१९७

कुमारा ऊचुः

विश्वास-प्रस्तुतिः

पितर्येवं वनं प्राप्ते पश्चादागत्य नारद
जननीं तर्जयामास धुन्धुकारी महाखलः ॥ १ ॥

मूलम्

पितर्येवं वनं प्राप्ते पश्चादागत्य नारद
जननीं तर्जयामास धुन्धुकारी महाखलः ॥ १ ॥

विश्वास-प्रस्तुतिः

क्व वित्तं तिष्ठति ब्रूहि मातरं प्रति नारद
सर्वथा त्वां हनिष्यामि न चेद्ब्रूया निधानकम् ॥ २ ॥

सा तस्य वचनात्त्रस्ता रात्रौ दुःखितमानसा
निपत्य कूपे तु मृता लोकैर्ज्ञात्वा बहिः कृता ॥ ३ ॥

गोकर्णस्तां तु निर्हृत्य द्विजैस्तज्ज्ञातिबान्धवैः
तीर्थयात्रां ययौ प्राज्ञः समदुःखसुखो मुने ॥ ४ ॥

धुन्धुकारी गृहे तिष्ठन्स्वके पण्यवधूवृतः
अत्युग्रकर्माचारेण तत्पोषणविमूढधीः ॥ ५ ॥

भूषणान्यभिलिप्स्यन्त्यस्तमूचुर्वारयोषितः
भोभो प्रिय वयं सर्वांस्त्वयानाथेन सङ्गताः ॥ ६ ॥

स्थिता नैवात्र कोप्यन्यो धनदोभ्येति मानद
तस्मात्सूक्ष्माणि वस्त्राणि भूषणानि द्युमन्ति च ॥ ७ ॥

देहि नोचेद्व्रजिष्यामस्त्वत्सकाशान्नरान्तरम्
इति श्रुत्वा वचस्तासां चिन्तयित्वा क्षणं स च ॥ ८ ॥

निर्गतः स्वगृहाद्रात्रौ कामान्धो मृत्युमस्मरन्
मुषित्वा कस्यचिद्गेहाद्वस्त्राण्याभरणानि च ॥ ९ ॥

ददौ ताभ्यो मुदायुक्तः प्रीत्यै तासां स नारद
तानि दृष्ट्वा ह्यमूल्यानि वस्त्राण्याभरणानि च ॥ १० ॥

ताः स्त्रियश्चिन्तयामासुश्चौर्येणैतानि चामुना
आहृतानीति निश्चित्य परस्परममन्त्रयन् ॥ ११ ॥

चौर्यं करोत्यसौ नित्यमेनं राजा गृहीष्यति
वित्तं हृत्वा पुनश्चैव मारयिष्यति निश्चितम् ॥ १२ ॥

अतो रहसि चास्माभिर्हत्वामुं चौर्यकारिणम्
वित्तं च बहु सङ्गृह्य किमन्यत्र न गम्यते ॥ १३ ॥

इति ताः क्रूरहृदयाः सुप्तं कण्ठग्रहं तदा
पाशैः सुतीक्ष्णैर्बद्ध्वा च व्यापादयितुमुद्यताः ॥ १४ ॥

यदा च न मृतश्चासौ भृशं कण्ठग्रहेण वै
तदाङ्गाराणि बहुशो मुखे चास्य विचिक्षिपुः ॥ १५ ॥

अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः
तद्देहं चिक्षिपुर्गर्ते प्रायः साहसिकाः स्त्रियः ॥ १६ ॥

न ज्ञातं तच्चरित्रं तु केनापि मुनिसत्तम
लोकैः पृष्टा वदन्ति स्म दूरे यातः पतिर्हि नः ॥ १७ ॥

आगमिष्यति दीर्घेण कालेन धनकर्षितः
अतः स्त्रीणां न विश्वासः कर्त्तव्यो विदुषां वरैः ॥ १८ ॥

विश्वस्तं सर्वथा घ्नन्ति प्रार्थयन्त्यो नवं नवम्
सुधामयं वचो यासां कामिनां रसवर्द्धनम् ॥ १९ ॥

हृदयं क्षुरधाराभं प्रियः को नाम योषिताम्
अथ ता बहुलं वित्तं गृहीत्वा वारयोषितः ॥ २० ॥

ग्रामान्तरं ययुः शीघ्रं भयाद्राज्ञोऽतिविह्वलाः
धुन्धुकारी बभूवाथ महाप्रेतः कुकर्मकृत् ॥ २१ ॥

वात्यारूपधरो नित्यं धावन्दुर्मृत्युतो दिशः
शीतातपपरिक्लिष्टो निराहारः पिपासितः ॥ २२ ॥

न च लेभे सुखं क्वापि हाहेति प्रवदन्मुहुः
कियत्कालान्तरे त्वेनं मृतं चैवावबुध्य च ॥ २३ ॥

गोकर्णस्तीर्थयात्रायां गयाश्राद्धमथाकरोत्
समाप्य तीर्थयात्रां तु स्वम्पुरं समुपेयिवान ॥ २४ ॥

सभाजितः सपौरैस्तु प्रीत्या स्वजनबान्धंवैः
उवास स्वगृहे चैव दिनानि कतिचिद्दिवजः ॥ २५ ॥

रात्रौ प्रसुप्तं गोकर्णं ज्ञात्वा वेश्माङ्गणे स तु
धुन्धुकारी महादुष्टो रौद्रं रूपं व्यदर्शयत् ॥ २६ ॥

क्षणं नागः क्षणं चोष्ट्रः क्षणं स महिषोऽभवत्
क्षणमग्निः क्षणं सर्पः क्षणेन पुरुषोऽभवत् ॥ २७ ॥

वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुतः
चिन्तयामास मेधावी किमेतदिति विस्मितः ॥ २८ ॥

अयं दुर्गतिमापन्नः कोप्यस्ति पुरुषाधमः
इति निश्चित्य मनसा तमुवाच दयान्वितः ॥ २९ ॥

गोकर्ण उवाच-
कस्त्वमुग्रतरो रात्रौ भीषयन्मामुपागतः
प्रेतो चाथ पिशाचो वा कुतः प्राप्तो दशामिमाम् ॥ ३० ॥

तद्ब्रूहि त्वं महाभाग किं कार्यं ते मयाधुना
घोररूपो यतो रात्रौ मत्समीपमुपागतः ॥ ३१ ॥

इति श्रुत्वा वचो भ्रातुर्धुन्धुकारी महाखलः
प्रेतभावमनुप्राप्तो रुरोद भृशमातुरः ॥ ३२ ॥

वक्तुं नैव क्षमो वाचा प्रेतत्वेन विमोहितः
सञ्ज्ञया निर्दिदेशाथ जलं पातुं पिपासितः ॥ ३३ ॥

अथासौ सुमहाभागो गोकर्णः साधुसम्मतः
स्वकाञ्जलौ जलं कृत्वा प्राक्षिपत्तमुदीरयन् ॥ ३४ ॥

तत्क्षिप्तं तज्जलं भ्रात्रा गोकर्णेन महात्मना
उपस्थितं च तृप्त्यर्थं प्रेतस्य धुन्धुकारिणः ॥ ३५ ॥

अथोवाचागतज्ञानः प्रदत्तेनाम्बुनामुना
पुण्यात्मनात्मनो भ्रात्रा गोकर्णेन च नारद ॥ ३६ ॥

प्रेत उवाच-
अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीति नामतः
आत्मनः कर्मदोषेण प्रेतत्वं समुपागतः ॥ ३७ ॥

मम माता मृता दुःखाद्बहुशस्तर्जिता मया
द्रव्यहेतोस्ततः पश्चाद्वारस्त्रीपोषणोत्सुकः ॥ ३८ ॥

निषिद्धं कृतवान्कर्म चौर्यादिधनलोभतः
एकदा प्रार्थितस्ताभिर्भूषणान्यम्बराण्यहम् ॥ ३९ ॥

धनिकस्य गृहाद्रात्रौ मुषित्वा तान्युपानयम्
ततस्ता धनलोभेन पाशैर्बद्ध्वा गले बलात् ॥ ४० ॥

मां तु व्यापादयामासुर्वह्निक्षेपेण मानद
गृहीत्वा मद्धनं भूरि ताः सर्वा भूपतेर्भयात् ॥ ४१ ॥

पलायिताः पुरादस्मात्स्वार्थोन्मूलित सौहृदाः
अतः प्रेतत्वमापन्नो भ्रातरद्य त्वयाम्बुना ॥ ४२ ॥

सिक्तः सञ्ज्ञामहं प्राप्तः पुण्येनातिकृपालुना
वाताहारेण जीवामि दैवादिष्टफलोदयः ॥ ४३ ॥

अपश्यं त्वामहं सुप्तं भ्रातरं स्वगृहाङ्गणे
ततस्त्वामनभिज्ञं मां धर्षणाय कृतोद्यमः ॥ ४४ ॥

अभवं सहसा साधो ज्ञातश्चाहं त्वयाधुना
दीनबन्धो दयासिन्धो भ्रातर्मामाशु मोचय ॥ ४५ ॥

प्रेतभावादमुष्मात्त्वं कृतार्थोऽसि न संशयः
इति श्रुत्वा वचो भ्रातुर्गोकर्णो ज्ञानवान्सुधीः ॥ ४६ ॥

भ्रातरं प्राह खिन्नात्मा दुःखितं धुन्धुकारिणम्
गोकर्ण उवाच-
तुभ्यं दत्तो मया पिण्डो गयायां त्वामहं भृतम् ॥ ४७ ॥

श्रुत्वा लोकमुखाद्भ्रातस्त्वं कथं प्रेततां गतः
गयापिण्डप्रदानेन दुर्गतोऽपि शुभां गतिम् ॥ ४८ ॥

प्राप्नोति नात्र सन्देहस्त्वं कथं न दिवं गतः
भ्रातुरित्थंवचः श्रुत्वा गोकर्णस्य महात्मनः ॥ ४९ ॥

धुन्धुकारी दुःखितात्मा प्रोवाच पुरतः स्थितः
गयाश्राद्धशतेनापि न मे मुक्तिर्भविष्यति 6.197.॥ ५० ॥

उपायोऽन्यश्चिन्तनीयो ममोद्धाराय वै त्वया
इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः ॥ ५१ ॥

प्राह श्राद्धैर्न मुक्तिश्चेत्तर्ह्यसाध्या गतिस्तव
इदानीं त्वं निजस्थानमातिष्ठ प्रेत निर्भयः ॥ ५२ ॥

विचार्याहं करिष्यामि मुक्त्युपायं परं तव
इति वाक्यं समाकर्ण्य धुन्धुकारी ततो गतः ॥ ५३ ॥

निजं स्थानं श्मशानस्थं कलिद्रुममतः परम्
शेषां रात्रिं स गोकर्णश्चिन्तयन्नेव नारद ॥ ५४ ॥

तस्य मुक्तिं स्थितस्तत्र तदुपायं न चाध्यगात्
प्रातस्ततः स गोकर्णः स्वज्ञाति कुलबान्धवान् ॥ ५५ ॥

धर्मशास्त्रविदोविप्रान्रात्रिवृत्तं न्यवेदयत्
ते विचार्य च तद्वृत्तं शास्त्रेषु बहुशो द्विजाः ॥ ५६ ॥

यदा न ज्ञातवन्तस्तद्वृत्तं सूर्यं तदा स्तुवन्
द्विजा ऊचुः-
नमस्ते भास्करादित्य तमोहन्तर्गभस्तिमन् ॥ ५७ ॥

लोकसाक्षिन्जगद्धाम सुरासुरनमस्कृत
द्वादशात्मन्हरिहय भास्वन्लोकप्रबोधक ॥ ५८ ॥

त्वं गतिः सर्वलोकानां सततं धर्मशीलिनाम्
त्वं ब्रह्मा त्वं हरिः शूली सृष्टिस्थितिविनाशकृत् ॥ ५९ ॥

त्वामृते नास्ति लोकेस्मिञ्छरणं प्राणिनां विभो
शर्वस्त्वं क्षितिरूपोऽसि भवोऽसि जलरूपधृक् ॥ ६० ॥

त्वमग्निरुपो रूद्रोसि वायुरस्युग्ररूपधृक्
भीमोस्याकाशदेहस्त्वं यज्वा पशुपतिः स्वयम् ॥ ६१ ॥

महादेवः सोममूर्तिरीशानः सूर्य एव हि
तवाष्टौमूर्त्तयो दिव्या इज्यन्ते वेदवादिभिः ॥ ६२ ॥

सर्वकामसमृद्ध्यर्थं व्याप्तलोकत्रयस्य च
मत्स्यस्त्वं वेदधृक् चासि कूर्मश्चाद्रिधरो वरः ॥ ६३ ॥

धराधरो वराहोसि लोकधृक्त्वं त्रिविक्रमः
ब्रह्मध्रुग्घ्नो भार्गवस्त्वं लोकध्रुक्ग्घ्नोसि राघवः ॥ ६४ ॥

भूभारहन्ता कृष्णोसि बुद्धोस्यसुरमोहकृत्
कल्क्यसि म्लेच्छहन्ता त्वं धर्मग्लानौ युगेयुगे ॥ ६५ ॥

देवासुरमनुष्याणां पशुपक्ष्यम्बुचारिणाम्
नानाविधानं जीवानां त्वं स्रष्टा ब्रह्मरूपधृक् ॥ ६६ ॥

इन्द्रोसि धर्मराजोसि वरुणस्त्वं धनेश्वरः
लोकपालस्वरूपेण वर्त्तसे गोगणेश्वर ॥ ६७ ॥

त्रयीमूर्त्तिस्त्रिकालेज्यस्त्रिधामा त्रिगुणात्मकः
त्वमेव पूज्यसे लोकैस्त्रिधा भिन्नो दिवाकरः ॥ ६८ ॥

पद्मप्रबोधनकरस्त्वमेवासि जगत्पते
इत्युदीर्य द्विजश्रेष्ठा यावत्तस्थुर्मुनीश्वर ॥ ६९ ॥

तावदाकाशगः प्राह स्फुटं तेषां तु शृण्वताम्
श्रीसूर्य उवाच-
श्रूयताम्भोद्विजश्रेष्ठा यदर्थं वर्णितोस्म्यहम् ॥ ७० ॥

भवद्भिर्धुन्धुलीसूनोर्महापातकशान्तये
आत्मदेवस्य पुण्येन गोकर्णो रौहिणो ह्ययम् ॥ ७१ ॥

श्रीभागवतसप्ताहस्तस्योद्धर्ता भविष्यति
यद्भवद्भिः कृतं स्तोत्रं मम वैभववर्णनम् ॥ ७२ ॥

तेन स्तुत्वा नरोविप्रा देवयानं लभिष्यति
पुत्रार्थी च धनार्थी च धर्मार्थी मोक्षकामुकः ॥ ७३ ॥

वाञ्छा चिन्तामणिस्तोत्रं पठित्वात्यन्तमाप्नुयात्
इत्युक्त्वा भास्करो देवो विरराम दिविस्थितः ॥ ७४ ॥

ते द्विजाः साध्विति प्रोचुर्गोकर्णं हृष्टमानसाः
ततः समाजे विप्राणां तुङ्गभद्रा तटे शुभे ॥ ७५ ॥

कौतुकं सुमहद्द्रष्टुं तत्रागान्नागरीप्रजा
गोकर्णो ज्ञाततत्वार्थो वक्ताध्यासनमास्थितः ॥ ७६ ॥

नारायणादिकान्नत्वा सप्ताहं समवर्त्तयन्
श्रीहरेस्तु वचः शास्त्रं तीर्थपादाब्जसम्भवम् ॥ ७७ ॥

यदि सत्यं तदाप्नोतु धुन्धुलीतनयो गतिम्
इति सङ्कल्प्य मनसा श्रीमद्भागवताभिधम् ॥ ७८ ॥

जन्माद्यस्य यतश्चेति धीमह्यन्तमुपावदत्
तत्र प्रेतं समागत्य स्थानं पश्यन्नितस्ततः ॥ ७९ ॥

सप्तग्रन्थियुतं वंशं प्रविष्टो वातरूपधृक्
शृण्वत्सु वैष्णवाग्र्येषु ब्राह्मणेष्वथ नारद ॥ ८० ॥

शुश्राव धुन्धुलीपुत्रो ग्रन्थिछिद्रस्थितोऽन्वहम्
यदा कथाविरामोऽभूत्प्रथमेऽहनि नारद ॥ ८१ ॥

तदैकाकी चकग्रन्थिः पुस्फोटात्यद्भुतं ह्यभूत्
द्वितीयादिष्वहःस्वेवमेकैकग्रन्थिभेदनम् ॥ ८२ ॥

बभूव सप्तमे भिन्ने स सद्यः प्रेततां जहौ
दिव्यरूपधरो भूत्वा तुलसीदाममण्डितः ॥ ८३ ॥

पीतवासा घनश्यामः प्रबभौ भूषणान्वितः
गोकर्णं भ्रातरं नत्वा प्रोवाचाखिल तत्वदृक् ॥ ८४ ॥

त्वयाऽहं मोचितो बन्धो कृपया प्रेतकश्मलात्
धन्या भागवतीवार्ता प्रेतत्वोन्मूलिनी श्रुता ॥ ८५ ॥

सप्ताहोपि तथा धन्यो विष्णुलोकगतिप्रदः
यत्प्रभावाद्विमुक्तोऽहं प्रेतभावाद्भृशातुरः ॥ ८६ ॥

आर्द्रं शुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम्
पातकं भस्मसात्कुर्यात्सप्ताहोऽग्निरिवेन्धनम् ॥ ८७ ॥

अस्मिन्वै भारते वर्षे देवानामप्यभीप्सिते
शृण्वतां भगवच्छास्त्रं गतिरत्युत्तमा भवेत् ॥ ८८ ॥

स्नाय्वस्थि मज्जा मांसासृक्सङ्घातं देहमुच्यते
शुचि भागवतास्वादादशुचित्वन्यथा मतम् ॥ ८९ ॥

कर्मकश्मलसन्दुष्टो देहो नरकभाजनम्
अतो दोषनिवृत्यर्थमेतदेव हि साधनम् ॥ ९० ॥

बुद्बुदा इव तोयेषु मशका इव जन्तुषु
जायन्ते मरणायैव भगवच्छास्त्रवर्जिताः ॥ ९१ ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः
क्षीयन्ते चास्य कर्माणि श्रुते भागवते द्विजाः ॥ ९२ ॥

एवं ब्रुवति वै तस्मिन्विमानवरमागतम्
वैकुण्ठात्तदधिष्ठाय गतोऽसौ विष्णुमन्दिरम् ॥ ९३ ॥

विष्णुलोकं गतेतस्मिन्सर्वे विस्मितमानसाः
बभूवुश्चापि पप्रच्छुर्गोकर्णं ते द्विजोत्तमाः ॥ ९४ ॥

द्विजा ऊचुः
श्रुतं भागवतं सर्वैरस्माभिरिह सङ्गतैः
किं कारणं महाभाग त्वद्भ्रातैको गतो हरिम् ॥ ९५ ॥

श्रूयतामभिधास्यामि कारणं भातृसद्गतौ
यच्छ्रुत्वा यूयमेवापि गोलोकं च गमिष्यथ ॥ ९६ ॥

सप्ताहश्रवणं कार्यमुपवासपरायणैः
कृष्णैकतानमतिभिर्गोलोक गतिदायकम् ॥ ९७ ॥

मूलम्

सप्ताहश्रवणं कार्यमुपवासपरायणैः
कृष्णैकतानमतिभिर्गोलोक गतिदायकम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

पुनः शुणुध्वं सप्ताहं श्रीमद्भागवतं द्विजाः
एकाग्रचित्ताः सततं कृष्णप्रेमामृतप्रदम् ॥ ९८ ॥

इति श्रुत्वा वचस्तस्य गोकर्णस्य द्विजोत्तमाः
पुनः श्रोतुं भागवतं सप्ताहं समुपावसन् ॥ ९९ ॥

कृष्णैकतानमतयो नियमेन च नारद
पुनस्ते शुश्रुवुः सर्वे श्रीमद्भागवतं द्विजाः 6.197.१००
कथावसाने भगवान्कृष्णः कमललोचनः
आविरासीन्मुनिश्रेष्ठ शङ्खचक्रगदाब्जधृक् १०१
किरीटकुण्डलधरो वनमाली विभूषितः
पीतवासा घनश्यामः कटकाङ्गदभूषितः १०२
तं दृष्ट्वा ते द्विजाः सर्वे विष्वक्सेनादिभिर्युतम्
पार्षदप्रवरैर्हृष्टाः प्रणेमुर्भुवि सङ्गताः १०३
जयशब्दो नमः शब्दस्तदासीत्सर्वतो मुने
अथ शङ्खध्वनिं चक्रे हरिः संहर्षयन्द्विजान् १०४
तदानेके विमानास्तु वैकुण्ठात्समुपागताः
द्विजानां पश्यतां तत्र पार्षदप्रवरैर्युताः १०५
गोकर्णं तु समालिङ्ग्य ददौ सारूप्यमात्मनः
श्रोतॄनन्यान्घनश्यामान्पीतकौशेयवाससः १०६
किरीटिनः कुण्डलिनो हारिणो वनमालिनः
चकार तत्क्षणात्तत्र महदाश्चर्यमप्यभूत् १०७
तस्मिन्ग्रामे स्थिता ये तु आचाण्डालजना मुने
समारुह्य विमानांस्तान्ययुः कृष्णाज्ञया दिवम् १०८
गोकर्णसहितः कृष्णो गोपगोपीजनप्रियः
गोलोकं समनुप्राप्तः सर्वलोकोपरिस्थितम्
यत्र वृन्दावनं रम्यं शतशृङ्गसमावृतम् १०९
तद्बाह्ये परितोवृतं विजययाह्यत्यद्भुतं राजतेऽरण्यं यत्र तु मण्डपानि सुबहून्यच्छोदवाप्यो ह्रदाः ॥
गावः कामदुघाः सुरद्रुमततिच्छायाश्रिता गोपकैः क्रीडातत्परमानसैः परिवृतो नन्दात्मजः क्रीडति ११०
मध्ये त्वस्य सुकाननस्य रचितो वृन्दावनेशेच्छया रम्यं रत्नसमूहभर्मखचितं
प्राकारमुद्भासयन्
न्यग्रोधः सुमहांस्ततः प्रतिदिशं गोपीजनाध्यासितं वत्सालङ्कृतमद्भुताकृति महच्छ्रीगोकुलं राजते १११
तन्मध्ये भवनं हरेरधिकृतं प्रोद्भासते भास्वरं यस्मिन्नन्दगृहेश्वरी समुदितास्ते राधया राधिताः
यद्भाग्यं महदप्युमापतिमुखैश्चिन्त्यं सदाभ्यन्तरैस्तत्सूनोर्मधुराकृतेरधिचकास्त्यण्डौघभास्यांशुभिः ११२
वाताम्बुपर्णाशनदेहशोषणैस्तपोभिरुग्रैर्जपयज्ञकर्मभिः
असाध्यमप्यायसधेनुसम्भवो लोकं न गाहाख्यमखप्रवर्त्तनात् ११३
इतिहासमिमं पुण्यं यः पठेच्छृणुयादपि॥
सोऽपि गोलोकमभ्येति किं श्रीभागवतं पुनः ११४