श्रीभगवानुवाच-
विश्वास-प्रस्तुतिः
नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः
मदीयां पदवीं भक्तिं गुर्वीं कुर्वन्ति सत्कृताम् ॥ १ ॥
मूलम्
नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः
मदीयां पदवीं भक्तिं गुर्वीं कुर्वन्ति सत्कृताम् ॥ १ ॥
विश्वास-प्रस्तुतिः
एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम्
प्रवर्तयन्त्यमी नष्टं वेदमार्गं यतः सदा ॥ २ ॥
मूलम्
एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम्
प्रवर्तयन्त्यमी नष्टं वेदमार्गं यतः सदा ॥ २ ॥
विश्वास-प्रस्तुतिः
भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः
प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः ॥ ३ ॥
मूलम्
भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः
प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः ॥ ३ ॥
विश्वास-प्रस्तुतिः
यजस्व सुरशार्दूल मखैर्मां बहुदक्षिणैः
निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदम् ॥ ४ ॥
मूलम्
यजस्व सुरशार्दूल मखैर्मां बहुदक्षिणैः
निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः
आख्ययास्थानमेतत्ते इन्द्रप्रस्थं भविष्यति ॥ ५ ॥
मूलम्
प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः
आख्ययास्थानमेतत्ते इन्द्रप्रस्थं भविष्यति ॥ ५ ॥
विश्वास-प्रस्तुतिः
विधे त्वमत्र रचय प्रयागं तीर्थपुङ्गवम्
सरस्वतीं समानीय गङ्गां च जनपाविनीम् ॥ ६ ॥
मूलम्
विधे त्वमत्र रचय प्रयागं तीर्थपुङ्गवम्
सरस्वतीं समानीय गङ्गां च जनपाविनीम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
काशीं च शिवकाञ्चीं च त्वमत्र स्थापयेश्वर
गोकर्णं च समं गौर्या निवासं कुरु सर्वदा ॥ ७ ॥
मूलम्
काशीं च शिवकाञ्चीं च त्वमत्र स्थापयेश्वर
गोकर्णं च समं गौर्या निवासं कुरु सर्वदा ॥ ७ ॥
विश्वास-प्रस्तुतिः
भो भो ब्रह्मसुता यूयं ज्ञानविज्ञानकोविदाः
निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकम् ॥ ८ ॥
मूलम्
भो भो ब्रह्मसुता यूयं ज्ञानविज्ञानकोविदाः
निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय
विनाध्ययनमप्यत्र स्नानाद्बोधोस्तु छन्दसाम् ॥ ९ ॥
मूलम्
निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय
विनाध्ययनमप्यत्र स्नानाद्बोधोस्तु छन्दसाम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः
अहमारोपयाम्यत्र द्वारकां सुमनोहराम् ॥ १० ॥
मूलम्
स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः
अहमारोपयाम्यत्र द्वारकां सुमनोहराम् ॥ १० ॥
विश्वास-प्रस्तुतिः
समुद्रेणसमं यत्र गोमत्यासङ्गमोऽभवत्
कोशलां च करोम्यत्र मध्वरण्यं च वासव ॥ ११ ॥
मूलम्
समुद्रेणसमं यत्र गोमत्यासङ्गमोऽभवत्
कोशलां च करोम्यत्र मध्वरण्यं च वासव ॥ ११ ॥
विश्वास-प्रस्तुतिः
ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः
बदर्याश्रममप्यत्र नरनारायणास्पदम् ॥ १२ ॥
मूलम्
ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः
बदर्याश्रममप्यत्र नरनारायणास्पदम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
विदधामि सदा यत्र वसामि सुरनायक
हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् ॥ १३ ॥
मूलम्
विदधामि सदा यत्र वसामि सुरनायक
हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तदपि स्थापयाम्यत्र तवैव हितकाम्यया
नैमिषेयानि तीर्थानि यानि कालञ्जरे गिरौ ॥ १४ ॥
मूलम्
तदपि स्थापयाम्यत्र तवैव हितकाम्यया
नैमिषेयानि तीर्थानि यानि कालञ्जरे गिरौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
सरस्वतीतटे यानि स्थापयाम्यहमत्र वै
नारद उवाच-
शिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् ॥ १५ ॥
मूलम्
सरस्वतीतटे यानि स्थापयाम्यहमत्र वै
नारद उवाच-
शिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः
सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः ॥ १६ ॥
मूलम्
दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः
सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्वर्णयूपैर्बहुमखैरीजे भूयो रमापतिम्
रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ ॥ १७ ॥
मूलम्
स्वर्णयूपैर्बहुमखैरीजे भूयो रमापतिम्
रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ ॥ १७ ॥
विश्वास-प्रस्तुतिः
नारायणः समस्तात्मा ममायमिति तुष्यतु
इन्द्रप्रस्थमिदं तीर्थं ततःप्रभृति कथ्यते ॥ १८ ॥
मूलम्
नारायणः समस्तात्मा ममायमिति तुष्यतु
इन्द्रप्रस्थमिदं तीर्थं ततःप्रभृति कथ्यते ॥ १८ ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थमये यत्र मृतो भूयो न जायते
इन्द्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः ॥ १९ ॥
मूलम्
सर्वतीर्थमये यत्र मृतो भूयो न जायते
इन्द्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तस्मै ददुरवितथामाशिषं तत्र संसदि
इन्द्राय तव गोविन्दो दानेनानेन तुष्यतु ॥ २० ॥
मूलम्
तस्मै ददुरवितथामाशिषं तत्र संसदि
इन्द्राय तव गोविन्दो दानेनानेन तुष्यतु ॥ २० ॥
विश्वास-प्रस्तुतिः
तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी
कर्मभूमाविह विभो पुरा यज्ञशतं कृतम् ॥ २१ ॥
मूलम्
तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी
कर्मभूमाविह विभो पुरा यज्ञशतं कृतम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तेन पुण्येन लब्धं ते सकामेन सुरास्पदम्
अधुना पूजितो विष्णुर्निःकामेन त्वया मखैः ॥ २२ ॥
मूलम्
तेन पुण्येन लब्धं ते सकामेन सुरास्पदम्
अधुना पूजितो विष्णुर्निःकामेन त्वया मखैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः
तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् ॥ २३ ॥
मूलम्
स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः
तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् ॥ २३ ॥
विश्वास-प्रस्तुतिः
स्मरिष्यति निजं कर्म कृतमत्र मखादिकम्
तत्स्मृतेगृर्हमुत्सृज्य भवान्तीर्थानि पर्यटन् ॥ २४ ॥
मूलम्
स्मरिष्यति निजं कर्म कृतमत्र मखादिकम्
तत्स्मृतेगृर्हमुत्सृज्य भवान्तीर्थानि पर्यटन् ॥ २४ ॥
विश्वास-प्रस्तुतिः
जनकेन समं शक्र तीर्थेऽस्मिन्सम्प्रपत्स्यते
चतुर्थाश्रममादाय त्यक्षत्यत्र कलेवरम् ॥ २५ ॥
मूलम्
जनकेन समं शक्र तीर्थेऽस्मिन्सम्प्रपत्स्यते
चतुर्थाश्रममादाय त्यक्षत्यत्र कलेवरम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
ततो विमानमारुह्य गणा नीतं रविप्रभम्
भवान्दिव्याङ्गवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् ॥ २६ ॥
मूलम्
ततो विमानमारुह्य गणा नीतं रविप्रभम्
भवान्दिव्याङ्गवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
एवमाकर्ण्य विप्राणामाशिषं त्रिदशाधिपः
भविष्यपिशुनां चोक्तिं शिवे मुदमगात्तराम् ॥ २७ ॥
मूलम्
नारद उवाच-
एवमाकर्ण्य विप्राणामाशिषं त्रिदशाधिपः
भविष्यपिशुनां चोक्तिं शिवे मुदमगात्तराम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान्
माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् ॥ २८ ॥
मूलम्
समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान्
माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः
बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् ॥ २९ ॥
मूलम्
ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः
बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
तत्र राज्यं विधायेन्द्रो हरिभक्तियुतः शिवे
अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने ॥ ३० ॥
मूलम्
तत्र राज्यं विधायेन्द्रो हरिभक्तियुतः शिवे
अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने ॥ ३० ॥
विश्वास-प्रस्तुतिः
शिवशर्मा द्विजः कश्चिद्वेदवेदाङ्गपारगः
तस्य भार्या गुणवती नाम्नान्वर्थवती भृशम् ॥ ३१ ॥
मूलम्
शिवशर्मा द्विजः कश्चिद्वेदवेदाङ्गपारगः
तस्य भार्या गुणवती नाम्नान्वर्थवती भृशम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तस्यां जातः सुवेलायामिन्द्रः श्रीपतिसेवकः
ज्योतिर्विदः समाहूता लग्नं दृष्ट्वा बभाषिरे ॥ ३२ ॥
मूलम्
तस्यां जातः सुवेलायामिन्द्रः श्रीपतिसेवकः
ज्योतिर्विदः समाहूता लग्नं दृष्ट्वा बभाषिरे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ज्योतिर्विद ऊचुः-
शिवशर्मन्नयं बालः तव भावी हरिप्रियः
उद्धरिष्यति ते वंशं ब्रूमः सत्यं न वै मृषा ॥ ३३ ॥
मूलम्
ज्योतिर्विद ऊचुः-
शिवशर्मन्नयं बालः तव भावी हरिप्रियः
उद्धरिष्यति ते वंशं ब्रूमः सत्यं न वै मृषा ॥ ३३ ॥
विश्वास-प्रस्तुतिः
त्रयोदशाब्ददेहो यः साङ्गं वेदचतुष्टयम्
अधीतज्ञानसम्पन्नो विवाहं तु करिष्यति ॥ ३४ ॥
मूलम्
त्रयोदशाब्ददेहो यः साङ्गं वेदचतुष्टयम्
अधीतज्ञानसम्पन्नो विवाहं तु करिष्यति ॥ ३४ ॥
विश्वास-प्रस्तुतिः
पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति
तीर्थेषु पर्यटन्धीरः सन्न्यासं धारयिष्यति ॥ ३५ ॥
मूलम्
पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति
तीर्थेषु पर्यटन्धीरः सन्न्यासं धारयिष्यति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इन्द्रस्य खाण्डववने यमुनास्ति सरिद्वरा
तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति ॥ ३६ ॥
मूलम्
इन्द्रस्य खाण्डववने यमुनास्ति सरिद्वरा
तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
गणकोदितमाकर्ण्य शिवशर्मा शिवं वचः
चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ॥ ३७ ॥
मूलम्
नारद उवाच-
गणकोदितमाकर्ण्य शिवशर्मा शिवं वचः
चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तान्विसृज्य च वित्तेन चिन्तयामास बुद्धिमान्
धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति ॥ ३८ ॥
मूलम्
तान्विसृज्य च वित्तेन चिन्तयामास बुद्धिमान्
धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति ॥ ३८ ॥
विश्वास-प्रस्तुतिः
साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम
मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ॥ ३९ ॥
मूलम्
साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम
मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवं विचिन्त्य मनसा जातकर्माद्यकारयत्
शिशोर्द्विजातिप्रवरैः शिवशर्मा शुभेऽहनि ॥ ४० ॥
मूलम्
एवं विचिन्त्य मनसा जातकर्माद्यकारयत्
शिशोर्द्विजातिप्रवरैः शिवशर्मा शुभेऽहनि ॥ ४० ॥
विश्वास-प्रस्तुतिः
अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः
सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ॥ ४१ ॥
मूलम्
अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः
सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ॥ ४१ ॥
विश्वास-प्रस्तुतिः
आद्वादशाब्दादध्याप्य वेदानन्वगतः सुतम्
शिवशर्मा शिवे राजन्युयोज सह भार्यया ॥ ४२ ॥
मूलम्
आद्वादशाब्दादध्याप्य वेदानन्वगतः सुतम्
शिवशर्मा शिवे राजन्युयोज सह भार्यया ॥ ४२ ॥
विश्वास-प्रस्तुतिः
विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान्
चकार तीर्थयात्रायां मनो निर्विषयं स्वकम् ॥ ४३ ॥
मूलम्
विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान्
चकार तीर्थयात्रायां मनो निर्विषयं स्वकम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम्
विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ॥ ४४ ॥
मूलम्
अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम्
विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
विष्णुशर्मोवाच -
अनुजानीहि मां तात विष्णुमाराधयाम्यहम्
तृतीयाश्रममासाद्य सत्सङ्गतिविधायकम् ॥ ४५ ॥
मूलम्
विष्णुशर्मोवाच -
अनुजानीहि मां तात विष्णुमाराधयाम्यहम्
तृतीयाश्रममासाद्य सत्सङ्गतिविधायकम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
दारागारधनापत्यसुहृदः क्षणभङ्गुराः
बुद्बुदा इव तोयेषु सुधीस्तेषु न सज्जते ॥ ४६ ॥
मूलम्
दारागारधनापत्यसुहृदः क्षणभङ्गुराः
बुद्बुदा इव तोयेषु सुधीस्तेषु न सज्जते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
स्वाध्यायेन च सन्तत्या मया तीर्णमृणद्वयम्
तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ॥ ४७ ॥
मूलम्
स्वाध्यायेन च सन्तत्या मया तीर्णमृणद्वयम्
तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सन्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचित्
स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ॥ ४८ ॥
मूलम्
सन्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचित्
स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ॥ ४८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः
स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ॥ ४९ ॥
मूलम्
इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः
स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
शिवशर्मोवाच-
चतुर्थाश्रमकालोऽयं ममापि निरहङ्कृतेः
विषयान्विषवत्त्यक्त्वा सेविष्ये केशवामृतम् 6.200.॥ ५० ॥
मूलम्
शिवशर्मोवाच-
चतुर्थाश्रमकालोऽयं ममापि निरहङ्कृतेः
विषयान्विषवत्त्यक्त्वा सेविष्ये केशवामृतम् 6.200.॥ ५० ॥
विश्वास-प्रस्तुतिः
गृहे मम मनः पुत्र रमते नाद्य वार्द्धके
आनीतस्य वनाद्बद्ध्वा गजस्येव नृपालये ॥ ५१ ॥
मूलम्
गृहे मम मनः पुत्र रमते नाद्य वार्द्धके
आनीतस्य वनाद्बद्ध्वा गजस्येव नृपालये ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तवानुजं सुशर्मायं कुटुम्बं धारयिष्यति
आवाभ्यामुज्झितं विद्याश्रीकुलाभ्यां यथा नरम् ॥ ५२ ॥
मूलम्
तवानुजं सुशर्मायं कुटुम्बं धारयिष्यति
आवाभ्यामुज्झितं विद्याश्रीकुलाभ्यां यथा नरम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
प्रव्रजन्तं तु मामेव तव माता पतिव्रता
अनुयास्यति मार्तण्डं यथा कान्तिर्दिनात्यये ॥ ५३ ॥
मूलम्
प्रव्रजन्तं तु मामेव तव माता पतिव्रता
अनुयास्यति मार्तण्डं यथा कान्तिर्दिनात्यये ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्मादावामविज्ञातो तया तात तवाम्बया
गच्छावश्चिन्तयन्तौ श्रीहरेः पादसरोरुहम् ॥ ५४ ॥
मूलम्
तस्मादावामविज्ञातो तया तात तवाम्बया
गच्छावश्चिन्तयन्तौ श्रीहरेः पादसरोरुहम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्यालोच्य मुमुक्षू तौ निशीथे तमसावृते
सुप्तं कुटुम्बमुत्सृज्य गृहान्निर्याय जग्मतुः ॥ ५५ ॥
मूलम्
नारद उवाच-
इत्यालोच्य मुमुक्षू तौ निशीथे तमसावृते
सुप्तं कुटुम्बमुत्सृज्य गृहान्निर्याय जग्मतुः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सहैव पर्यटन्तौ तौ सुतीर्थे निरहङ्कृती
शिवेऽत्रशिवदे तीर्थे शक्रप्रस्थे समीयतुः ॥ ५६ ॥
मूलम्
सहैव पर्यटन्तौ तौ सुतीर्थे निरहङ्कृती
शिवेऽत्रशिवदे तीर्थे शक्रप्रस्थे समीयतुः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अत्रागतः स्वविहितान्पूर्वजन्मनि यूपकान्
विष्णुशर्मा शमालोक्य सस्मार हरिसङ्गमम् ॥ ५७ ॥
मूलम्
अत्रागतः स्वविहितान्पूर्वजन्मनि यूपकान्
विष्णुशर्मा शमालोक्य सस्मार हरिसङ्गमम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ऊचे च पितरं धीमान्शक्र आसमहं पुरा
मयात्र विहिता यज्ञा माधवप्रीणनेच्छया ॥ ५८ ॥
मूलम्
ऊचे च पितरं धीमान्शक्र आसमहं पुरा
मयात्र विहिता यज्ञा माधवप्रीणनेच्छया ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अत्रैव मे प्रसन्नोऽभूत्केशवो भक्तवत्सलः
सन्तोषिता मणिप्रस्थैः द्विजाः सप्तर्षयश्च मे ॥ ५९ ॥
मूलम्
अत्रैव मे प्रसन्नोऽभूत्केशवो भक्तवत्सलः
सन्तोषिता मणिप्रस्थैः द्विजाः सप्तर्षयश्च मे ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तैरेव वैष्णवी भक्तिर्दत्ता मोक्षोभवेऽत्र च
विष्ण्वादिभिः समस्तैस्तु तीर्थान्यत्र कृतानि वै ॥ ६० ॥
मूलम्
तैरेव वैष्णवी भक्तिर्दत्ता मोक्षोभवेऽत्र च
विष्ण्वादिभिः समस्तैस्तु तीर्थान्यत्र कृतानि वै ॥ ६० ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम्
अत्रैव मे मृतिश्चोक्ता तैरेव मुनिपुङ्गवैः ॥ ६१ ॥
मूलम्
सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम्
अत्रैव मे मृतिश्चोक्ता तैरेव मुनिपुङ्गवैः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
ततो हरिपदप्राप्तिरेतत्सर्वं स्मराम्यहम्
इमे गङ्गासरस्वत्यौ निजलोकाद्विरिञ्चिना ॥ ६२ ॥
मूलम्
ततो हरिपदप्राप्तिरेतत्सर्वं स्मराम्यहम्
इमे गङ्गासरस्वत्यौ निजलोकाद्विरिञ्चिना ॥ ६२ ॥
विश्वास-प्रस्तुतिः
समानीते ययोर्योगे प्रयागोऽयं निगद्यते
एषा काशी शिवपुरी प्रयागात्पूर्वदेशके ॥ ६३ ॥
मूलम्
समानीते ययोर्योगे प्रयागोऽयं निगद्यते
एषा काशी शिवपुरी प्रयागात्पूर्वदेशके ॥ ६३ ॥
विश्वास-प्रस्तुतिः
द्विपञ्चाशद्धनुर्मात्रे मृतो यस्यां न जायते
काश्याः पश्चिमके भागे धनुषामेकविंशतिः ॥ ६४ ॥
मूलम्
द्विपञ्चाशद्धनुर्मात्रे मृतो यस्यां न जायते
काश्याः पश्चिमके भागे धनुषामेकविंशतिः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
शिवकाञ्ची शिवेनैषा स्थापिता मृतमुक्तिदा
गोकर्णाख्यमिदं क्षेत्रं शम्भोः परमवल्लभम् ॥ ६५ ॥
मूलम्
शिवकाञ्ची शिवेनैषा स्थापिता मृतमुक्तिदा
गोकर्णाख्यमिदं क्षेत्रं शम्भोः परमवल्लभम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
धनुर्द्वयप्रमाणे तु भूमिभागे व्यवस्थितम्
इयं द्वारवती पुण्या तीर्थराजस्य पश्चिमे ॥ ६६ ॥
मूलम्
धनुर्द्वयप्रमाणे तु भूमिभागे व्यवस्थितम्
इयं द्वारवती पुण्या तीर्थराजस्य पश्चिमे ॥ ६६ ॥
विश्वास-प्रस्तुतिः
धनुषां सप्ततिर्यत्र मृतो भावी चतुर्भुजः
अतोऽसौ पूर्वदिग्भागे कोशलाजनवत्सला ॥ ६७ ॥
मूलम्
धनुषां सप्ततिर्यत्र मृतो भावी चतुर्भुजः
अतोऽसौ पूर्वदिग्भागे कोशलाजनवत्सला ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना
एतन्मधुवनं तात स्थापितं विष्णुना स्वयम् ॥ ६८ ॥
मूलम्
अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना
एतन्मधुवनं तात स्थापितं विष्णुना स्वयम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
कोशला पश्चिमे भागे दशचापप्रमाणतः
अत उत्तरतस्तात नरनारायणास्पदम् ॥ ६९ ॥
मूलम्
कोशला पश्चिमे भागे दशचापप्रमाणतः
अत उत्तरतस्तात नरनारायणास्पदम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
एतदेकादशधनुर्भूमिदेशे च तिष्ठति
एतत्तीर्थं हरिद्वारमतो दक्षिणतः स्थितम् ॥ ७० ॥
मूलम्
एतदेकादशधनुर्भूमिदेशे च तिष्ठति
एतत्तीर्थं हरिद्वारमतो दक्षिणतः स्थितम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्ल्लभम्
एतत्तु पुष्करं नाम तीर्थं तीर्थशिरोमणिम् ॥ ७१ ॥
मूलम्
त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्ल्लभम्
एतत्तु पुष्करं नाम तीर्थं तीर्थशिरोमणिम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
द्वादशेष्वासमात्रे भूभागे भो तात तिष्ठति
प्रयागादिक गव्यूतिः सप्तर्षीणां महात्मनाम् ॥ ७२ ॥
मूलम्
द्वादशेष्वासमात्रे भूभागे भो तात तिष्ठति
प्रयागादिक गव्यूतिः सप्तर्षीणां महात्मनाम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
पूर्वस्यां दिशि तीर्थानि सप्ततत्तीर्थसप्तकम्
तीर्थसप्तककाशोस्तु सन्ति तीर्थान्यनेकशः ॥ ७३ ॥
मूलम्
पूर्वस्यां दिशि तीर्थानि सप्ततत्तीर्थसप्तकम्
तीर्थसप्तककाशोस्तु सन्ति तीर्थान्यनेकशः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
पदेपदे येषु मृतो जायते स चतुर्भुजः
प्रयागादेकगव्यूतिमात्रे पश्चिमभूतले ॥ ७४ ॥
मूलम्
पदेपदे येषु मृतो जायते स चतुर्भुजः
प्रयागादेकगव्यूतिमात्रे पश्चिमभूतले ॥ ७४ ॥
विश्वास-प्रस्तुतिः
निगमोद्बोधकं नाम तीर्थं गुरुकृतं पुरा
तीर्थसप्तकनिगमोद्बोधयोरन्तरं महत् ॥ ७५ ॥
मूलम्
निगमोद्बोधकं नाम तीर्थं गुरुकृतं पुरा
तीर्थसप्तकनिगमोद्बोधयोरन्तरं महत् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
इन्द्रप्रस्थमिदं क्षेत्रं स्थापितं दैवतैः पुरा
पूर्वपश्चिमयोस्तात एकयोजनविस्तृतम् ॥ ७६ ॥
मूलम्
इन्द्रप्रस्थमिदं क्षेत्रं स्थापितं दैवतैः पुरा
पूर्वपश्चिमयोस्तात एकयोजनविस्तृतम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
कालिन्द्यावदक्षिणेवयावद्योजनानांवचतुष्टयम्
इन्द्रप्रस्थस्यमर्यादा कथितैषा महर्षिभिः ॥ ७७ ॥
मूलम्
कालिन्द्यावदक्षिणेवयावद्योजनानांवचतुष्टयम्
इन्द्रप्रस्थस्यमर्यादा कथितैषा महर्षिभिः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
देवत्रय्यां च योह्यत्र त्यजत्यङ्गं भवत्यजः
नारद उवाच-
पुत्रस्यैतद्वचः श्रुत्वा शिवशर्मा शिवे द्विजः ॥ ७८ ॥
मूलम्
देवत्रय्यां च योह्यत्र त्यजत्यङ्गं भवत्यजः
नारद उवाच-
पुत्रस्यैतद्वचः श्रुत्वा शिवशर्मा शिवे द्विजः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
प्रत्याहलसन्दिहानस्तं स्वपुत्रं सत्यवादिनम्
शिवशर्मोवाच-
कथमेतद्विजानीयां त्वं पुरासीः सुरेश्वरः ॥ ७९ ॥
मूलम्
प्रत्याहलसन्दिहानस्तं स्वपुत्रं सत्यवादिनम्
शिवशर्मोवाच-
कथमेतद्विजानीयां त्वं पुरासीः सुरेश्वरः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः
त्वदुक्तज्ञानवान्पुत्र यथाऽहं स्यां तथा कुरु ॥ ८० ॥
मूलम्
त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः
त्वदुक्तज्ञानवान्पुत्र यथाऽहं स्यां तथा कुरु ॥ ८० ॥
विश्वास-प्रस्तुतिः
इन्द्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता
यतः प्रभृति ते जाता मतिस्त्वं नात्यजो गृहम् ॥ ८१ ॥
मूलम्
इन्द्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता
यतः प्रभृति ते जाता मतिस्त्वं नात्यजो गृहम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
मत्त एव त्वयाधीतं साङ्गं वेदचतुष्टयम्
पूर्वजन्मकृते कृत्ये ज्ञानमासीत्कुतस्तव ॥ ८२ ॥
मूलम्
मत्त एव त्वयाधीतं साङ्गं वेदचतुष्टयम्
पूर्वजन्मकृते कृत्ये ज्ञानमासीत्कुतस्तव ॥ ८२ ॥
विश्वास-प्रस्तुतिः
विष्णुशर्मोवाच -
ऋषिभिर्मे वरो दत्तः पूर्वजन्मस्मृतिप्रदः
तेभ्य एवास्य तीर्थस्य श्रुता ह्येषा स्मृतिर्मया ॥ ८३ ॥
मूलम्
विष्णुशर्मोवाच -
ऋषिभिर्मे वरो दत्तः पूर्वजन्मस्मृतिप्रदः
तेभ्य एवास्य तीर्थस्य श्रुता ह्येषा स्मृतिर्मया ॥ ८३ ॥
विश्वास-प्रस्तुतिः
निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु
दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदम् ॥ ८४ ॥
मूलम्
निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु
दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
ममापि पूर्वजनुषः प्रवृत्तिं त्वं स्मरिष्यसि
एतत्तीर्थजलस्पर्शात्तात सत्यं वदामि ते ॥ ८५ ॥
मूलम्
ममापि पूर्वजनुषः प्रवृत्तिं त्वं स्मरिष्यसि
एतत्तीर्थजलस्पर्शात्तात सत्यं वदामि ते ॥ ८५ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
शिवशर्मणि विप्रेन्द्रे श्रुत्वैतत्स्नातुमुद्यते
निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः ॥ ८६ ॥
मूलम्
नारद उवाच-
शिवशर्मणि विप्रेन्द्रे श्रुत्वैतत्स्नातुमुद्यते
निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
सिंहेनानुगतः कश्चिद्भिल्लो धावन्समागतः
अतित्रासपरीताङ्गो निःश्वसन्श्रमविह्वलः ॥ ८७ ॥
मूलम्
सिंहेनानुगतः कश्चिद्भिल्लो धावन्समागतः
अतित्रासपरीताङ्गो निःश्वसन्श्रमविह्वलः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
हिंसात्मको वर्त्मघाती वणिजां लुण्ठकः सदा
कृष्णाङ्गः पिङ्गकेशश्च खर्वो मार्जारलोचनः ॥ ८८ ॥
मूलम्
हिंसात्मको वर्त्मघाती वणिजां लुण्ठकः सदा
कृष्णाङ्गः पिङ्गकेशश्च खर्वो मार्जारलोचनः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
कुन्तहस्तो भीममूर्ति देही पाप्मेव भूयते
सतः पश्चात्कियद्दूरे सिंहमालोक्य तावुभौ ॥ ८९ ॥
मूलम्
कुन्तहस्तो भीममूर्ति देही पाप्मेव भूयते
सतः पश्चात्कियद्दूरे सिंहमालोक्य तावुभौ ॥ ८९ ॥
विश्वास-प्रस्तुतिः
पितृपुत्रौ समीपस्थे द्रुममारुह्य तस्थतुः
वदन्ताविति हा कृष्ण मोचयातोऽपमृत्युतः ॥ ९० ॥
मूलम्
पितृपुत्रौ समीपस्थे द्रुममारुह्य तस्थतुः
वदन्ताविति हा कृष्ण मोचयातोऽपमृत्युतः ॥ ९० ॥
विश्वास-प्रस्तुतिः
स किरातस्तु राजेन्द्र गृहीतुं वेगवत्तरम्
वीक्ष्य सिंहं द्रुमं भीतः समारोढुं प्रचक्रमे ॥ ९१ ॥
मूलम्
स किरातस्तु राजेन्द्र गृहीतुं वेगवत्तरम्
वीक्ष्य सिंहं द्रुमं भीतः समारोढुं प्रचक्रमे ॥ ९१ ॥
विश्वास-प्रस्तुतिः
आरोहणं प्रकुर्वन्तं सिंहो जग्राह वेगवान्
पादयोरथ भूपृष्ठे पातयित्वा रुरोह तम् ॥ ९२ ॥
मूलम्
आरोहणं प्रकुर्वन्तं सिंहो जग्राह वेगवान्
पादयोरथ भूपृष्ठे पातयित्वा रुरोह तम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अधःस्थितो किरातोऽपि कुन्तेनोदरमस्य वै
ददार रुधिरौघाक्त निसृतान्त्रकदम्बकम् ॥ ९३ ॥
मूलम्
अधःस्थितो किरातोऽपि कुन्तेनोदरमस्य वै
ददार रुधिरौघाक्त निसृतान्त्रकदम्बकम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
जातव्यथो विधायाथ नादं परमदारुणम्
सिंहः पिपेष भिल्लस्य शिरः सद्यो ममार च ॥ ९४ ॥
मूलम्
जातव्यथो विधायाथ नादं परमदारुणम्
सिंहः पिपेष भिल्लस्य शिरः सद्यो ममार च ॥ ९४ ॥
विश्वास-प्रस्तुतिः
तयोः पञ्चत्वमापन्ने भूतसङ्घेऽत्र भूपते
विमानद्वयमुत्तीर्णं गणाभ्यां सह सत्पदात् ॥ ९५ ॥
मूलम्
तयोः पञ्चत्वमापन्ने भूतसङ्घेऽत्र भूपते
विमानद्वयमुत्तीर्णं गणाभ्यां सह सत्पदात् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
नवीनघनवर्णाभ्यां स्फटिकोपलनिर्मितम्
चारुकुण्डलकर्णाभ्यां मणिप्रकरमण्डितम् ॥ ९६ ॥
मूलम्
नवीनघनवर्णाभ्यां स्फटिकोपलनिर्मितम्
चारुकुण्डलकर्णाभ्यां मणिप्रकरमण्डितम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापद्महस्ताभ्यां चारुचित्रभृत्
दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितम् ॥ ९७ ॥
मूलम्
शङ्खचक्रगदापद्महस्ताभ्यां चारुचित्रभृत्
दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
प्रफुल्लाम्बुजनेत्राभ्यां पद्मरागगवाक्षभृत्
धीरनिह्रादमञ्जीरपद्भ्यां रणितकिङ्किणी ॥ ९८ ॥
मूलम्
प्रफुल्लाम्बुजनेत्राभ्यां पद्मरागगवाक्षभृत्
धीरनिह्रादमञ्जीरपद्भ्यां रणितकिङ्किणी ॥ ९८ ॥
विश्वास-प्रस्तुतिः
प्रकोष्ठेवलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकम्
मुक्ताहारैर्मनोहारि वक्षोभ्यां सवितानवत् ॥ ९९ ॥
मूलम्
प्रकोष्ठेवलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकम्
मुक्ताहारैर्मनोहारि वक्षोभ्यां सवितानवत् ॥ ९९ ॥
कुटिलालकवक्त्राभ्यां मुन्नतध्वजिराजितम्
भ्रूयुगाक्षिप्तपञ्चेषु धनुर्भ्यामुच्चतोरणम् 6.200.१००
नासालज्जितकीराभ्यां निर्व्यूहशतशोभितम्
नवविद्रुमसच्छायतलाभ्यां दर्पणामलम् १०१
दिव्याङ्गौ भिल्लपञ्चास्यौ त्यक्त्वाङ्गं प्राकृतं स्थितौ
पुरैव प्राणनिर्याणे तीर्थस्यास्य प्रभावतः १०२
तयोः समीपमानीय विमानौ तौ हरेर्गणौ
ऊचतुस्तावथारूपवेषाकृतिधरौ ततः १०३
भो किरात नरश्रेष्ठ भो पञ्चास्य मृगाधिप
आवां जानीतमायातौ वैकुण्ठात् श्रीहरेर्गणौ १०४
नेष्यामस्तत्पदं सत्यं युवां तत्र न चोर्मयः
स्वंस्वं विमानमारुह्य गम्यतामाशु मा चिरम् १०५
स्वंस्वं विमानमारूढौ तौ किरातमृगाधिपौ
ऊचतुर्विस्मयाविष्टौ लक्ष्मीपतिगणौ प्रति १०६
भोभो त्रिदशशार्दूलौ श्रूयतां वाक्यमावयोः
युवयोर्दर्शनाज्जातं ज्ञानं तौ पारमार्थिकम् १०७
अत्र जन्मनि नावाभ्यां कृतं सुकृतमल्पकम्
स्मृतिर्नो जायते पूर्वकर्मणां वां प्रसादतः १०८
मांसाहारौ प्राणिहिंसारतौ क्रूरान्तरेन्द्रियौ
पापाचारकुले जातौ दर्शनेन भयप्रदौ १०९
आवामेतादृशे लोके ह्यभूतामिति पापिनौ
केन पुण्येन युवयोर्जातं दर्शनमावयोः ११०
सारूप्यं च कुतः पुण्याद्यायावः श्रीहरेः पदम्
गणावूचतुः
तीर्थेत्र मरणान्नूनं सुराचार्यकृते पुरा १११
युवयोर्दर्शनं जातं नौ च सारूप्यमद्भुतम्
लक्ष्मीपतिपदपाप्तिर्भविष्यति च वां चिरम् ११२
तावत्पापानि गर्जन्ति ब्रह्महत्यादिकानि वै
जातं न दर्शनं यावत्तीर्थस्यास्य बृहस्पतेः ११३
यथा तमांसि नश्यन्ति भास्करस्योदयादिह
तथा पापानि निगमोद्बोधकस्याविलोकनात् ११४
इन्द्रप्रस्थाख्यमेतद्वै क्षेत्रमिन्द्रस्य पावनम्
तेनात्र पूजितो विष्णुः क्रतुभिर्बहुदक्षिणैः ११५
तुष्टेन विष्णुना तस्मै वरो दत्तो निशम्यताम्
भो शक्र तावके क्षेत्रे सर्वतीर्थमये जनाः ११६
तनुं त्यक्षन्ति ये ते वै मत्तुल्या हिंसका अपि ११७
नारद उवाच-
इत्युक्त्वा तौ गणःश्रेष्ठौ नीत्वा तौ जग्मतुः पदम्
हरेर्यत्रगतोभूयो विश्वाब्धौ न निमज्जति ११८
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दी
माहात्म्ये भिल्लसिंहवैकुण्ठारोहणं नाम द्विशततमोऽध्यायः २००