२०१

नारद उचाव-

विश्वास-प्रस्तुतिः

अथावरुह्य तौ वृक्षात्पितृपुत्रौ सुविस्मितौ
दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि ॥ १ ॥

मूलम्

अथावरुह्य तौ वृक्षात्पितृपुत्रौ सुविस्मितौ
दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि ॥ १ ॥

विश्वास-प्रस्तुतिः

शिवशर्माथ विप्रेन्द्रः श्रुत्वा तीर्थस्तुतिं तदा
गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः ॥ २ ॥

मूलम्

शिवशर्माथ विप्रेन्द्रः श्रुत्वा तीर्थस्तुतिं तदा
गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः ॥ २ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसापि लीलया
प्रापतुः शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्य ताम् ॥ ३ ॥

मूलम्

शिवशर्मोवाच-
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसापि लीलया
प्रापतुः शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्य ताम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

जन्मनः प्रभृति तावदामृतेः पापिनावपि च यत्प्रभावतः
जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः ॥ ४ ॥

मूलम्

जन्मनः प्रभृति तावदामृतेः पापिनावपि च यत्प्रभावतः
जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः ॥ ४ ॥

विश्वास-प्रस्तुतिः

शुद्धसत्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेवदुर्ल्लभम्
तामसौ क्व मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम् ॥ ५ ॥

मूलम्

शुद्धसत्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेवदुर्ल्लभम्
तामसौ क्व मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

तात भो पतति वेधसः पदात्जन्तुरन्तमधिगम्य कर्मणाम्
अत्र देवगुरुनिर्मिते मृतिं प्राप्य माधवपदान्न विच्युतिः ॥ ६ ॥

मूलम्

तात भो पतति वेधसः पदात्जन्तुरन्तमधिगम्य कर्मणाम्
अत्र देवगुरुनिर्मिते मृतिं प्राप्य माधवपदान्न विच्युतिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः
तीर्थस्यास्य गुरो राजन्स्नातुं तत्र प्रचक्रमे ॥ ७ ॥

मूलम्

नारद उवाच-
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः
तीर्थस्यास्य गुरो राजन्स्नातुं तत्र प्रचक्रमे ॥ ७ ॥

विश्वास-प्रस्तुतिः

मुख दन्त पदानां सः कृत्वा शुद्धिं च चेतसः
पञ्चकच्छः शिखाबन्धोपग्रही माधवं स्मरन् ॥ ८ ॥

मूलम्

मुख दन्त पदानां सः कृत्वा शुद्धिं च चेतसः
पञ्चकच्छः शिखाबन्धोपग्रही माधवं स्मरन् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अश्वक्रान्तेति श्लोकेन पाठेन तटमृत्तिकाम्
स्पृशंस्तयैव विदधत्तिलकं जलमाविशत् ॥ ९ ॥

मूलम्

अश्वक्रान्तेति श्लोकेन पाठेन तटमृत्तिकाम्
स्पृशंस्तयैव विदधत्तिलकं जलमाविशत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः
पुनर्मग्नो हरिं स्मृत्वा गङ्गां च जनपावनीम् ॥ १० ॥

मूलम्

तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः
पुनर्मग्नो हरिं स्मृत्वा गङ्गां च जनपावनीम् ॥ १० ॥

विश्वास-प्रस्तुतिः

अयोध्याद्यापुरीः सप्त पुनरुत्थाय संस्मरन्
पुनर्ममज्ज सलिले गोविन्दार्पितमानसः ॥ ११ ॥

मूलम्

अयोध्याद्यापुरीः सप्त पुनरुत्थाय संस्मरन्
पुनर्ममज्ज सलिले गोविन्दार्पितमानसः ॥ ११ ॥

विश्वास-प्रस्तुतिः

कृत्वा यथाविधिस्नानं धौतवस्त्रे च पर्यधात्
बहिरागत्य तिलकं चक्रे च द्विजसत्तमः ॥ १२ ॥

मूलम्

कृत्वा यथाविधिस्नानं धौतवस्त्रे च पर्यधात्
बहिरागत्य तिलकं चक्रे च द्विजसत्तमः ॥ १२ ॥

विश्वास-प्रस्तुतिः

करपादशिखासूत्रैर्दर्भांश्च विदधद्वशी
सन्ध्यां चकार विधिवत्तर्पणं त्रिविधं तथा ॥ १३ ॥

मूलम्

करपादशिखासूत्रैर्दर्भांश्च विदधद्वशी
सन्ध्यां चकार विधिवत्तर्पणं त्रिविधं तथा ॥ १३ ॥

विश्वास-प्रस्तुतिः

सूर्याय कुसुमैर्दत्त्वा स जलैरर्घमादृतः
शिरोबद्धाञ्जलिपुटो नमश्चक्रे द्विजोत्तमः ॥ १४ ॥

मूलम्

सूर्याय कुसुमैर्दत्त्वा स जलैरर्घमादृतः
शिरोबद्धाञ्जलिपुटो नमश्चक्रे द्विजोत्तमः ॥ १४ ॥

विश्वास-प्रस्तुतिः

आवाहनादि नैवेद्यपर्यन्तमथ विप्रराट्
जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत् ॥ १५ ॥

मूलम्

आवाहनादि नैवेद्यपर्यन्तमथ विप्रराट्
जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

कृतक्रियः सूपविष्टः तादृशं सुतमात्मनः
जगाद संस्मरन्पूर्वजन्मकर्मणि कृत्स्नशः ॥ १६ ॥

मूलम्

कृतक्रियः सूपविष्टः तादृशं सुतमात्मनः
जगाद संस्मरन्पूर्वजन्मकर्मणि कृत्स्नशः ॥ १६ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः
अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम् ॥ १७ ॥

मूलम्

शिवशर्मोवाच-
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः
अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

आकर्णय माहाभाग कथयामि तवाग्रतः
पुराहमन्वये जातो विशां धनिकधर्मिणाम् ॥ १८ ॥

मूलम्

आकर्णय माहाभाग कथयामि तवाग्रतः
पुराहमन्वये जातो विशां धनिकधर्मिणाम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

पिता मे शरभो नाम्ना कान्यकुब्जे पुरेऽवसन्
वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः ॥ १९ ॥

मूलम्

पिता मे शरभो नाम्ना कान्यकुब्जे पुरेऽवसन्
वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः ॥ १९ ॥

विश्वास-प्रस्तुतिः

व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः
जरागृहीतदेहस्य तच्चिन्तातुरचेतसः ॥ २० ॥

मूलम्

व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः
जरागृहीतदेहस्य तच्चिन्तातुरचेतसः ॥ २० ॥

विश्वास-प्रस्तुतिः

अचिन्तयदहोरात्रमिति वैश्यवरस्तदा
विना सुतेन मे व्यर्थं धनं भूर्यपि सञ्चितम् ॥ २१ ॥

मूलम्

अचिन्तयदहोरात्रमिति वैश्यवरस्तदा
विना सुतेन मे व्यर्थं धनं भूर्यपि सञ्चितम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

ऋते सुतमृणीलोके पितॄणां धनवानपि
सजलोऽपि विना वर्षं चातकानां यथा घनः ॥ २२ ॥

मूलम्

ऋते सुतमृणीलोके पितॄणां धनवानपि
सजलोऽपि विना वर्षं चातकानां यथा घनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

पुमान्जयति सन्तत्या विश्वं धर्मधुरीणया
शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम् ॥ २३ ॥

मूलम्

पुमान्जयति सन्तत्या विश्वं धर्मधुरीणया
शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

प्रीणाति सन्ततिः शुद्धा सुमनः पितृमानवान्
मित्रप्रत्यर्थ्यु यदासीनान्सूनृता वाग्यथेरिता ॥ २४ ॥

मूलम्

प्रीणाति सन्ततिः शुद्धा सुमनः पितृमानवान्
मित्रप्रत्यर्थ्यु यदासीनान्सूनृता वाग्यथेरिता ॥ २४ ॥

विश्वास-प्रस्तुतिः

उदयस्थेन पुत्रेण वर्द्धते स्वयशः पितुः
निर्मलं द्विजराजेन नीरं तीरनिधेरिव ॥ २५ ॥

मूलम्

उदयस्थेन पुत्रेण वर्द्धते स्वयशः पितुः
निर्मलं द्विजराजेन नीरं तीरनिधेरिव ॥ २५ ॥

विश्वास-प्रस्तुतिः

तस्माद्यतेत्सुतोत्पत्यै शरीरेण धनेन वा
तमृते हि द्वयं व्यर्थं जनानां तडिदायुषाम् ॥ २६ ॥

मूलम्

तस्माद्यतेत्सुतोत्पत्यै शरीरेण धनेन वा
तमृते हि द्वयं व्यर्थं जनानां तडिदायुषाम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एवं चिन्तयतस्तस्य गृहे मुनिवरस्तदा
देवलोऽतीद्रियज्ञानो वरं दातुं समाययौ ॥ २७ ॥

मूलम्

एवं चिन्तयतस्तस्य गृहे मुनिवरस्तदा
देवलोऽतीद्रियज्ञानो वरं दातुं समाययौ ॥ २७ ॥

विश्वास-प्रस्तुतिः

आगतं तं समालोक्य प्रत्युत्थायासनात्पिता
दत्त्वार्घमथ पाद्यं च ववन्दे शिरसा मुनिम् ॥ २८ ॥

मूलम्

आगतं तं समालोक्य प्रत्युत्थायासनात्पिता
दत्त्वार्घमथ पाद्यं च ववन्दे शिरसा मुनिम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

उपवेश्यासने दत्ते स्वहस्तेन पिता मम
पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् ॥ २९ ॥

मूलम्

उपवेश्यासने दत्ते स्वहस्तेन पिता मम
पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले
तपः स्वाध्यायनियमा निष्प्रत्यूहा भवन्ति च ॥ ३० ॥

मूलम्

स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले
तपः स्वाध्यायनियमा निष्प्रत्यूहा भवन्ति च ॥ ३० ॥

विश्वास-प्रस्तुतिः

काले चातिथयः कच्चिदायान्ति भवदाश्रमे
कच्चिदाश्रमवृक्षा वः फलन्ति मनसेप्सितम् ॥ ३१ ॥

मूलम्

काले चातिथयः कच्चिदायान्ति भवदाश्रमे
कच्चिदाश्रमवृक्षा वः फलन्ति मनसेप्सितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

व्याघ्रादयो न कुर्वन्ति कच्चिद्वैरं मृगादिभिः
त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा ॥ ३२ ॥

मूलम्

व्याघ्रादयो न कुर्वन्ति कच्चिद्वैरं मृगादिभिः
त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तवाटनं भुवि मुदे गृहिणामन्यथा कथम्
तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः ॥ ३३ ॥

मूलम्

तवाटनं भुवि मुदे गृहिणामन्यथा कथम्
तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

हरिपादरजोबुद्धेः कामं कामो न कुत्रचित्
मुने तव तथाप्याशु हेतुमागमने वद ॥ ३४ ॥

मूलम्

हरिपादरजोबुद्धेः कामं कामो न कुत्रचित्
मुने तव तथाप्याशु हेतुमागमने वद ॥ ३४ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः
अब्रवीत्तन्मनोभावं ज्ञातुकामो विशाम्पतिम् ॥ ३५ ॥

मूलम्

शिवशर्मोवाच-
इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः
अब्रवीत्तन्मनोभावं ज्ञातुकामो विशाम्पतिम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
वैश्यवर्य त्वया भूरि धनं धर्मेण सञ्चितम्
करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः ॥ ३६ ॥

मूलम्

देवल उवाच-
वैश्यवर्य त्वया भूरि धनं धर्मेण सञ्चितम्
करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

आदरं राजसदसि धनेन लभते नरः
सुभटः शत्रुसङ्ग्रामे विक्रमेण यथा जयम् ॥ ३७ ॥

मूलम्

आदरं राजसदसि धनेन लभते नरः
सुभटः शत्रुसङ्ग्रामे विक्रमेण यथा जयम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम्
शरत्परिणतं सस्यमनड्वानिव विश्पते ॥ ३८ ॥

मूलम्

गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम्
शरत्परिणतं सस्यमनड्वानिव विश्पते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

धनिनां न विमुञ्चन्ति बन्धवोऽन्ये च ये जनाः
मधुमत्सुमनो युक्तं पादपं मधुपा इव ॥ ३९ ॥

मूलम्

धनिनां न विमुञ्चन्ति बन्धवोऽन्ये च ये जनाः
मधुमत्सुमनो युक्तं पादपं मधुपा इव ॥ ३९ ॥

विश्वास-प्रस्तुतिः

धनाभावेन गृहिणां कृशत्वमुपजायते
सर्वतो ग्रीष्मसमये नभसां सरसामिव ॥ ४० ॥

मूलम्

धनाभावेन गृहिणां कृशत्वमुपजायते
सर्वतो ग्रीष्मसमये नभसां सरसामिव ॥ ४० ॥

विश्वास-प्रस्तुतिः

तद्धनं वर्त्तते भूरि गृहे तव विशाम्पते
कुतः कृशत्वमङ्गानां गोप्यं चेन्न वदाद्य मे ॥ ४१ ॥

मूलम्

तद्धनं वर्त्तते भूरि गृहे तव विशाम्पते
कुतः कृशत्वमङ्गानां गोप्यं चेन्न वदाद्य मे ॥ ४१ ॥

विश्वास-प्रस्तुतिः

वैश्य उवाच-
हितोपदेशविरता भवन्तः पितरो यथा
गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः ॥ ४२ ॥

मूलम्

वैश्य उवाच-
हितोपदेशविरता भवन्तः पितरो यथा
गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम
वार्द्धकेपि सुताभावो दुःखमेकमिदं मम ॥ ४३ ॥

मूलम्

त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम
वार्द्धकेपि सुताभावो दुःखमेकमिदं मम ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तस्मात्कृशत्वमङ्गानां विद्धि मे मुनिपुङ्गव
बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणाम् ॥ ४४ ॥

मूलम्

तस्मात्कृशत्वमङ्गानां विद्धि मे मुनिपुङ्गव
बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणाम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तमुपायं कुरु मुने येन स्यां सुतवानहम्
किञ्चित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः ॥ ४५ ॥

मूलम्

तमुपायं कुरु मुने येन स्यां सुतवानहम्
किञ्चित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः
मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः ॥ ४६ ॥

मूलम्

शिवशर्मोवाच-
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः
मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सन्ततेर्मत्पितुर्दृष्ट्वा प्रतिबन्धस्य कारणम्
देवलोतीन्द्रियज्ञानी बभाषे कारयन्स्मृतिम् ॥ ४७ ॥

मूलम्

सन्ततेर्मत्पितुर्दृष्ट्वा प्रतिबन्धस्य कारणम्
देवलोतीन्द्रियज्ञानी बभाषे कारयन्स्मृतिम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी
यं चकार स्वचित्ते तं कथयामि मनोरथम् ॥ ४८ ॥

मूलम्

देवल उवाच-
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी
यं चकार स्वचित्ते तं कथयामि मनोरथम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गुर्विणी यद्यहं गौरि भवेऽहं शम्भुवल्लभे
तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः ॥ ४९ ॥

मूलम्

गुर्विणी यद्यहं गौरि भवेऽहं शम्भुवल्लभे
तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

धूपदीपकमालाभिस्ताम्बूलैर्नृत्यबाधकैः
तन्त्रीमुखोद्गतैर्गीतैर्नानाविधविलेपनैः ॥ ५० ॥

मूलम्

धूपदीपकमालाभिस्ताम्बूलैर्नृत्यबाधकैः
तन्त्रीमुखोद्गतैर्गीतैर्नानाविधविलेपनैः ॥ ५० ॥

विश्वास-प्रस्तुतिः

एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव
प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता ॥ ५१ ॥

मूलम्

एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव
प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव
ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः ॥ ५२ ॥

मूलम्

तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव
ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

यस्त्वया वाञ्छितो गर्भो गौर्या सम्प्रतिपादितः
अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु ॥ ५३ ॥

मूलम्

यस्त्वया वाञ्छितो गर्भो गौर्या सम्प्रतिपादितः
अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु ॥ ५३ ॥

विश्वास-प्रस्तुतिः

नोचेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात्
तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः ॥ ५४ ॥

मूलम्

नोचेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात्
तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

सखीभिरिति ते भार्या कथितेयं मुदान्विता
त्वामुवाच महाभागा विनयेन पतिव्रता ॥ ५५ ॥

मूलम्

सखीभिरिति ते भार्या कथितेयं मुदान्विता
त्वामुवाच महाभागा विनयेन पतिव्रता ॥ ५५ ॥

विश्वास-प्रस्तुतिः

नाथ पूजयितुं गौरीं वाञ्छाम्यखिलकामदाम्
यत्प्रसादादहं याता वाञ्छितार्थवती प्रभो ॥ ५६ ॥

मूलम्

नाथ पूजयितुं गौरीं वाञ्छाम्यखिलकामदाम्
यत्प्रसादादहं याता वाञ्छितार्थवती प्रभो ॥ ५६ ॥

विश्वास-प्रस्तुतिः

वैश्यवर्य त्वमेवैतच्छ्रुत्वास्या वचनं शुभम्
अमन्यत गर्भवतीमेनां निजगृहेश्वरीम् ॥ ५७ ॥

मूलम्

वैश्यवर्य त्वमेवैतच्छ्रुत्वास्या वचनं शुभम्
अमन्यत गर्भवतीमेनां निजगृहेश्वरीम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

परमोत्सवया मोदमानः सद्यो भवानपि
भृत्यानाज्ञापयामास पूजावस्तूपपादने ॥ ५८ ॥

मूलम्

परमोत्सवया मोदमानः सद्यो भवानपि
भृत्यानाज्ञापयामास पूजावस्तूपपादने ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तैरानाय्य समस्तानि वस्तूनि भवता ततः
अस्यै दत्तानि मध्वन्न द्राक्षा गन्धादिकान्यपि ॥ ५९ ॥

मूलम्

तैरानाय्य समस्तानि वस्तूनि भवता ततः
अस्यै दत्तानि मध्वन्न द्राक्षा गन्धादिकान्यपि ॥ ५९ ॥

विश्वास-प्रस्तुतिः

ततो निजसखीः सर्वा आहूयेदमिदं जगौ
सख्यः समस्ताः सामग्री समानीताम्बिकार्चने ॥ ६० ॥

मूलम्

ततो निजसखीः सर्वा आहूयेदमिदं जगौ
सख्यः समस्ताः सामग्री समानीताम्बिकार्चने ॥ ६० ॥

विश्वास-प्रस्तुतिः

नीत्वा पूजोपकरणं यूयं याताम्बिकालयम्
सन्तोषयत तां देवीं पूजया विधिदृष्टया ॥ ६१ ॥

मूलम्

नीत्वा पूजोपकरणं यूयं याताम्बिकालयम्
सन्तोषयत तां देवीं पूजया विधिदृष्टया ॥ ६१ ॥

विश्वास-प्रस्तुतिः

गुर्विणीति कुलेऽस्माकं न निर्याति गृहाद्बहिः
अतोऽहं नागमिष्यामि यूयं यात तदर्चने ॥ ६२ ॥

मूलम्

गुर्विणीति कुलेऽस्माकं न निर्याति गृहाद्बहिः
अतोऽहं नागमिष्यामि यूयं यात तदर्चने ॥ ६२ ॥

विश्वास-प्रस्तुतिः

इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः
अम्बिकालयमुन्मत्तभ्रमद्भ्रमरकेतनम् ॥ ६३ ॥

मूलम्

इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः
अम्बिकालयमुन्मत्तभ्रमद्भ्रमरकेतनम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

कोकिलाकुलसङ्केलि सहकारकुलाकुलम्
हंससारसचक्राह्वमण्डितं स्वच्छसारसम् ॥ ६४ ॥

मूलम्

कोकिलाकुलसङ्केलि सहकारकुलाकुलम्
हंससारसचक्राह्वमण्डितं स्वच्छसारसम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

महादेवगुणालापि शुकसारिसमावृतम्
हारपूरालतासेके तत्परो मा सखीधरम् ॥ ६५ ॥

मूलम्

महादेवगुणालापि शुकसारिसमावृतम्
हारपूरालतासेके तत्परो मा सखीधरम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

उमापतेरुमापादन्यासपूतमहीतलम्
स्फटिकोपलसम्बद्ध जलाधारसुरद्रुमम् ॥ ६६ ॥

मूलम्

उमापतेरुमापादन्यासपूतमहीतलम्
स्फटिकोपलसम्बद्ध जलाधारसुरद्रुमम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

पार्वतीपतिसन्नाट्य गायद्गन्धर्वनादितम्
मन्दानिलमनाग्धूत चूतचम्पककोरकम् ॥ ६७ ॥

मूलम्

पार्वतीपतिसन्नाट्य गायद्गन्धर्वनादितम्
मन्दानिलमनाग्धूत चूतचम्पककोरकम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

नृत्यन्मयूरनिर्ह्राद प्रतिनादिलतागृहम्
तल्लीलाचलविद्योतमानं रत्नलसत्प्रभम् ॥ ६८ ॥

मूलम्

नृत्यन्मयूरनिर्ह्राद प्रतिनादिलतागृहम्
तल्लीलाचलविद्योतमानं रत्नलसत्प्रभम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाः
प्रदक्षिणीकृत्य ततो भक्त्या तां च बभाषिरे ॥ ६९ ॥

मूलम्

तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाः
प्रदक्षिणीकृत्य ततो भक्त्या तां च बभाषिरे ॥ ६९ ॥

विश्वास-प्रस्तुतिः

जगदम्बे नमतुभ्यं शन्नो देहि शिवप्रिये
त्वत्पूजार्थे समानीतो बलिरेष प्रगृह्यताम् ॥ ७० ॥

मूलम्

जगदम्बे नमतुभ्यं शन्नो देहि शिवप्रिये
त्वत्पूजार्थे समानीतो बलिरेष प्रगृह्यताम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

वैश्यस्तु शरभो नाम्ना तस्यास्ति ललिताङ्गना
तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम् ॥ ७१ ॥

मूलम्

वैश्यस्तु शरभो नाम्ना तस्यास्ति ललिताङ्गना
तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

त्वत्प्रसादादभूत्तस्याः स गर्भः शम्भुवल्लभे
त्वत्पूजनाय प्रहितो बलिरस्माभिरेषकः ॥ ७२ ॥

मूलम्

त्वत्प्रसादादभूत्तस्याः स गर्भः शम्भुवल्लभे
त्वत्पूजनाय प्रहितो बलिरस्माभिरेषकः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तस्याः कुले गर्भवती न निरेति बहिर्गृहात्
अतः सा नागता देवि प्रसीदैन गृहाण वै ॥ ७३ ॥

मूलम्

तस्याः कुले गर्भवती न निरेति बहिर्गृहात्
अतः सा नागता देवि प्रसीदैन गृहाण वै ॥ ७३ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम्
समर्पयित्वा विधिवदानर्चुश्चन्दनादिभिः ॥ ७४ ॥

मूलम्

इत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम्
समर्पयित्वा विधिवदानर्चुश्चन्दनादिभिः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

प्रतिवाक्यमलब्ध्वा ता गौर्या प्रत्याययुर्गृहम्
निजसख्यै समाचख्युर्विषण्णां तां शिवप्रियाम् ॥ ७५ ॥

मूलम्

प्रतिवाक्यमलब्ध्वा ता गौर्या प्रत्याययुर्गृहम्
निजसख्यै समाचख्युर्विषण्णां तां शिवप्रियाम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तासामाकर्ण्य वचनमिति वैश्य तवाबला
उन्मनाश्चिन्तयामास कुतो गौरीनपि प्रिये ॥ ७६ ॥

मूलम्

तासामाकर्ण्य वचनमिति वैश्य तवाबला
उन्मनाश्चिन्तयामास कुतो गौरीनपि प्रिये ॥ ७६ ॥

विश्वास-प्रस्तुतिः

सा जानाति यथा भक्तिस्तत्पूजाया कृता मया
तादृशीनां किमज्ञातं बाह्यं चाभ्यन्तरं नृणाम् ॥ ७७ ॥

मूलम्

सा जानाति यथा भक्तिस्तत्पूजाया कृता मया
तादृशीनां किमज्ञातं बाह्यं चाभ्यन्तरं नृणाम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

न गताहं यतस्तत्र तज्जानात्यपि कारणम्
मया दत्तेन बलिना कुतः सा न तुतोष वै ॥ ७८ ॥

मूलम्

न गताहं यतस्तत्र तज्जानात्यपि कारणम्
मया दत्तेन बलिना कुतः सा न तुतोष वै ॥ ७८ ॥

विश्वास-प्रस्तुतिः

नाहमन्यत्प्रजानामि तदतोषे हि कारणम्
ऋते मदगतेस्तत्र नूनं रम्ये तदालये ॥ ७९ ॥

मूलम्

नाहमन्यत्प्रजानामि तदतोषे हि कारणम्
ऋते मदगतेस्तत्र नूनं रम्ये तदालये ॥ ७९ ॥

विश्वास-प्रस्तुतिः

यदतीतं न तच्छक्यमन्यथाकर्तुमद्य वै
गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये ॥ ८० ॥

मूलम्

यदतीतं न तच्छक्यमन्यथाकर्तुमद्य वै
गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये ॥ ८० ॥

विश्वास-प्रस्तुतिः

नमस्तस्यै महादेव भार्यायै सा करोतु शम्
इत्युक्त्वा दधती गर्भं तस्थौ वैश्य तवाङ्गना ॥ ८१ ॥

मूलम्

नमस्तस्यै महादेव भार्यायै सा करोतु शम्
इत्युक्त्वा दधती गर्भं तस्थौ वैश्य तवाङ्गना ॥ ८१ ॥

विश्वास-प्रस्तुतिः

शिवशर्मोवाच-
विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता
पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम् ॥ ८२ ॥

मूलम्

शिवशर्मोवाच-
विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता
पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

वैश्य उवाच-
मुने यथा प्रतिश्रुता पूजा ते स्नुषया तया
तथैवाकारि पार्वत्या विषादे कारणं वद ॥ ८३ ॥

मूलम्

वैश्य उवाच-
मुने यथा प्रतिश्रुता पूजा ते स्नुषया तया
तथैवाकारि पार्वत्या विषादे कारणं वद ॥ ८३ ॥

विश्वास-प्रस्तुतिः

यतोऽसौ न गता तत्र तज्जानाति शिवास्वतः
सखीभ्यश्चोक्तमस्यास्तद्विषण्णा सा कुतोभवत् ॥ ८४ ॥

मूलम्

यतोऽसौ न गता तत्र तज्जानाति शिवास्वतः
सखीभ्यश्चोक्तमस्यास्तद्विषण्णा सा कुतोभवत् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते
यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः ॥ ८५ ॥

मूलम्

देवल उवाच-
वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते
यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

निवृत्तासु सखीष्वस्याः सम्पूज्य स्कन्दमातरम्
विजया पार्वतीं प्राह कौतूहलसमन्विता ॥ ८६ ॥

मूलम्

निवृत्तासु सखीष्वस्याः सम्पूज्य स्कन्दमातरम्
विजया पार्वतीं प्राह कौतूहलसमन्विता ॥ ८६ ॥

विश्वास-प्रस्तुतिः

विजयोवाच-
गिरिजे श्रद्धया तुभ्यं दत्तोमूभिरयं बलि
मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने ॥ ८७ ॥

मूलम्

विजयोवाच-
गिरिजे श्रद्धया तुभ्यं दत्तोमूभिरयं बलि
मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने ॥ ८७ ॥

विश्वास-प्रस्तुतिः

धूपदीपकनैवेद्यैः पूजिता तोषहेतवे
प्रत्युताकारणं देवि त्वं विषादं कुतो गता ॥ ८८ ॥

मूलम्

धूपदीपकनैवेद्यैः पूजिता तोषहेतवे
प्रत्युताकारणं देवि त्वं विषादं कुतो गता ॥ ८८ ॥

विश्वास-प्रस्तुतिः

देवल उवाच-
इत्याकर्ण्य वचः सख्या देवी देववरार्चिता
अब्रवीद्विजयां वैश्य विषादे कारणं सखीम् ॥ ८९ ॥

मूलम्

देवल उवाच-
इत्याकर्ण्य वचः सख्या देवी देववरार्चिता
अब्रवीद्विजयां वैश्य विषादे कारणं सखीम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
विजये सखि जानामि वैश्यभार्या गृहाद्बहिः
निर्गन्तुमक्षमां गर्भधारणास्वविवेकतः ॥ ९० ॥

मूलम्

पार्वत्युवाच-
विजये सखि जानामि वैश्यभार्या गृहाद्बहिः
निर्गन्तुमक्षमां गर्भधारणास्वविवेकतः ॥ ९० ॥

विश्वास-प्रस्तुतिः

समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः
मादृशो न च गृह्णन्ति परहस्तकृतं बलिम् ॥ ९१ ॥

मूलम्

समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः
मादृशो न च गृह्णन्ति परहस्तकृतं बलिम् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम्
तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति ॥ ९२ ॥

मूलम्

तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम्
तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति ॥ ९२ ॥

विश्वास-प्रस्तुतिः

यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेङ्गना
तत्कारयति नाथेन न भङ्गः स्यात्तयोःसखि ॥ ९३ ॥

मूलम्

यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेङ्गना
तत्कारयति नाथेन न भङ्गः स्यात्तयोःसखि ॥ ९३ ॥

विश्वास-प्रस्तुतिः

अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः
यतः स्वयमनागत्य तत्कृतं मे तयार्चनम् ॥ ९४ ॥

मूलम्

अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः
यतः स्वयमनागत्य तत्कृतं मे तयार्चनम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

न कारितं च भर्त्रातो भविता दोहदोऽफलः
यद्युभौ तौ समागत्य दम्पती श्रद्धया पुनः ॥ ९५ ॥

मूलम्

न कारितं च भर्त्रातो भविता दोहदोऽफलः
यद्युभौ तौ समागत्य दम्पती श्रद्धया पुनः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः
देवल उवाच-
सशापो न त्वया वैश्य न चैव तव भार्यया ॥ ९६ ॥

मूलम्

मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः
देवल उवाच-
सशापो न त्वया वैश्य न चैव तव भार्यया ॥ ९६ ॥

विश्वास-प्रस्तुतिः

श्रुतः सखीभिरस्या नो प्रसादश्च तयार्पितः
तयोरज्ञानतो वैश्य युवयोर्नाभवत्सुतः ॥ ९७ ॥

मूलम्

श्रुतः सखीभिरस्या नो प्रसादश्च तयार्पितः
तयोरज्ञानतो वैश्य युवयोर्नाभवत्सुतः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अजानतो प्रतिविधिं परत्रात्र सुखप्रदम्
एतत्ते कथितं वैश्य सन्तानाभावकारणम् ॥ ९८ ॥

मूलम्

अजानतो प्रतिविधिं परत्रात्र सुखप्रदम्
एतत्ते कथितं वैश्य सन्तानाभावकारणम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

वसिष्ठेन यथापूर्वं दिलीपस्य महीपतेः
तच्छ्रुत्वा स यथा राजा नन्दिनीं समतोषयत् ॥ ९९ ॥

मूलम्

वसिष्ठेन यथापूर्वं दिलीपस्य महीपतेः
तच्छ्रुत्वा स यथा राजा नन्दिनीं समतोषयत् ॥ ९९ ॥

सस्त्रीकस्त्वं तथा वैश्य गौरिं तोषय कामदाम्
सा यथाराधिता राज्ञे दिलीपाय ददौ सुतम् १००
आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति
वैश्य उवाच-
दिलीप इति भूपः कः का च सा नन्दिनी मुने १०१
यामाराध्यसुतंलेभेसभूयोभूपसत्तमः
महेशादिसुरान्मुक्त्वा त्रिवर्णफलदायिनः १०२
आराधिता कुतः सैव सुतार्थं तेन भूभुजा
एतत्सर्वं समाख्याहि मुने यत्पृष्टवानहम्
श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया १०३
शिवशर्मोवाच-
गदितमिति निशम्य विष्णुशर्मन्विनययुतेन विशा मदीय पित्रा
मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं विचक्रमे सः १०४
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दी
माहात्म्ये एकाधिकद्विशततमोऽध्यायः २०१