देवल उवाच-
विश्वास-प्रस्तुतिः
शृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेः
कथां दिव्यां विचित्रां च शृणुतां पापनाशिनीम् ॥ १ ॥
मूलम्
शृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेः
कथां दिव्यां विचित्रां च शृणुतां पापनाशिनीम् ॥ १ ॥
विश्वास-प्रस्तुतिः
वैवस्वतमनोर्वंशे दिलीपो भूभुजां वरः
आसीत्प्राचीनबर्हिस्तु स्वायम्भुवमनोरिव ॥ २ ॥
मूलम्
वैवस्वतमनोर्वंशे दिलीपो भूभुजां वरः
आसीत्प्राचीनबर्हिस्तु स्वायम्भुवमनोरिव ॥ २ ॥
विश्वास-प्रस्तुतिः
स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन्
महीं महीपतिर्लोकान्गुणैराद्धैररञ्जयत् ॥ ३ ॥
मूलम्
स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन्
महीं महीपतिर्लोकान्गुणैराद्धैररञ्जयत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
मगधाधिपतेः पुत्री महिषी तस्य भूपतेः
सुदक्षणाख्यया ख्याता शचीवासीद्दिवस्पतेः ॥ ४ ॥
मूलम्
मगधाधिपतेः पुत्री महिषी तस्य भूपतेः
सुदक्षणाख्यया ख्याता शचीवासीद्दिवस्पतेः ॥ ४ ॥
विश्वास-प्रस्तुतिः
गते महति काले तु महिष्यां नाभवत्सुतः
दध्याविति निजस्वान्ते स सम्राट्कोशलाधिपः ॥ ५ ॥
मूलम्
गते महति काले तु महिष्यां नाभवत्सुतः
दध्याविति निजस्वान्ते स सम्राट्कोशलाधिपः ॥ ५ ॥
विश्वास-प्रस्तुतिः
रत्नाकरसुमेर्वादि नगरत्नैर्विराजितम्
धृतं भूवलयं दोषो भूषायै नाप्रजस्य मे ॥ ६ ॥
मूलम्
रत्नाकरसुमेर्वादि नगरत्नैर्विराजितम्
धृतं भूवलयं दोषो भूषायै नाप्रजस्य मे ॥ ६ ॥
विश्वास-प्रस्तुतिः
वर्गत्रयी यथाकालं सेविता न विरोधिता
तथापि मेऽनपत्यस्य न सौख्यं विद्यते हृदि ॥ ७ ॥
मूलम्
वर्गत्रयी यथाकालं सेविता न विरोधिता
तथापि मेऽनपत्यस्य न सौख्यं विद्यते हृदि ॥ ७ ॥
विश्वास-प्रस्तुतिः
यज्ञैराराधितो विष्णुरिन्द्राद्याश्च सुरोत्तमाः
दीर्घिकारामकूपाश्च कारिताः सर्वतो भुवि ॥ ८ ॥
मूलम्
यज्ञैराराधितो विष्णुरिन्द्राद्याश्च सुरोत्तमाः
दीर्घिकारामकूपाश्च कारिताः सर्वतो भुवि ॥ ८ ॥
विश्वास-प्रस्तुतिः
गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैः
विप्रा अतिथयश्चैव भक्त्या सन्तोषिता मया ॥ ९ ॥
मूलम्
गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैः
विप्रा अतिथयश्चैव भक्त्या सन्तोषिता मया ॥ ९ ॥
विश्वास-प्रस्तुतिः
वृत्यर्थं पृथिवीपालानुद्धृत्य युधि धर्मतः
धनेन महता कोशो मया हि बहुलीकृतः ॥ १० ॥
मूलम्
वृत्यर्थं पृथिवीपालानुद्धृत्य युधि धर्मतः
धनेन महता कोशो मया हि बहुलीकृतः ॥ १० ॥
विश्वास-प्रस्तुतिः
उन्मार्गगामिनो मत्ता निजधर्मविलङ्घिनः
विमुखः पितृदेवेभ्यो दण्ड्यास्ते दण्डिता मया ॥ ११ ॥
मूलम्
उन्मार्गगामिनो मत्ता निजधर्मविलङ्घिनः
विमुखः पितृदेवेभ्यो दण्ड्यास्ते दण्डिता मया ॥ ११ ॥
विश्वास-प्रस्तुतिः
पञ्चपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणि
दशम्यैकादशीतिथ्योर्न स्त्रीसेवा कृता मया ॥ १२ ॥
मूलम्
पञ्चपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणि
दशम्यैकादशीतिथ्योर्न स्त्रीसेवा कृता मया ॥ १२ ॥
विश्वास-प्रस्तुतिः
ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम्
अनृतावपि तद्योग्ये काले चेत्प्रार्थितस्तया ॥ १३ ॥
मूलम्
ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम्
अनृतावपि तद्योग्ये काले चेत्प्रार्थितस्तया ॥ १३ ॥
विश्वास-प्रस्तुतिः
तदा तस्यां सकामिन्यां सकामं रमितं मया
एवं धर्मार्थकामा मे यथाकालं निषेविताः ॥ १४ ॥
मूलम्
तदा तस्यां सकामिन्यां सकामं रमितं मया
एवं धर्मार्थकामा मे यथाकालं निषेविताः ॥ १४ ॥
विश्वास-प्रस्तुतिः
महिष्यां केन दोषेण जायते मे न सन्ततिः
अतीतानागतज्ञानो वसिष्ठो गुरुरेव नः ॥ १५ ॥
मूलम्
महिष्यां केन दोषेण जायते मे न सन्ततिः
अतीतानागतज्ञानो वसिष्ठो गुरुरेव नः ॥ १५ ॥
विश्वास-प्रस्तुतिः
कथयिष्यति तं दोषं यन्मे पुत्रो न जायते
देवल उवाच-
इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोः
मन्त्रिष्वारोपयामास कोशलामृद्धिकोशलाम् ॥ १६ ॥
मूलम्
कथयिष्यति तं दोषं यन्मे पुत्रो न जायते
देवल उवाच-
इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोः
मन्त्रिष्वारोपयामास कोशलामृद्धिकोशलाम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अथ प्रजासृजं देवं पूजयित्वाश्रमं गुरोः
प्रतस्थाते पुत्रकामौ दम्पती तौ शुभेऽहनि ॥ १७ ॥
मूलम्
अथ प्रजासृजं देवं पूजयित्वाश्रमं गुरोः
प्रतस्थाते पुत्रकामौ दम्पती तौ शुभेऽहनि ॥ १७ ॥
विश्वास-प्रस्तुतिः
कतिचिद्वासरैर्मार्गमुल्लङ्घ्यैकरथे स्थितौ
तौ दम्पती गुरोः सायमाश्रमं प्रापतुः शुभम् ॥ १८ ॥
मूलम्
कतिचिद्वासरैर्मार्गमुल्लङ्घ्यैकरथे स्थितौ
तौ दम्पती गुरोः सायमाश्रमं प्रापतुः शुभम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
वैश्वदेवान्त सम्प्राप्तातिथिसत्कारकृन्मुनिम्
हुताशनहुतद्रव्यप्रसरद्धूममालया ॥ १९ ॥
मूलम्
वैश्वदेवान्त सम्प्राप्तातिथिसत्कारकृन्मुनिम्
हुताशनहुतद्रव्यप्रसरद्धूममालया ॥ १९ ॥
विश्वास-प्रस्तुतिः
पवित्रयन्तमात्मस्थान्मुनीनागन्तुकानपि
मृगैर्दूर्वाप्रतानौघप्रपूर्णोदरमन्थरम् ॥ २० ॥
मूलम्
पवित्रयन्तमात्मस्थान्मुनीनागन्तुकानपि
मृगैर्दूर्वाप्रतानौघप्रपूर्णोदरमन्थरम् ॥ २० ॥
विश्वास-प्रस्तुतिः
अभ्यागच्छद्भिरभितो मण्डपं स मृगीगणैः
वासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् ॥ २१ ॥
मूलम्
अभ्यागच्छद्भिरभितो मण्डपं स मृगीगणैः
वासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम्
जपध्यानपरर्षीणां क्षणश्रान्तश्रुतिध्वनिम् ॥ २२ ॥
मूलम्
परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम्
जपध्यानपरर्षीणां क्षणश्रान्तश्रुतिध्वनिम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
अनध्ययनकालोत्थ क्रीडारक्तकुमारकम्
तस्मिन्वसिष्ठमद्राष्टां दम्पती तौ कृतक्रियम् ॥ २३ ॥
मूलम्
अनध्ययनकालोत्थ क्रीडारक्तकुमारकम्
तस्मिन्वसिष्ठमद्राष्टां दम्पती तौ कृतक्रियम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
बृस्यां निषणमव्यग्रमरुन्धत्योपसेवितम्
स ववन्दे गुरोः पादौ महिषी सा च तत्स्त्रियः ॥ २४ ॥
मूलम्
बृस्यां निषणमव्यग्रमरुन्धत्योपसेवितम्
स ववन्दे गुरोः पादौ महिषी सा च तत्स्त्रियः ॥ २४ ॥
विश्वास-प्रस्तुतिः
आशिषा गुरुरप्येनं युयोजारुन्धती च ताम्
अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः ॥ २५ ॥
मूलम्
आशिषा गुरुरप्येनं युयोजारुन्धती च ताम्
अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः ॥ २५ ॥
विश्वास-प्रस्तुतिः
अर्हणैरर्हतां श्रेष्ठो वसिष्ठ इति पृष्टवान्
वसिष्ठ उवाच-
भो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते ॥ २६ ॥
मूलम्
अर्हणैरर्हतां श्रेष्ठो वसिष्ठ इति पृष्टवान्
वसिष्ठ उवाच-
भो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते ॥ २६ ॥
विश्वास-प्रस्तुतिः
कुले च कच्चिल्लोके च निजधर्मानुवर्त्तिनि
धर्मेण पालिता कच्चित्वया वीरवसुन्धरा ॥ २७ ॥
मूलम्
कुले च कच्चिल्लोके च निजधर्मानुवर्त्तिनि
धर्मेण पालिता कच्चित्वया वीरवसुन्धरा ॥ २७ ॥
विश्वास-प्रस्तुतिः
संवर्द्धयति ते कोशं धर्मधीरिव सात्विकी
तव जानपदा राजन्पौराश्च स्थितिमात्मनः ॥ २८ ॥
मूलम्
संवर्द्धयति ते कोशं धर्मधीरिव सात्विकी
तव जानपदा राजन्पौराश्च स्थितिमात्मनः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सारवन्तो विमुञ्चन्ति कच्चिन्नाम्बुधयो यथा
स्नेहेन साहचर्येण सहवासतया प्रभो ॥ २९ ॥
मूलम्
सारवन्तो विमुञ्चन्ति कच्चिन्नाम्बुधयो यथा
स्नेहेन साहचर्येण सहवासतया प्रभो ॥ २९ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनारायणायेते कच्चित्ते पुरदम्पती
काम्यव्रतानि राजेन्द्र प्रजानां नगरे तव
फलन्ति वाञ्छितं कच्चिद्धरिचन्दनवद्दिवि ॥ ३० ॥
मूलम्
लक्ष्मीनारायणायेते कच्चित्ते पुरदम्पती
काम्यव्रतानि राजेन्द्र प्रजानां नगरे तव
फलन्ति वाञ्छितं कच्चिद्धरिचन्दनवद्दिवि ॥ ३० ॥
विश्वास-प्रस्तुतिः
देवल उवाच-
पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुङ्गवः
योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ॥ ३१ ॥
मूलम्
देवल उवाच-
पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुङ्गवः
योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अरुन्धतीच तां राज्ञीं बह्वादरसमन्विता
नानाव्यञ्जनपक्वान्नैरभोजयदुदारधीः ॥ ३२ ॥
मूलम्
अरुन्धतीच तां राज्ञीं बह्वादरसमन्विता
नानाव्यञ्जनपक्वान्नैरभोजयदुदारधीः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिर्नृपम्
पुनः पप्रच्छ सङ्गृह्य पाणिना पाणिमानतम् ॥ ३३ ॥
मूलम्
कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिर्नृपम्
पुनः पप्रच्छ सङ्गृह्य पाणिना पाणिमानतम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
सप्ताङ्ग संयुतं राज्यं निजधर्मरतप्रजम्
प्रीतबन्धुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ॥ ३४ ॥
मूलम्
वसिष्ठ उवाच-
सप्ताङ्ग संयुतं राज्यं निजधर्मरतप्रजम्
प्रीतबन्धुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
वश्यमित्रं हृतामित्रं कृष्णार्चापरमानसम्
यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किम् ॥ ३५ ॥
मूलम्
वश्यमित्रं हृतामित्रं कृष्णार्चापरमानसम्
यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः
राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ॥ ३६ ॥
मूलम्
इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः
राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ॥ ३६ ॥
विश्वास-प्रस्तुतिः
त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौ
किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ॥ ३७ ॥
मूलम्
त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौ
किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमे
स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ॥ ३८ ॥
मूलम्
राजोवाच-
ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमे
स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम्
राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः ॥ ३९ ॥
मूलम्
ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम्
राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपि
तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव सन्ततिः ॥ ४० ॥
मूलम्
न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपि
तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव सन्ततिः ॥ ४० ॥
विश्वास-प्रस्तुतिः
यथा बाल्यं गतं तात यौवनं च समागतम्
यास्यत्यदोपि च तथा जराप्येष्यति निश्चितम् ॥ ४१ ॥
मूलम्
यथा बाल्यं गतं तात यौवनं च समागतम्
यास्यत्यदोपि च तथा जराप्येष्यति निश्चितम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
जरसोऽनतरं मृत्युः पुरुषस्य न संशयः
मृत्युङ्गते मयि ब्रह्मन्विनातनयसम्भवम् ॥ ४२ ॥
मूलम्
जरसोऽनतरं मृत्युः पुरुषस्य न संशयः
मृत्युङ्गते मयि ब्रह्मन्विनातनयसम्भवम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
कस्येदं जगतीराज्यं भविष्यति गुरो वद
तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ॥ ४३ ॥
मूलम्
कस्येदं जगतीराज्यं भविष्यति गुरो वद
तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ममत्वं विद्यते नात्र पुरस्तात्तदभावतः
वर्गत्रयस्य वै सम्यक्संवेत्ता त्वं गुरो मम ॥ ४४ ॥
मूलम्
ममत्वं विद्यते नात्र पुरस्तात्तदभावतः
वर्गत्रयस्य वै सम्यक्संवेत्ता त्वं गुरो मम ॥ ४४ ॥
विश्वास-प्रस्तुतिः
केन दोषेण मे पुत्रो जायते न तपोनिधे
ध्यानेन दोषमालोक्य तं गुरो कथयाशुमे ॥ ४५ ॥
मूलम्
केन दोषेण मे पुत्रो जायते न तपोनिधे
ध्यानेन दोषमालोक्य तं गुरो कथयाशुमे ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तस्य प्रतिक्रियां कुर्यां श्रुत्वा सन्तानलब्धये
देवल उवाच-
इत्याकर्ण्य वसिष्ठस्तु वचस्तस्य महीपतेः ॥ ४६ ॥
मूलम्
तस्य प्रतिक्रियां कुर्यां श्रुत्वा सन्तानलब्धये
देवल उवाच-
इत्याकर्ण्य वसिष्ठस्तु वचस्तस्य महीपतेः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
उवाच सन्ततिस्तम्भहेतुं वीक्ष्य समाधिना
वसिष्ठ उवाच-
त्वं पुरा राजशार्दूल संसेव्य सुरनायकम् ॥ ४७ ॥
मूलम्
उवाच सन्ततिस्तम्भहेतुं वीक्ष्य समाधिना
वसिष्ठ उवाच-
त्वं पुरा राजशार्दूल संसेव्य सुरनायकम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
स्नातामिमां वधूं स्मृत्वा चलितो निजमन्दिरम्
गच्छतस्त्वरया तात सन्तानोत्कण्ठितस्य ते ॥ ४८ ॥
मूलम्
स्नातामिमां वधूं स्मृत्वा चलितो निजमन्दिरम्
गच्छतस्त्वरया तात सन्तानोत्कण्ठितस्य ते ॥ ४८ ॥
विश्वास-प्रस्तुतिः
आसीत्सुरतरोर्मूले कामेधनुः स्थिता पथि
उत्पादिता त्वया तस्याः पूज्याङ्घ्रिरजसोऽतिरुट् ॥ ४९ ॥
मूलम्
आसीत्सुरतरोर्मूले कामेधनुः स्थिता पथि
उत्पादिता त्वया तस्याः पूज्याङ्घ्रिरजसोऽतिरुट् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणनमस्कारसदाचारमकुर्वता
साऽशपत्त्वामतिक्रोधात्पुत्रो नोत्पत्स्यते तव ॥ ५० ॥
मूलम्
प्रदक्षिणनमस्कारसदाचारमकुर्वता
साऽशपत्त्वामतिक्रोधात्पुत्रो नोत्पत्स्यते तव ॥ ५० ॥
विश्वास-प्रस्तुतिः
मम सन्तानशुश्रूषां यावत्त्वं न करिष्यसि
गच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः ॥ ५१ ॥
मूलम्
मम सन्तानशुश्रूषां यावत्त्वं न करिष्यसि
गच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तन्मना नाश्रृणोः शापं नयन्ताक्षनिनादतः
तस्याः सुतासुतां धेनुं नन्दिनीं ससुतां मम ॥ ५२ ॥
मूलम्
तन्मना नाश्रृणोः शापं नयन्ताक्षनिनादतः
तस्याः सुतासुतां धेनुं नन्दिनीं ससुतां मम ॥ ५२ ॥
विश्वास-प्रस्तुतिः
आराधयानया वध्वा सार्द्धं सा दास्यते सुतम्
देवल उवाच-
इत्युक्तवति तत्रर्षौ वसिष्ठे सा तु नन्दिनी ॥ ५३ ॥
मूलम्
आराधयानया वध्वा सार्द्धं सा दास्यते सुतम्
देवल उवाच-
इत्युक्तवति तत्रर्षौ वसिष्ठे सा तु नन्दिनी ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तपोवनात्समायाता वत्सस्नेहस्नुतस्तनी
तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुङ्गवः
उवाच भूपतिं भूयो दर्शयित्वा च नन्दिनीम् ॥ ५४ ॥
मूलम्
तपोवनात्समायाता वत्सस्नेहस्नुतस्तनी
तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुङ्गवः
उवाच भूपतिं भूयो दर्शयित्वा च नन्दिनीम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
राजन्समागता ह्येषा स्मृतमात्रशुभाह्वया
अतो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः ॥ ५५ ॥
मूलम्
वसिष्ठ उवाच-
राजन्समागता ह्येषा स्मृतमात्रशुभाह्वया
अतो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
आराधितानुगत्येयं त्वयारण्ये तथाश्रमे
वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ॥ ५६ ॥
मूलम्
आराधितानुगत्येयं त्वयारण्ये तथाश्रमे
वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
यथानाभिभवेदेनां जन्तुः कश्चिद्वनोद्भवः
तथा चारय राजेन्द्र वने हिंस्रो धनुर्द्धर ॥ ५७ ॥
मूलम्
यथानाभिभवेदेनां जन्तुः कश्चिद्वनोद्भवः
तथा चारय राजेन्द्र वने हिंस्रो धनुर्द्धर ॥ ५७ ॥
विश्वास-प्रस्तुतिः
देवल उवाच-
तथेति लघुवादिने नृपतये स्नुषायै च सक्षपाशयनहेतवे सदुटजं ददौ तापसः
स तत्र सहभार्यया समधिशय्यदर्भास्तृतां महीमगमयन्निशां नियतमानसो विश्पतिः ॥ ५८ ॥
मूलम्
देवल उवाच-
तथेति लघुवादिने नृपतये स्नुषायै च सक्षपाशयनहेतवे सदुटजं ददौ तापसः
स तत्र सहभार्यया समधिशय्यदर्भास्तृतां महीमगमयन्निशां नियतमानसो विश्पतिः ॥ ५८ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये द्व्यधिकद्विशततमोध्यायः २०२