२०३

देवल उवाच

विश्वास-प्रस्तुतिः

अथोषसि नराधीशः पूजितां कुसुमादिभिः
महिष्या नन्दिनीं धेनुं नीत्वारण्यं जगाम सः ॥ १ ॥

मूलम्

अथोषसि नराधीशः पूजितां कुसुमादिभिः
महिष्या नन्दिनीं धेनुं नीत्वारण्यं जगाम सः ॥ १ ॥

विश्वास-प्रस्तुतिः

गच्छन्तीमनु तां देवीं छायेव नृपतिर्ययौ
खादन्तीमनुशष्पादि सोऽपि मूलाद्यभक्षयत् ॥ २ ॥

मूलम्

गच्छन्तीमनु तां देवीं छायेव नृपतिर्ययौ
खादन्तीमनुशष्पादि सोऽपि मूलाद्यभक्षयत् ॥ २ ॥

विश्वास-प्रस्तुतिः

तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान्
पिबन्तीमनुपानीयं राजापि सलिलं पपौ ॥ ३ ॥

मूलम्

तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान्
पिबन्तीमनुपानीयं राजापि सलिलं पपौ ॥ ३ ॥

विश्वास-प्रस्तुतिः

स च राजा मृदुग्रासैर्दंशापनयनेन च
कण्डूयनैः कामधेनुं गुरोरेवमसेवत ॥ ४ ॥

मूलम्

स च राजा मृदुग्रासैर्दंशापनयनेन च
कण्डूयनैः कामधेनुं गुरोरेवमसेवत ॥ ४ ॥

विश्वास-प्रस्तुतिः

अथ प्रत्याश्रमं सायं न्यवर्त्तन्त महीपतेः
अङ्गं पवित्रयन्ती सा खुरोद्धूतैरजःकणैः ॥ ५ ॥

मूलम्

अथ प्रत्याश्रमं सायं न्यवर्त्तन्त महीपतेः
अङ्गं पवित्रयन्ती सा खुरोद्धूतैरजःकणैः ॥ ५ ॥

विश्वास-प्रस्तुतिः

अधोभारेण गुरुणा गच्छन्ती मन्थरं बभौ
महीपालमहत्कार्यभाराक्रान्तेव नन्दिनी ॥ ६ ॥

मूलम्

अधोभारेण गुरुणा गच्छन्ती मन्थरं बभौ
महीपालमहत्कार्यभाराक्रान्तेव नन्दिनी ॥ ६ ॥

विश्वास-प्रस्तुतिः

तां मुनेराश्रमाभ्याशे राज्ञी प्रत्युज्जगाम ह
चन्दनाक्षतनैवेद्यधूपादीनुपनीय च ॥ ७ ॥

मूलम्

तां मुनेराश्रमाभ्याशे राज्ञी प्रत्युज्जगाम ह
चन्दनाक्षतनैवेद्यधूपादीनुपनीय च ॥ ७ ॥

विश्वास-प्रस्तुतिः

तां पूजयित्वा विधिवत्प्रणम्य च पुनः पुनः
कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्राञ्जलिरग्रतः ॥ ८ ॥

मूलम्

तां पूजयित्वा विधिवत्प्रणम्य च पुनः पुनः
कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्राञ्जलिरग्रतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया
राज्ञा निश्चलमास्थाय ययौ ताभ्यां सहाश्रमम् ॥ ९ ॥

मूलम्

सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया
राज्ञा निश्चलमास्थाय ययौ ताभ्यां सहाश्रमम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

आराधयति तामेवं दिलीपे तु दृढव्रते
एकाधिका व्यतीयाय दिनानां वैश्य विंशतिः ॥ १० ॥

मूलम्

आराधयति तामेवं दिलीपे तु दृढव्रते
एकाधिका व्यतीयाय दिनानां वैश्य विंशतिः ॥ १० ॥

विश्वास-प्रस्तुतिः

अथ भूमिपतेस्तस्य भावजिज्ञासया तु सा
विवेश निर्भयस्वान्ता सशष्पां हिमवद्गुहाम् ॥ ११ ॥

मूलम्

अथ भूमिपतेस्तस्य भावजिज्ञासया तु सा
विवेश निर्भयस्वान्ता सशष्पां हिमवद्गुहाम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

पश्यता हिमवत्सानु शोभामथ महीभृता
अलक्षितागमः सिंहो बलाज्जग्राह नन्दिनीम् ॥ १२ ॥

मूलम्

पश्यता हिमवत्सानु शोभामथ महीभृता
अलक्षितागमः सिंहो बलाज्जग्राह नन्दिनीम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

सा चक्रन्द भृशं धेनुर्दुःखितेव दयास्वना
चित्ते धनुर्भृतस्तस्य जनयन्ती दयोदयम् ॥ १३ ॥

मूलम्

सा चक्रन्द भृशं धेनुर्दुःखितेव दयास्वना
चित्ते धनुर्भृतस्तस्य जनयन्ती दयोदयम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तदाक्रन्दितमाकर्ण्य तस्याः स जगतीपतिः
हिमवत्सानुसंलग्नां निजदृष्टिं न्यवर्त्तयत् ॥ १४ ॥

मूलम्

तदाक्रन्दितमाकर्ण्य तस्याः स जगतीपतिः
हिमवत्सानुसंलग्नां निजदृष्टिं न्यवर्त्तयत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

उपर्युपरि तां धेनुं स्रवदश्रुमुखीं नृपः
तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा स व्यथितोऽभवत् ॥ १५ ॥

मूलम्

उपर्युपरि तां धेनुं स्रवदश्रुमुखीं नृपः
तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा स व्यथितोऽभवत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

गृहीतां तेन सिंहेन तामालक्ष्य धनुर्द्धरः
निषङ्गाद्बाणमुद्धर्तुं प्राहिणोद्दक्षिणं भुजम् ॥ १६ ॥

मूलम्

गृहीतां तेन सिंहेन तामालक्ष्य धनुर्द्धरः
निषङ्गाद्बाणमुद्धर्तुं प्राहिणोद्दक्षिणं भुजम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

बाणमुद्धृत्य तूणीरान्निहन्तुं तं मृगाधिपम्
गुणेनापूर्णमायोज्य चकर्ष वसुधाधिपः ॥ १७ ॥

मूलम्

बाणमुद्धृत्य तूणीरान्निहन्तुं तं मृगाधिपम्
गुणेनापूर्णमायोज्य चकर्ष वसुधाधिपः ॥ १७ ॥

विश्वास-प्रस्तुतिः

जडीभूतः समस्ताङ्गस्तत्सिंहालोकनेन सः
नाशकद्बाणमुत्सृष्टुं राजासीद्विस्मितस्ततः ॥ १८ ॥

मूलम्

जडीभूतः समस्ताङ्गस्तत्सिंहालोकनेन सः
नाशकद्बाणमुत्सृष्टुं राजासीद्विस्मितस्ततः ॥ १८ ॥

विश्वास-प्रस्तुतिः

तादृशं नृपमालक्ष्य जगाद स मृगाधिपः
नरवाचा भृशं भूयो विस्मयं प्रापयन्निदम् ॥ १९ ॥

मूलम्

तादृशं नृपमालक्ष्य जगाद स मृगाधिपः
नरवाचा भृशं भूयो विस्मयं प्रापयन्निदम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

सिंह उवाच-
दिलीपं त्वामहं राजन्जानामि रविवंशजम्
त्वं च जानीहि मां शम्भोर्गणं कुम्भोदराभिधम् ॥ २० ॥

मूलम्

सिंह उवाच-
दिलीपं त्वामहं राजन्जानामि रविवंशजम्
त्वं च जानीहि मां शम्भोर्गणं कुम्भोदराभिधम् ॥ २० ॥

विश्वास-प्रस्तुतिः

देवदारुरयं यस्ते वर्त्तते दृष्टगोचरे
पार्वत्यापुत्रवद्वीर पालितः स्निग्धचित्तया ॥ २१ ॥

मूलम्

देवदारुरयं यस्ते वर्त्तते दृष्टगोचरे
पार्वत्यापुत्रवद्वीर पालितः स्निग्धचित्तया ॥ २१ ॥

विश्वास-प्रस्तुतिः

एकदामुष्यवन्येन गजेनाघर्षता कटम्
उदपाटि महाराज वल्कलं मृदुलं भृशम् ॥ २२ ॥

मूलम्

एकदामुष्यवन्येन गजेनाघर्षता कटम्
उदपाटि महाराज वल्कलं मृदुलं भृशम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

एनं तादृशमालक्ष्य मृडानी करुणान्विता
मामत्र स्थापयामास सिंहं कृत्वास्य रक्षणे ॥ २३ ॥

मूलम्

एनं तादृशमालक्ष्य मृडानी करुणान्विता
मामत्र स्थापयामास सिंहं कृत्वास्य रक्षणे ॥ २३ ॥

विश्वास-प्रस्तुतिः

ममाह चेति सा देवी कुम्भोदर निशम्यताम्
योऽत्र जन्तुः समागच्छेत्तं खादेस्त्वं वसन्निह ॥ २४ ॥

मूलम्

ममाह चेति सा देवी कुम्भोदर निशम्यताम्
योऽत्र जन्तुः समागच्छेत्तं खादेस्त्वं वसन्निह ॥ २४ ॥

विश्वास-प्रस्तुतिः

ततः प्रभृति राजेन्द्र तदाज्ञां पालयन्नहम्
पालितां त्रिदशैः सर्वैः कन्दरेऽत्र वसाम्यहम् ॥ २५ ॥

मूलम्

ततः प्रभृति राजेन्द्र तदाज्ञां पालयन्नहम्
पालितां त्रिदशैः सर्वैः कन्दरेऽत्र वसाम्यहम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः
महती शाम्भवी माया वर्त्ततेऽत्र हिमाचले ॥ २६ ॥

मूलम्

जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः
महती शाम्भवी माया वर्त्ततेऽत्र हिमाचले ॥ २६ ॥

विश्वास-प्रस्तुतिः

अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः
यतो मत्पृष्ठमारुह्य वृषमारोहति प्रभुः ॥ २७ ॥

मूलम्

अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः
यतो मत्पृष्ठमारुह्य वृषमारोहति प्रभुः ॥ २७ ॥

विश्वास-प्रस्तुतिः

निवर्त्तस्व निजं देहं रक्ष सर्वार्थसाधनम्
दैवेनासादिता वीर गौरियं भक्षणाय मे ॥ २८ ॥

मूलम्

निवर्त्तस्व निजं देहं रक्ष सर्वार्थसाधनम्
दैवेनासादिता वीर गौरियं भक्षणाय मे ॥ २८ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
इत्याकर्ण्य वचस्तस्य वीरसम्बोधनान्वितम्
प्रत्युवाच दिलीपस्तं स जडीभूतविग्रहः ॥ २९ ॥

मूलम्

देवल उवाच-
इत्याकर्ण्य वचस्तस्य वीरसम्बोधनान्वितम्
प्रत्युवाच दिलीपस्तं स जडीभूतविग्रहः ॥ २९ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
सर्गस्थितिविसर्गाणां कारणं जगतः शिवम्
अम्बिकां जगदम्बां च नमामि मृगराज तौ ॥ ३० ॥

मूलम्

राजोवाच-
सर्गस्थितिविसर्गाणां कारणं जगतः शिवम्
अम्बिकां जगदम्बां च नमामि मृगराज तौ ॥ ३० ॥

विश्वास-प्रस्तुतिः

त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप
ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किम् ॥ ३१ ॥

मूलम्

त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप
ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वसिष्ठो ब्रह्मणः पुत्रो गुरुर्नो विदितस्तव
तस्येयं नन्दिनीनाम धेनुः सर्वार्थसाधिका ॥ ३२ ॥

मूलम्

वसिष्ठो ब्रह्मणः पुत्रो गुरुर्नो विदितस्तव
तस्येयं नन्दिनीनाम धेनुः सर्वार्थसाधिका ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सन्तानोत्पत्तये तेन दत्ताराधयितुं मम
येयमाराधिता सम्यक्दिनानि कतिचिन्मया ॥ ३३ ॥

मूलम्

सन्तानोत्पत्तये तेन दत्ताराधयितुं मम
येयमाराधिता सम्यक्दिनानि कतिचिन्मया ॥ ३३ ॥

विश्वास-प्रस्तुतिः

लघुतर्णक मातेयं धृता ते गिरिकन्दरे
शुम्भुभृत्याद्बलात्त्वत्तोशक्तामोचयितुम्मया ॥ ३४ ॥

मूलम्

लघुतर्णक मातेयं धृता ते गिरिकन्दरे
शुम्भुभृत्याद्बलात्त्वत्तोशक्तामोचयितुम्मया ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथम्
कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी ॥ ३५ ॥

मूलम्

अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथम्
कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अनया सदृशी नान्या गौर्यया तोषयामि तम्
तस्माद्विमुच्य गामेनामग्र्यां कुरु निजाशनम् ॥ ३६ ॥

मूलम्

अनया सदृशी नान्या गौर्यया तोषयामि तम्
तस्माद्विमुच्य गामेनामग्र्यां कुरु निजाशनम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ददामि देहमात्मीयमपकीर्तिमलीमसम्
एवं न धर्महानिः स्यादृषेस्तव तु भोजनम्
गवार्थे त्यजतः प्राणान्ममापि गतिरुत्तमा ॥ ३७ ॥

मूलम्

ददामि देहमात्मीयमपकीर्तिमलीमसम्
एवं न धर्महानिः स्यादृषेस्तव तु भोजनम्
गवार्थे त्यजतः प्राणान्ममापि गतिरुत्तमा ॥ ३७ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
एवमाकर्ण्य सिंहेन कृते मौने विशाम्पते
तदग्रेऽवाङ्मुखो राजा न्यपतद्धर्मकोविदः ॥ ३८ ॥

मूलम्

देवल उवाच-
एवमाकर्ण्य सिंहेन कृते मौने विशाम्पते
तदग्रेऽवाङ्मुखो राजा न्यपतद्धर्मकोविदः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्य प्रतीक्षमाणस्य सिंहपातं सुदुःसहम्
पपातोपरि पुष्पाणां वृष्टिर्मुक्ता सुरेश्वरैः ॥ ३९ ॥

मूलम्

तस्य प्रतीक्षमाणस्य सिंहपातं सुदुःसहम्
पपातोपरि पुष्पाणां वृष्टिर्मुक्ता सुरेश्वरैः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

पुत्रोत्तिष्ठेति वचनं श्रुत्वा राजा स उत्थितः
जननीमिव तां धेनुं ददर्श न मृगाधिपम् ॥ ४० ॥

मूलम्

पुत्रोत्तिष्ठेति वचनं श्रुत्वा राजा स उत्थितः
जननीमिव तां धेनुं ददर्श न मृगाधिपम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

तं विस्मितमुवाचेदं नन्दिनी नृपसत्तमम्
नन्दिन्युवाच-
मायया सिंहरूपिण्या त्वं मयासि परीक्षितः ॥ ४१ ॥

मूलम्

तं विस्मितमुवाचेदं नन्दिनी नृपसत्तमम्
नन्दिन्युवाच-
मायया सिंहरूपिण्या त्वं मयासि परीक्षितः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

मुनिप्रभावान्मां राजन्गृहीतुं न क्षमोंऽतकः
मनसापि कुतोऽन्येषां यद्ग्रहे शक्तिरङ्गिनाम् ॥ ४२ ॥

मूलम्

मुनिप्रभावान्मां राजन्गृहीतुं न क्षमोंऽतकः
मनसापि कुतोऽन्येषां यद्ग्रहे शक्तिरङ्गिनाम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

स्वशरीरस्य दानेन त्वं मां रक्षितुमुद्यतः
अतस्तेऽहं प्रसन्नास्मि वृणीष्व वरमीप्सितम् ॥ ४३ ॥

मूलम्

स्वशरीरस्य दानेन त्वं मां रक्षितुमुद्यतः
अतस्तेऽहं प्रसन्नास्मि वृणीष्व वरमीप्सितम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
न गुप्तं देहिनामन्तर्वर्तिवृत्तं भवादृशम्
अतो जननि जानासि वाञ्च्छितं मम देहि तत् ॥ ४४ ॥

मूलम्

राजोवाच-
न गुप्तं देहिनामन्तर्वर्तिवृत्तं भवादृशम्
अतो जननि जानासि वाञ्च्छितं मम देहि तत् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

मगधेशसुतायां मे वंशकर्तारमात्मजम्
प्रयच्छ किञ्चित्स्वच्छानां नासाध्यं हि भवादृशाम् ॥ ४५ ॥

मूलम्

मगधेशसुतायां मे वंशकर्तारमात्मजम्
प्रयच्छ किञ्चित्स्वच्छानां नासाध्यं हि भवादृशाम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वाञ्जलिमाधाय तत्पुरस्तस्थिवान्नृपः
तूष्णीं तदुत्तरापेक्षी तत्पुरोबद्धलोचनः ॥ ४६ ॥

मूलम्

इत्युक्त्वाञ्जलिमाधाय तत्पुरस्तस्थिवान्नृपः
तूष्णीं तदुत्तरापेक्षी तत्पुरोबद्धलोचनः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
निशम्येति वचस्तस्य भूपतेरिदमब्रवीत्
नन्दिनी पितृदेवर्षिनरभूतार्थसाधिका ॥ ४७ ॥

मूलम्

देवल उवाच-
निशम्येति वचस्तस्य भूपतेरिदमब्रवीत्
नन्दिनी पितृदेवर्षिनरभूतार्थसाधिका ॥ ४७ ॥

विश्वास-प्रस्तुतिः

नन्दिन्युवाच-
पुत्र पत्रपुटे दुग्ध्वा पयो मम पिबेप्सितम्
आश्रमे गुरुणाज्ञप्तः पुनः पास्यसि शेषितम् ॥ ४८ ॥

मूलम्

नन्दिन्युवाच-
पुत्र पत्रपुटे दुग्ध्वा पयो मम पिबेप्सितम्
आश्रमे गुरुणाज्ञप्तः पुनः पास्यसि शेषितम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

भविता वंशकर्ता ते सुतः शस्त्रास्त्रतत्ववित्
देवल उवाच-
इत्युक्तः सौरभेय्या तामुवाच विनयेन सः ॥ ४९ ॥

मूलम्

भविता वंशकर्ता ते सुतः शस्त्रास्त्रतत्ववित्
देवल उवाच-
इत्युक्तः सौरभेय्या तामुवाच विनयेन सः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

दिलीप उवाच-
मातस्तवैव पास्यामि शेषं सर्वक्रियाविधेः
तृप्तोऽहं मातरासाद्य मिष्टं ते वचनामृतम् ॥ ५० ॥

मूलम्

दिलीप उवाच-
मातस्तवैव पास्यामि शेषं सर्वक्रियाविधेः
तृप्तोऽहं मातरासाद्य मिष्टं ते वचनामृतम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

नान्यदिच्छामि सारङ्गः कादम्बिन्या यथा जलम्
तव शुश्रूषणान्मातरभवं सकलोद्भवः ॥ ५१ ॥

मूलम्

नान्यदिच्छामि सारङ्गः कादम्बिन्या यथा जलम्
तव शुश्रूषणान्मातरभवं सकलोद्भवः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

समस्तजनपूज्याया विद्याया इव मूढधीः
तव मातामही दत्तः शापोऽप्यासीद्वरो मम ॥ ५२ ॥

मूलम्

समस्तजनपूज्याया विद्याया इव मूढधीः
तव मातामही दत्तः शापोऽप्यासीद्वरो मम ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तमृते पुत्रलाभो मे कुतस्तव च दर्शनम्
वरायैव तथाप्यम्ब समाराध्या भवादृशः
न हि कश्चिद्विषाकाङ्क्षी महादेवात्त्रिवर्गदात् ॥ ५३ ॥

मूलम्

तमृते पुत्रलाभो मे कुतस्तव च दर्शनम्
वरायैव तथाप्यम्ब समाराध्या भवादृशः
न हि कश्चिद्विषाकाङ्क्षी महादेवात्त्रिवर्गदात् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
श्रुत्वेति तद्वचः सा गौः प्रसन्ना साधुसाध्विति
आभाष्य हि महादर्पा ययौ तेन सहाश्रमम् ॥ ५४ ॥

मूलम्

देवल उवाच-
श्रुत्वेति तद्वचः सा गौः प्रसन्ना साधुसाध्विति
आभाष्य हि महादर्पा ययौ तेन सहाश्रमम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया
प्रसन्ना सा बभौ धेनुः कार्यसिद्धिरिवाङ्गभाक् ॥ ५५ ॥

मूलम्

पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया
प्रसन्ना सा बभौ धेनुः कार्यसिद्धिरिवाङ्गभाक् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षितीशितुः
अज्ञासीत्तं निजं कार्यं सिद्धं यत्नस्तु यत्कृते ॥ ५६ ॥

मूलम्

मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षितीशितुः
अज्ञासीत्तं निजं कार्यं सिद्धं यत्नस्तु यत्कृते ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अथ तौ दम्पती धेन्वा विधिवद्विहितार्चया
तया सह गुरोरग्रे कृतकृत्यस्य जग्मतुः ॥ ५७ ॥

मूलम्

अथ तौ दम्पती धेन्वा विधिवद्विहितार्चया
तया सह गुरोरग्रे कृतकृत्यस्य जग्मतुः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपङ्कजौ
अतीन्द्रियज्ञाननिधिः प्रोवाचेदं प्रहर्षयन् ॥ ५८ ॥

मूलम्

निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपङ्कजौ
अतीन्द्रियज्ञाननिधिः प्रोवाचेदं प्रहर्षयन् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
राजञ्जानामि गौरेषा प्रसन्ना वामभूत्किल
अपूर्वा युवयोरद्य मुखकान्तिर्हि लक्ष्यते ॥ ५९ ॥

मूलम्

वसिष्ठ उवाच-
राजञ्जानामि गौरेषा प्रसन्ना वामभूत्किल
अपूर्वा युवयोरद्य मुखकान्तिर्हि लक्ष्यते ॥ ५९ ॥

विश्वास-प्रस्तुतिः

सुरभिः सुरशाखी च विश्रुतौ कामपूरिणौ
तदपत्यं समाराध्य सिद्धोऽथ स्यात्किमद्भुतम् ॥ ६० ॥

मूलम्

सुरभिः सुरशाखी च विश्रुतौ कामपूरिणौ
तदपत्यं समाराध्य सिद्धोऽथ स्यात्किमद्भुतम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

यो ददाति निखिलं मनोरथं कीर्तितेयमनघापि दूरतः
श्रद्धया निकट एव सेविता किं पुनः सुरतरङ्गिणीव सा ॥ ६१ ॥

मूलम्

यो ददाति निखिलं मनोरथं कीर्तितेयमनघापि दूरतः
श्रद्धया निकट एव सेविता किं पुनः सुरतरङ्गिणीव सा ॥ ६१ ॥

विश्वास-प्रस्तुतिः

ज्ञानतो विदितमद्भुतं मया त्वत्कृतं यदनया परीक्षणम्
भूपते त्वमपि धर्ममात्मनो रक्षसि स्म च यथा च तत् ॥ ६२ ॥

मूलम्

ज्ञानतो विदितमद्भुतं मया त्वत्कृतं यदनया परीक्षणम्
भूपते त्वमपि धर्ममात्मनो रक्षसि स्म च यथा च तत् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

त्वय्यसौ मम मनोऽनुकूलतां भावमात्मनि विबुध्यते तथा
तुष्यति स्म कमला यथा हरेः पार्वतीव गिरिशस्य सज्जते ॥ ६३ ॥

मूलम्

त्वय्यसौ मम मनोऽनुकूलतां भावमात्मनि विबुध्यते तथा
तुष्यति स्म कमला यथा हरेः पार्वतीव गिरिशस्य सज्जते ॥ ६३ ॥

विश्वास-प्रस्तुतिः

रात्रिरत्र सहाभार्ययानया धेनुपूजनपरेण नीयताम्
भूपभव्य भवता गमिष्यते श्वः समाप्तविधिना निजाम्पुरीम् ॥ ६४ ॥

मूलम्

रात्रिरत्र सहाभार्ययानया धेनुपूजनपरेण नीयताम्
भूपभव्य भवता गमिष्यते श्वः समाप्तविधिना निजाम्पुरीम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
वैश्यैवं धेनुमाराध्य सभार्यः प्राप्तवाञ्छितः
प्रातर्युक्तरथः प्राप्य गुरोराज्ञामगाद्गृहम् ॥ ६५ ॥

मूलम्

देवल उवाच-
वैश्यैवं धेनुमाराध्य सभार्यः प्राप्तवाञ्छितः
प्रातर्युक्तरथः प्राप्य गुरोराज्ञामगाद्गृहम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

कतिचिद्वासरैस्तस्य दिलीपस्याभवद्रघुः
यस्य नाम्ना रघोर्वंशः पृथिव्यां विश्रुतोऽभवत् ॥ ६६ ॥

मूलम्

कतिचिद्वासरैस्तस्य दिलीपस्याभवद्रघुः
यस्य नाम्ना रघोर्वंशः पृथिव्यां विश्रुतोऽभवत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

यः पठिष्यति भूपस्य दिलीपस्य कथामिमाम्
धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह ॥ ६७ ॥

मूलम्

यः पठिष्यति भूपस्य दिलीपस्य कथामिमाम्
धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह ॥ ६७ ॥

विश्वास-प्रस्तुतिः

शरभवरसुताप्तये स्वबुद्ध्या सममनया परितोषयाशु गौरीम्
त्वमपि कुलधुरं गुणान्वितं सा सुतमनघं खलु दास्यते च तुभ्यम् ॥ ६८ ॥

मूलम्

शरभवरसुताप्तये स्वबुद्ध्या सममनया परितोषयाशु गौरीम्
त्वमपि कुलधुरं गुणान्वितं सा सुतमनघं खलु दास्यते च तुभ्यम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
मुनिरिति चरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा
अभिमतगतमात्मनः प्रपेदे विधिमुपदिश्य च पूज जनेम्बिकायाः ॥ ६९ ॥

मूलम्

शिवशर्मोवाच-
मुनिरिति चरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा
अभिमतगतमात्मनः प्रपेदे विधिमुपदिश्य च पूज जनेम्बिकायाः ॥ ६९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये त्र्यधिकद्विशततमोऽध्यायः २०३