भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव
ददामि पुत्रं ते साधो यदर्थे यत्नवानसि ॥ ४ ॥

विश्वास-प्रस्तुतिः

गच्छ त्वं मा विलम्बस्व वनमैद्रं च खाण्डवम्
तत्र तीर्थं महापुण्यमिन्द्रप्रस्थाख्यमुत्तमम् ॥ ५ ॥

मूलम्

गच्छ त्वं मा विलम्बस्व वनमैद्रं च खाण्डवम्
तत्र तीर्थं महापुण्यमिन्द्रप्रस्थाख्यमुत्तमम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

निगमोद्बोधकं तत्र तीर्थं निखिलकामदम्
बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवाञ्छया ॥ ६ ॥

मूलम्

निगमोद्बोधकं तत्र तीर्थं निखिलकामदम्
बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवाञ्छया ॥ ६ ॥

विश्वास-प्रस्तुतिः

भविष्यति सुतस्तात तव स्नानेन तत्र हि
तत्र स्नात्वा मयाप्यङ्ग लब्धः स्कन्दः सुरारिहा ॥ ७ ॥

मूलम्

भविष्यति सुतस्तात तव स्नानेन तत्र हि
तत्र स्नात्वा मयाप्यङ्ग लब्धः स्कन्दः सुरारिहा ॥ ७ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया
अत्राजगाम सत्तीर्थे सस्नौ च सुतवाञ्छया ॥ ८ ॥

मूलम्

शिवशर्मोवाच-
इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया
अत्राजगाम सत्तीर्थे सस्नौ च सुतवाञ्छया ॥ ८ ॥

विश्वास-प्रस्तुतिः

उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम्
देवान्पितॄंश्च सन्तर्प्य यथाविध्यत्र बुद्धिमान् ॥ ९ ॥

मूलम्

उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम्
देवान्पितॄंश्च सन्तर्प्य यथाविध्यत्र बुद्धिमान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

सप्तरात्रमुषित्वा तु दम्पती यतमानसौ
जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखाम्बुजौ ॥ १० ॥

मूलम्

सप्तरात्रमुषित्वा तु दम्पती यतमानसौ
जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखाम्बुजौ ॥ १० ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम्
व्यतीते नवमे मासि जातोऽहं दशमे शुभे ॥ ११ ॥

मूलम्

तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम्
व्यतीते नवमे मासि जातोऽहं दशमे शुभे ॥ ११ ॥

विश्वास-प्रस्तुतिः

विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया
दशाब्दद्वयमेवैतच्छ्रुतं सर्वं पितुर्मुखात् ॥ १२ ॥

मूलम्

विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया
दशाब्दद्वयमेवैतच्छ्रुतं सर्वं पितुर्मुखात् ॥ १२ ॥

विश्वास-प्रस्तुतिः

एकदा क्षममालोक्य गृहकर्मणि मां पिता
गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन् ॥ १३ ॥

मूलम्

एकदा क्षममालोक्य गृहकर्मणि मां पिता
गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन् ॥ १३ ॥

विश्वास-प्रस्तुतिः

मां चोवाच स धर्मात्मा गोविन्दासक्तमानसः
विनिन्दन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः ॥ १४ ॥

मूलम्

मां चोवाच स धर्मात्मा गोविन्दासक्तमानसः
विनिन्दन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः ॥ १४ ॥

विश्वास-प्रस्तुतिः

पितोवाच-
सुमते वार्द्धकं प्राप्तं पलिताश्चिकुरा मम
गोविन्दचरणाम्भोजं सेविष्ये साधुसेवितम् ॥ १५ ॥

मूलम्

पितोवाच-
सुमते वार्द्धकं प्राप्तं पलिताश्चिकुरा मम
गोविन्दचरणाम्भोजं सेविष्ये साधुसेवितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तत्सैवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम्
स पुमानात्मसन्तुष्टो न किञ्चिदभिवाञ्छति ॥ १६ ॥

मूलम्

तत्सैवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम्
स पुमानात्मसन्तुष्टो न किञ्चिदभिवाञ्छति ॥ १६ ॥

विश्वास-प्रस्तुतिः

निष्कामः सुखदुःखाभ्यां भुञ्जन्सुकृतदुष्कृते
प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः ॥ १७ ॥

मूलम्

निष्कामः सुखदुःखाभ्यां भुञ्जन्सुकृतदुष्कृते
प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तां वद्द्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखम्
तत्प्राप्तौ तद्भवेत्तुच्छं सुधाया इव तक्रकम् ॥ १८ ॥

मूलम्

तां वद्द्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखम्
तत्प्राप्तौ तद्भवेत्तुच्छं सुधाया इव तक्रकम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

हरेर्मायाबलवतीयं मोहयति देहिनम्
हितानि तं न जानाति स यथा मदिरामदः ॥ १९ ॥

मूलम्

हरेर्मायाबलवतीयं मोहयति देहिनम्
हितानि तं न जानाति स यथा मदिरामदः ॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तिं च निवृत्तिं च विद्ययाविद्यया च सः
करोति स्वेच्छया काले बाललीलो हि स प्रभुः ॥ २० ॥

मूलम्

प्रवृत्तिं च निवृत्तिं च विद्ययाविद्यया च सः
करोति स्वेच्छया काले बाललीलो हि स प्रभुः ॥ २० ॥

विश्वास-प्रस्तुतिः

वेदोदितं यदा कर्म क्रियते फलमिच्छता
प्रवृत्तिं सा परा तात तेषामर्पणमीश्वरे ॥ २१ ॥

मूलम्

वेदोदितं यदा कर्म क्रियते फलमिच्छता
प्रवृत्तिं सा परा तात तेषामर्पणमीश्वरे ॥ २१ ॥

विश्वास-प्रस्तुतिः

यथा निर्दग्धाबीजानि न प्ररोहन्ति यत्नतः
यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु ॥ २२ ॥

मूलम्

यथा निर्दग्धाबीजानि न प्ररोहन्ति यत्नतः
यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु ॥ २२ ॥

विश्वास-प्रस्तुतिः

कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम्
तदुत्पत्तिस्तु बन्धः स्यादित्यसौ शास्त्रनिर्णयः ॥ २३ ॥

मूलम्

कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम्
तदुत्पत्तिस्तु बन्धः स्यादित्यसौ शास्त्रनिर्णयः ॥ २३ ॥

विश्वास-प्रस्तुतिः

अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम्
पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः ॥ २४ ॥

मूलम्

अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम्
पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः ॥ २४ ॥

विश्वास-प्रस्तुतिः

एवं प्रारब्धकर्माणि भुञ्जन्नान्यान्यतर्जयन्
हनिष्यामि जगद्रोगं पीत्वा सत्सङ्गमौषधम् ॥ २५ ॥

मूलम्

एवं प्रारब्धकर्माणि भुञ्जन्नान्यान्यतर्जयन्
हनिष्यामि जगद्रोगं पीत्वा सत्सङ्गमौषधम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः
अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः ॥ २६ ॥

मूलम्

शिवशर्मोवाच-
एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः
अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः ॥ २६ ॥

विश्वास-प्रस्तुतिः

वैश्यपुत्र उवाच-
अयं जनो दुराराध्यः कथयिष्यति नो यशः
दुष्टकुटुम्बादुद्विज्य निःसृत्य गत इत्ययम् ॥ २७ ॥

मूलम्

वैश्यपुत्र उवाच-
अयं जनो दुराराध्यः कथयिष्यति नो यशः
दुष्टकुटुम्बादुद्विज्य निःसृत्य गत इत्ययम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

इयं विष्णुपदी तात भुवनत्रयपावनी
स्मृता हरत्यघं दूरात्कस्मादेनां विमुञ्चसि ॥ २८ ॥

मूलम्

इयं विष्णुपदी तात भुवनत्रयपावनी
स्मृता हरत्यघं दूरात्कस्मादेनां विमुञ्चसि ॥ २८ ॥

विश्वास-प्रस्तुतिः

पापकारी जनस्तात म्रियते मगधे तु यः
सोप्यस्तपापो गङ्गायां स्वर्याति त्यजमाशुभम् ॥ २९ ॥

मूलम्

पापकारी जनस्तात म्रियते मगधे तु यः
सोप्यस्तपापो गङ्गायां स्वर्याति त्यजमाशुभम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः
कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम् ॥ ३० ॥

मूलम्

पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः
कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम्
मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम् ॥ ३१ ॥

मूलम्

तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम्
मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मावजानीहि सामीप्ये गङ्गा त्रिदशमानिताम्
यदिच्छसि महाभाग सेवितैषा प्रदास्यति ॥ ३२ ॥

मूलम्

मावजानीहि सामीप्ये गङ्गा त्रिदशमानिताम्
यदिच्छसि महाभाग सेवितैषा प्रदास्यति ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तिर्यञ्चोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः
भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया ॥ ३३ ॥

मूलम्

तिर्यञ्चोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः
भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया ॥ ३३ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः
उवास सदने सर्वविषयेभ्यः पराङ्मुखः ॥ ३४ ॥

मूलम्

शिवशर्मोवाच-
निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः
उवास सदने सर्वविषयेभ्यः पराङ्मुखः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन्
पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः ॥ ३५ ॥

मूलम्

त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन्
पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एकदाकर्णयन्धीरो यमुनातीर्थगौरवम्
तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः ॥ ३६ ॥

मूलम्

एकदाकर्णयन्धीरो यमुनातीर्थगौरवम्
तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात्
अयोध्याद्वारिका काञ्ची मथुराभ्यस्तथान्यतः ॥ ३७ ॥

मूलम्

अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात्
अयोध्याद्वारिका काञ्ची मथुराभ्यस्तथान्यतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम्
कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता ॥ ३८ ॥

मूलम्

सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम्
कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता ॥ ३८ ॥

विश्वास-प्रस्तुतिः

त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः
आवामिव महाभागो गोविन्दपदसेवकः ॥ ३९ ॥

मूलम्

त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः
आवामिव महाभागो गोविन्दपदसेवकः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अत्रागत्य महाभागो मत्पिता मोक्षवाञ्छया
निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् ॥ ४० ॥

मूलम्

अत्रागत्य महाभागो मत्पिता मोक्षवाञ्छया
निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् ॥ ४० ॥

विश्वास-प्रस्तुतिः

उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः ॥ ४१ ॥

मूलम्

उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि
एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः ॥ ४२ ॥

मूलम्

कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि
एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

महत्या पीडया तस्य मुमोह गतचेतनः
मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित ॥ ४३ ॥

मूलम्

महत्या पीडया तस्य मुमोह गतचेतनः
मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पश्चात्समागतप्राणो विचिन्त्य यदिदं तदा
अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः ॥ ४४ ॥

मूलम्

पश्चात्समागतप्राणो विचिन्त्य यदिदं तदा
अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

यो मां ज्वरवितप्ताङ्गमाश्वासयति बुद्धिमान्
अगम्यागमनं पापं कृतं यन्मे सुदारुणम् ॥ ४५ ॥

मूलम्

यो मां ज्वरवितप्ताङ्गमाश्वासयति बुद्धिमान्
अगम्यागमनं पापं कृतं यन्मे सुदारुणम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत्
आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति ॥ ४६ ॥

मूलम्

प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत्
आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति ॥ ४६ ॥

विश्वास-प्रस्तुतिः

यन्मया गोपितं गेहे न दृष्टं च तदप्यहम्
शिवशर्मोवाच-
इति चिन्तयतस्तस्य पान्थो वर्षेण पीडितः ॥ ४७ ॥

मूलम्

यन्मया गोपितं गेहे न दृष्टं च तदप्यहम्
शिवशर्मोवाच-
इति चिन्तयतस्तस्य पान्थो वर्षेण पीडितः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

शीतार्तः कम्पितवपुरुटजं प्राविशत्तदा
स तं संविष्टमालोक्य भूयो गत्वा तदन्तिके ॥ ४८ ॥

मूलम्

शीतार्तः कम्पितवपुरुटजं प्राविशत्तदा
स तं संविष्टमालोक्य भूयो गत्वा तदन्तिके ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मुनिरेष इति ज्ञात्वा ववन्दे शिरसाध्वगः
ऊचे च कस्मात्सुप्तोसि मुने सन्ध्या समागता ॥ ४९ ॥

मूलम्

मुनिरेष इति ज्ञात्वा ववन्दे शिरसाध्वगः
ऊचे च कस्मात्सुप्तोसि मुने सन्ध्या समागता ॥ ४९ ॥

विश्वास-प्रस्तुतिः

रविरस्तं प्रयात्येष न सुप्तेः काल एष ते
इत्युक्तमात्रे वचसि पथिकेन पिता मम ॥ ५० ॥

मूलम्

रविरस्तं प्रयात्येष न सुप्तेः काल एष ते
इत्युक्तमात्रे वचसि पथिकेन पिता मम ॥ ५० ॥

विश्वास-प्रस्तुतिः

शरभो ज्वरतप्ताङ्गस्तमाह कथमप्यहो
शरभ उवाच-
श्रूयतां वचनं पान्थ यद्वदामि पुरस्तव ॥ ५१ ॥

मूलम्

शरभो ज्वरतप्ताङ्गस्तमाह कथमप्यहो
शरभ उवाच-
श्रूयतां वचनं पान्थ यद्वदामि पुरस्तव ॥ ५१ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम्
वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम ॥ ५२ ॥

मूलम्

श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम्
वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अत्रागतो निषिद्धोपि जायामित्रसुतैरहम्
अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरितम् ॥ ५३ ॥

मूलम्

अत्रागतो निषिद्धोपि जायामित्रसुतैरहम्
अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरितम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

मासास्तु कतिचित्साधो व्यतीता मयि चागते
दिनत्रयमतिक्रान्तं ज्वरितस्य ममाधुना ॥ ५४ ॥

मूलम्

मासास्तु कतिचित्साधो व्यतीता मयि चागते
दिनत्रयमतिक्रान्तं ज्वरितस्य ममाधुना ॥ ५४ ॥

विश्वास-प्रस्तुतिः

प्राणा मे विगता आसन्नद्यभूयः समागताः
कियानप्यायुषः शेषः साधो मे खलु तिष्ठति ॥ ५५ ॥

मूलम्

प्राणा मे विगता आसन्नद्यभूयः समागताः
कियानप्यायुषः शेषः साधो मे खलु तिष्ठति ॥ ५५ ॥

विश्वास-प्रस्तुतिः

शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः
भाग्योदयेन केनापि ममात्र त्वं समागतः ॥ ५६ ॥

मूलम्

शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः
भाग्योदयेन केनापि ममात्र त्वं समागतः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते
दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे ॥ ५७ ॥

मूलम्

नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते
दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे ॥ ५७ ॥

विश्वास-प्रस्तुतिः

इह भूभाग उत्खाय गृह्यतां मामकं धनम्
शिवशर्मोवाच-
इत्याकर्ण्य स दुर्बुद्धिर्ग्राम्यो विषयलम्पटः ॥ ५८ ॥

मूलम्

इह भूभाग उत्खाय गृह्यतां मामकं धनम्
शिवशर्मोवाच-
इत्याकर्ण्य स दुर्बुद्धिर्ग्राम्यो विषयलम्पटः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम्
इत्युक्त्वा धनमुत्खाय तस्माद्भूभागतस्तदा ॥ ५९ ॥

मूलम्

उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम्
इत्युक्त्वा धनमुत्खाय तस्माद्भूभागतस्तदा ॥ ५९ ॥

विश्वास-प्रस्तुतिः

अग्रतः स्थापयामास शरभस्याह चाध्वगः
अध्वग उवाच-
धनमेतद्विशान्नाथ तव भूभागतो मया ॥ ६० ॥

मूलम्

अग्रतः स्थापयामास शरभस्याह चाध्वगः
अध्वग उवाच-
धनमेतद्विशान्नाथ तव भूभागतो मया ॥ ६० ॥

विश्वास-प्रस्तुतिः

निष्कासितं प्रयच्छाशु शिबिकानयनाय मे
यामारोप्य ज्वरार्तं त्वां नयामि तव केतनम् ॥ ६१ ॥

मूलम्

निष्कासितं प्रयच्छाशु शिबिकानयनाय मे
यामारोप्य ज्वरार्तं त्वां नयामि तव केतनम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयम्
सोपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम् ॥ ६२ ॥

मूलम्

शिवशर्मोवाच-
इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयम्
सोपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदाम्
सवाहामानयत्पुत्र दत्त्वा स्वर्णपलद्वयम् ॥ ६३ ॥

मूलम्

उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदाम्
सवाहामानयत्पुत्र दत्त्वा स्वर्णपलद्वयम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

पलं द्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना
आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम् ॥ ६४ ॥

मूलम्

पलं द्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना
आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

पान्थः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम्
अस्य तीर्थवरस्याथ कमण्डलुजलं धृतम् ॥ ६५ ॥

मूलम्

पान्थः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम्
अस्य तीर्थवरस्याथ कमण्डलुजलं धृतम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

पाययन्नल्पमल्पं तं तृषार्तं सोध्वगो ययौ
अथ ते सरसस्तीरे उत्तीर्णा भोक्तुमध्वनि ॥ ६६ ॥

मूलम्

पाययन्नल्पमल्पं तं तृषार्तं सोध्वगो ययौ
अथ ते सरसस्तीरे उत्तीर्णा भोक्तुमध्वनि ॥ ६६ ॥

विश्वास-प्रस्तुतिः

स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः
कियन्ति भूमिमुल्लङ्घ्य तृषार्तांस्ते कमण्डलोः ॥ ६७ ॥

मूलम्

स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः
कियन्ति भूमिमुल्लङ्घ्य तृषार्तांस्ते कमण्डलोः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययत्
अथ कश्चिन्महाभीमो विकटो नाम राक्षसः ॥ ६८ ॥

मूलम्

जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययत्
अथ कश्चिन्महाभीमो विकटो नाम राक्षसः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत
तान्दृष्ट्वा स क्षुधाक्रान्तो वेगवान्विवृताननः ॥ ६९ ॥

मूलम्

विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत
तान्दृष्ट्वा स क्षुधाक्रान्तो वेगवान्विवृताननः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

अभिदुद्राव चरणाघातेनाकम्पयन्महीम्
आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम् ॥ ७० ॥

मूलम्

अभिदुद्राव चरणाघातेनाकम्पयन्महीम्
आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

सकोशेषु समादाय भ्रामयामास खेचरः
गतासून्भ्रामणेनैव भूतले तानपोथयत् ॥ ७१ ॥

मूलम्

सकोशेषु समादाय भ्रामयामास खेचरः
गतासून्भ्रामणेनैव भूतले तानपोथयत् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

चखाद पिशितं तेषां पपौ कोशाच्च शोणितम्
कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम ॥ ७२ ॥

मूलम्

चखाद पिशितं तेषां पपौ कोशाच्च शोणितम्
कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम ॥ ७२ ॥

विश्वास-प्रस्तुतिः

एनं तु भक्षयिष्यामि पश्चादम्बु पिबाम्यहम्
इति कृत्वा मतिर्वारितीर्थस्यास्य कमण्डलोः ॥ ७३ ॥

मूलम्

एनं तु भक्षयिष्यामि पश्चादम्बु पिबाम्यहम्
इति कृत्वा मतिर्वारितीर्थस्यास्य कमण्डलोः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

मुखे चिक्षेप स तदा रजनीचरपुङ्गवः
क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः ॥ ७४ ॥

मूलम्

मुखे चिक्षेप स तदा रजनीचरपुङ्गवः
क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

जाता स तु वधात्तस्य शरभस्य न्यवर्तत
पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत् ॥ ७५ ॥

मूलम्

जाता स तु वधात्तस्य शरभस्य न्यवर्तत
पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

येन राक्षसभावस्तु भूतो विप्रोद्भवादपि
स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु
उवाच ज्ञानमापन्नो राक्षसः पितरं मम ॥ ७६ ॥

मूलम्

येन राक्षसभावस्तु भूतो विप्रोद्भवादपि
स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु
उवाच ज्ञानमापन्नो राक्षसः पितरं मम ॥ ७६ ॥

विश्वास-प्रस्तुतिः

राक्षस उवाच-
भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी
भक्षिता ये मया घोर रूपेणाधमरक्षसा ॥ ७७ ॥

मूलम्

राक्षस उवाच-
भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी
भक्षिता ये मया घोर रूपेणाधमरक्षसा ॥ ७७ ॥

विश्वास-प्रस्तुतिः

कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः
पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम ॥ ७८ ॥

मूलम्

कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः
पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम ॥ ७८ ॥

विश्वास-प्रस्तुतिः

वैश्य उवाच-
वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम
तीर्थानि पर्यटन्निन्द्रप्रस्थेऽहं समुपागतः ॥ ७९ ॥

मूलम्

वैश्य उवाच-
वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम
तीर्थानि पर्यटन्निन्द्रप्रस्थेऽहं समुपागतः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

तत्राहमभवं दुःखी ज्वरेण विधियोगतः
ततो मे बुद्धिरुत्पन्ना गन्तुं गृहमसत्पथ
तत्र कश्चित्समायातः पान्थो वर्षेण पीडितः ॥ ८० ॥

मूलम्

तत्राहमभवं दुःखी ज्वरेण विधियोगतः
ततो मे बुद्धिरुत्पन्ना गन्तुं गृहमसत्पथ
तत्र कश्चित्समायातः पान्थो वर्षेण पीडितः ॥ ८० ॥

विश्वास-प्रस्तुतिः

प्रार्थितः स मयानीय शिबिकां मां गृहं नय
स चायं शिबिकां पान्थः समुपानीय सत्वरः ॥ ८१ ॥

मूलम्

प्रार्थितः स मयानीय शिबिकां मां गृहं नय
स चायं शिबिकां पान्थः समुपानीय सत्वरः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति
स पान्थस्ते च शिबिकावाहाः सम्प्रति भक्षिताः ॥ ८२ ॥

मूलम्

मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति
स पान्थस्ते च शिबिकावाहाः सम्प्रति भक्षिताः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु
इन्द्रस्य खाण्डववने यमुनास्ति सरिद्वरा ॥ ८३ ॥

मूलम्

त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु
इन्द्रस्य खाण्डववने यमुनास्ति सरिद्वरा ॥ ८३ ॥

विश्वास-प्रस्तुतिः

तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम्
सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम् ॥ ८४ ॥

मूलम्

तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम्
सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात्
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहम्मिह त्वया ॥ ८५ ॥

मूलम्

निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात्
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहम्मिह त्वया ॥ ८५ ॥

विश्वास-प्रस्तुतिः

पृच्छामि त्वामहं किञ्चित्तद्वदाशु निशाचर
पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना
वद किं ते कृतं पापं येन जातोऽसि राक्षसः ॥ ८६ ॥

मूलम्

पृच्छामि त्वामहं किञ्चित्तद्वदाशु निशाचर
पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना
वद किं ते कृतं पापं येन जातोऽसि राक्षसः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

राक्षस उवाच-
पुराहमभवं विप्रः पुण्ये वेदविदां कुले
दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते ॥ ८७ ॥

मूलम्

राक्षस उवाच-
पुराहमभवं विप्रः पुण्ये वेदविदां कुले
दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते ॥ ८७ ॥

विश्वास-प्रस्तुतिः

क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः
हारितं द्रविणं भूरि स्वकीयं पितुरेव च ॥ ८८ ॥

मूलम्

क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः
हारितं द्रविणं भूरि स्वकीयं पितुरेव च ॥ ८८ ॥

विश्वास-प्रस्तुतिः

पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः
पुरान्निःसारितो निःस्वो गतोऽहं ग्राममन्तिके ॥ ८९ ॥

मूलम्

पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः
पुरान्निःसारितो निःस्वो गतोऽहं ग्राममन्तिके ॥ ८९ ॥

विश्वास-प्रस्तुतिः

तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः
तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम् ॥ ९० ॥

मूलम्

तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः
तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम्
कामातुरोऽहमभजं बलान्मित्रे गते क्वचित् ॥ ९१ ॥

मूलम्

वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम्
कामातुरोऽहमभजं बलान्मित्रे गते क्वचित् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

सा मृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम्
तां दृष्ट्वा तमसायुक्ते निशीथेऽहं पलायितः ॥ ९२ ॥

मूलम्

सा मृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम्
तां दृष्ट्वा तमसायुक्ते निशीथेऽहं पलायितः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

पलायमानस्तरसा धृतोऽहं राजकिङ्करैः
चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम ॥ ९३ ॥

मूलम्

पलायमानस्तरसा धृतोऽहं राजकिङ्करैः
चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम ॥ ९३ ॥

विश्वास-प्रस्तुतिः

मृतं मां यातनादेहमावेश्य यमकिङ्कराः
रौरवे निरयघोरे चिक्षिपुर्यमशासनात् ॥ ९४ ॥

मूलम्

मृतं मां यातनादेहमावेश्य यमकिङ्कराः
रौरवे निरयघोरे चिक्षिपुर्यमशासनात् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

षष्टिवर्षसहस्राणि तत्राऽहं तीव्रयातनाम्
भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः ॥ ९५ ॥

मूलम्

षष्टिवर्षसहस्राणि तत्राऽहं तीव्रयातनाम्
भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

शतवर्षाण्यतीतानि राक्षसत्वे विशाम्पते
वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयाम् ॥ ९६ ॥

मूलम्

शतवर्षाण्यतीतानि राक्षसत्वे विशाम्पते
वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयाम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

पुण्यं तदर्पिते साधो वदामि शृणु सादरम्
येन तीर्थवरस्येदं जलं मम मुखे गतम् ॥ ९७ ॥

मूलम्

पुण्यं तदर्पिते साधो वदामि शृणु सादरम्
येन तीर्थवरस्येदं जलं मम मुखे गतम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतम्
संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतम् ॥ ९८ ॥

मूलम्

तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतम्
संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

द्वादश्यामथ संस्नात्वा भोक्तुम्मपि समुद्यते
मद्गृहे कश्चिदायातो वैष्णवो विष्णुरूपधृक् ॥ ९९ ॥

मूलम्

द्वादश्यामथ संस्नात्वा भोक्तुम्मपि समुद्यते
मद्गृहे कश्चिदायातो वैष्णवो विष्णुरूपधृक् ॥ ९९ ॥

कुपितोऽहं तमालोक्य दुर्वचो वदमग्रतः
क्व गच्छसि दुराचार दाम्भिकस्त्रीजनान्तरे १००
इत्युक्तं स मया धीरस्तुल्यो मानापमानयोः
तूष्णीमेव निकेतान्मे निर्गत्य चलितो यदा १०१
तदाभिमुखमायान्ती पत्नी मम पतिव्रता
पतित्वा पादयोस्तस्य तं साधुं गृहमानयत् १०२
मयापमानितस्यापि न क्रोधोऽभून्महात्मनः
तयादृतस्याप्यानन्दो यतः सोरि सुहृत्समः १०३
तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा
भोज्यं भोजय जीवेश जयताद्भुवनत्रयम् १०४
इत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम्
म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम् १०५
इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा
प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम् १०६
अददां पात्रमन्नेन पूर्णं तस्मै विवेकिने
जलं च तत्करे साध्व्या प्रेरितोऽहं तया मुहुः १०७
उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः
हरेराम हरेकृष्ण जपन्निति जगाम ह १०८
कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया
पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे १०९
शिवशर्मोवाच-
विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे
पथिकः स च ते वाहाः प्राहुः खे दिव्यदेहिनः ११०
पथिकवाहा ऊचुः
भो भो विशाम्पते साधो प्राप्ता अप्यपमृत्युताम्
त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः १११
त्वत्सङ्गे धनलोभेन विट्पते चलिता यतः
विगता न धनाकाङ्क्षा मरणावसरेप्यतः ११२
तीर्थराजजलस्यास्य तिष्ठतो जठरे हि नः
मरणे ह्यनुभावात्तु मैत्री प्राप्ता धनेशितुः ११३
नमामस्त्वां वयं यामो धनेश नगरीं प्रभो
विमानैस्तद्गणानीतैर्नानामणिविभूषितैः ११४
प्रयाहि मा विलम्बस्व तीर्थे निगमबोधके
त्वमनेनसमं साधो तारयैनमपि द्रुतम् ११५
शिवशर्मोवाच-
इत्युक्त्वा ते गतास्तात दिश्युदीच्यां समन्ततः
विमानकिङ्किणीनादैर्नादयन्तोऽथ रोदसी ११६
अथ वैश्यो मम पिता तमाह रजनीचरम्
शरभ उवाच-
उत्तिष्ठ नय मामाशु तीर्थे निगमबोधके ११७
ज्वरार्त्तेन मया पद्भ्यां तत्र गन्तुं न शक्यते
यो मां नयति तत्तीर्थं त्वदन्यो नास्ति कश्चन ११८
शिवशर्मोवाच-
तथेति तमथाश्वास्य वैश्यं स रजनीचरः
स्कन्धमारोप्य वेगेन तत्तीर्थं पावनं ययौ ११९
ऊषतुस्तावुभौ तत्र विश्पतिः स च राक्षसः
कुर्वन्तौ स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे १२०
अथाऽहं पितुराकर्ण्य महतीं गुरुवेदनाम्
तं प्रति प्रेरितो मात्रा चलितो निजसद्मतः १२१
अत्रागत्य मया दृष्टः स महाज्वरपीडितः
मूर्ध्ना च वन्दितस्तेन दत्ताशीर्मेऽभ्यभाषि च १२२
शरभ उवाच-
किमर्थमिह भो तात दूरमार्गे समागतः
दिनानि कतिचित्तिष्ठन्कुर्वन्नत्र निजक्रियाम् १२३
विकटो नाम मे मित्रः राक्षसः समुपैति वै
उत्तिष्ठ वपुषामुष्य दण्डवत्पत पादयोः १२४
न भेतव्यं त्वयामुष्मात्त्यक्तहिंसादि कर्मणः
अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति १२५
शिवशर्मोवाच-
इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना
उत्थाय पतितस्तस्य पादयोर्दण्डवद्भुवि १२६
दोर्भ्यामुत्थाप्य मां सोऽथ गाढमालिङ्ग्य राक्षसः
स्वागतं मित्रपुत्रेति जगादाशिषमीरयन् १२७
राक्षस उवाच-
भाग्यवानसि भो तात यत्त्वमत्र समागतः
पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम् १२८
पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकम्
स्नात्वा कुरु क्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि १२९
शिवशर्मोवाच-
एवमुक्तस्तदा तेन स्नातुं तीर्थे वराम्भसि
प्रविष्टोऽहं स्मरंस्तात पूर्वजन्मशुभाशुभम् १३०
स्नात्वा विधिवदत्रैव पितुरन्तिकमागतः
अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति १३१
पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च
श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै १३२
पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा
यास्यामि गृहमित्यत्र दशोषितमहानि मे १३३
दशाहाभ्यन्तरे तात तातस्य मरणं मम
अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः १३४
अथो गरुडमारुह्य वक्षसो धारयन्श्रियम्
आजगाम स्वयं विष्णुर्नवीन घनविग्रहः १३५
पीतवासा चतुर्बाहुः पङ्कजारुणलोचनः
ब्रह्मेन्द्रादिभिरादिव्यैः सनाथैरन्धकारिणा १३६
सेव्यमानो गुणग्रामान्गायद्भिः किन्नरैः सह
हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः १३७
दत्त्वा स्वकीय सारूप्यमारोप्य गरुडं तदा
पितरं मम ब्रह्माद्यैर्वृतो वैकुण्ठमारुहत् १३८
पितुः सारूप्यमालोक्य विष्णोरहमचिन्तयम्
इति चित्ते तदालोक्य जाततत्वोदये तदा १३९
न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः
महिमा यज्जलार्द्धे स्यान्मृतो जन्तुश्चतुर्भुजः १४०
न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु
अञ्जसा दृढमाहात्म्यं धनरोगादितृष्ण्या १४१
पितुरत्रोटजे तावत्स्थातव्यं हि मया मम
यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले १४२
एवं विचिन्तयित्वा च पितुः कृत्वा तु सत्क्रियाम्
रक्षसा तेन सहितः स्थितोऽहं मोक्षवाञ्छया १४३
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिं
दीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः २०४