सूत उवाच-
विश्वास-प्रस्तुतिः
अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम्
निजलोकं परित्यज्य भुवमभ्यगमद्धरिः ॥ १ ॥
मूलम्

वनमाली घनश्यामः पीतवासाः किरीटधृक्
काञ्चीकलापपर्यस्तो लसन्मकरकुण्डलः ॥ २ ॥
मूलम्
वनमाली घनश्यामः पीतवासाः किरीटधृक्
काञ्चीकलापपर्यस्तो लसन्मकरकुण्डलः ॥ २ ॥
विश्वास-प्रस्तुतिः
त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः
कोटिमन्मथ लावण्यो हरिचन्दन चर्चितः ॥ ३ ॥

परमानन्द चिन्मूर्तिर्मधुरो मुरलीधरः
आविवेश स्वभक्तानां हृदयान्यमलानि च ॥ ४ ॥

वैकुण्ठवासिनो ये च वैष्णवाः शान्तमानसाः
गूढरूपाः समायाताः श्रवणाय हरेः कथाः ॥ ५ ॥

तदा जयजयेत्युच्चैः शब्दोऽभूत्कम्बुशब्दयुक्
येनामङ्गलमत्युग्रं कलिजं प्रलयं गतम् ॥ ६ ॥

तत्रस्थानां जनानां च दृष्ट्वा गेहात्मविस्मृतिम्
नारदोऽध्यात्मतत्वज्ञः कुमारान्प्रत्युवाच ह ॥ ७ ॥

नारद उवाच-
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योद्य विलोकितो मया ॥ ८ ॥

मूढाः शठा ये पशुपक्षिणोऽपि तेपि प्रयान्त्येव गतिं पराख्यात्
अतो नृलोकेन तु शास्त्रमन्यच्चित्तस्य शुध्यै विहितं पवित्रम् ॥ ९ ॥

अघौघविध्वंसि कृतार्थतावहं कलौ युगे दोषनिधौ कुमाराः
के केन शुध्यन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन ॥ १० ॥

कृपालुभिर्लोकहितोभवद्भिः प्रकाशितं कोऽपि नवीनमार्गः
कुमारा ऊचुः
ये मानवाः पापकृतः सुदुष्टाः सदा दुराचाररताः समत्सराः ॥ ११ ॥

क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन हरिं व्रजन्ति ते ॥ १२ ॥

सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमवर्णबाह्याः
ये दाम्भिका जीवविहिंसकाश्च सप्ताहयज्ञेन हरिं व्रजन्ति ते ॥ १३ ॥

पञ्चोग्रपापाश्च्छलकारिणश्च क्रूराः पिशाचा इव निर्दयाश्च
ब्रह्मस्वपुष्टा व्यभिचारिणश्च सप्ताहयज्ञेन हरिं व्रजन्ति ते ॥ १४ ॥

कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वन्ति शठा हठेन ये
नीचाः कृतघ्ना मलिना दुराशयाः सप्ताहयज्ञेन हरिं व्रजन्ति ते ॥ १५ ॥

अथैवं तुष्टचित्तेऽथ नारदे देवपूजिते
प्रसन्नास्ते कुमाराश्च पुनरूचुश्च नारदम् ॥ १६ ॥

अत्र ते कीर्तयिष्याम इतिहासं पुरातनम्
यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ १७ ॥

तुङ्गभद्रा तटे पूर्वं पत्तने कोहलाभिधे
वर्णाश्रमाचारयुते धनधान्यसमाकुले ॥ १८ ॥
मूलम्
तुङ्गभद्रा तटे पूर्वं पत्तने कोहलाभिधे
वर्णाश्रमाचारयुते धनधान्यसमाकुले ॥ १८ ॥
विश्वास-प्रस्तुतिः
आत्मदेव इति ख्यातस्तत्रासीद्दिवजसत्तमः
वेदविद्याविधिप्राज्ञो नित्यकर्मपरायणः ॥ १९ ॥

तत्प्रिया धुन्धुली नाम नित्यं स्वीयहिते रता
स्ववाक्यस्थापनाचापि सुन्दरी सुकुलोद्भवा ॥ २० ॥

पूर्वकर्मविपाकेन प्रायशो बहुजल्पिनी
शूरा च गृहकृत्येषु क्रूरा च कलहप्रिया ॥ २१ ॥

एवं निवसतोस्तत्र दम्पत्योर्निरपत्ययोः
व्यतिक्रान्तं वयश्चापि पञ्चाशद्वर्षसम्मितम् ॥ २२ ॥

अथ तौ दुःखितौ जातौ निरपत्यौ गृहेस्थितौ
सन्तानोत्पत्तये ताभ्यां दत्तं चापि धनादिकम् ॥ २३ ॥

गोभूहिरण्यवासांसि दत्तान्यपि बहूनि च
न पुत्रो नापि दुहिता जायते पूर्वकर्मणा ॥ २४ ॥

स चैकदा तु निर्विण्ण आत्मदेवो द्विजोत्तमः
गृहं त्यक्त्वा गतोऽरण्यमानपत्येन दुःखितः ॥ २५ ॥

यत्र तत्र भ्रमन्भ्रान्तो दुःखाकुलितमानसः
क्षुत्क्षामस्तृट्परीतश्च दैवात्प्राप्तो जलाशयम् ॥ २६ ॥

जलं पीत्वा ततस्तस्मिंस्तडागे स द्विजोत्तमः
वृक्षच्छायां समाश्रित्य निषण्णस्तत्र नारद ॥ २७ ॥

अथ तत्र तदैवागात्कश्चित्सिद्धो भ्रमन्महीम्
जलं पीत्वा तडागे तु सोऽपि तत्रैव चागतः ॥ २८ ॥

तं दृष्ट्वा न्यासिनं शान्तमात्मदेव उदारधीः
सत्कृत्योत्थाय तत्पादौ जग्राह स्वगुरोरिव ॥ २९ ॥

उपविष्टौ ततस्तौ द्वौ कृतप्रश्नौ परस्परम्
सुस्निग्धमानसौ भूत्वा गुरुशिष्याविवाश्रमे ॥ ३० ॥

अथ तं स यतिर्दृष्ट्वा श्वसन्तं दुःखितान्तरम्
पप्रच्छ करुणासिन्धुरात्मदेवं पुरः स्थितम् ॥ ३१ ॥

सिद्ध उवाच-
का ते चिन्ता द्विजश्रेष्ठ दुःखाय हृदि वर्तते
तां समाचक्ष्व धर्मज्ञ परितापप्रदायिनीम् ॥ ३२ ॥

तच्छ्रुत्वा वचनं तस्य सिद्धस्य सुमहात्मनः
आत्मदेव उवाचाथ स्वस्य दुःखस्य कारणम् ॥ ३३ ॥

आत्मदेव उवाच-
किं ब्रवीमि मुने दुःखं सञ्चितं पूर्वकर्मणा
मदीयाः पूर्वजास्तोयं कवोष्णमुपभुञ्जते ॥ ३४ ॥

मद्दत्तं नैव गृह्णन्ति पितरो देवता बलिम्
तेन दुःखेन निर्विण्णः प्राणांस्त्यक्तुमिहागतः ॥ ३५ ॥

धिग्जीवितं प्रजाहीनं गृहं चैव धनं कुलम्
पाल्यते या मया धेनुः साऽपि वन्ध्यात्वमेति ह ॥ ३६ ॥

यो मयारोपितो वृक्षः सोपि वन्ध्यत्वमागतः
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ ३७ ॥

इत्युक्त्वा स रुरोदोच्चैस्तत्पुरो दुःखपीडितः
यदा तदा यतेश्चित्ते करुणाभूद्गरीयसी ॥ ३८ ॥

ललाटाक्षरमालां च दृष्ट्वा ज्ञात्वा स योगवान्
आत्मदेवं द्विजं प्राज्ञः पुनरूचे सविस्तरम् ॥ ३९ ॥

सिद्ध उवाच
शृणु विप्र मया तेऽद्य प्रारब्धमवलोकितम्
सप्तजन्मावधि प्राप्तिः पुत्रस्य न च दृश्यते ॥ ४० ॥

मुञ्चाग्रहं प्रजाहेतोर्बलिष्ठा कर्मणो गतिः
विवेकं तु समासाद्य सुखी भव महामते ॥ ४१ ॥

एवमुक्तं समाकर्ण्य सिद्धस्य द्विजसत्तमः
प्रजाशाबद्धचित्तस्तु सिद्धं प्राहातिदुःखितः ॥ ४२ ॥

विप्र उवाच-
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि
नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ॥ ४३ ॥

इति विप्राग्रहं दृष्ट्वा प्राब्रवीत्स तपोधनः
सन्ततेः सगरो दुःखमवापाङ्गः प्रजापतिः ॥ ४४ ॥

चित्रकेतुर्गतः कष्टं विधिलेखविमार्ज्जनात्
अतस्त्वमपि धर्मज्ञ यदि पुत्रं लभेरपि ॥ ४५ ॥

सुतेन न सुखीभूयाः दैवं हि बलवत्तरम्
इत्युक्त्वा द्विजवर्याय स सिद्धः साधुसम्मतः ॥ ४६ ॥

ददावेकं फलं तस्मै प्राग्रहेण सुतार्थिने
इदं फलं मया तुभ्यं दत्तं पुत्राप्तये द्विज ॥ ४७ ॥

भार्यायै देहि पुत्रस्ते भविष्यति न संशयः
सत्यं शौचं दया दानमेकभक्तं तु भोजनम् ॥ ४८ ॥

वर्षावधि स्त्रिया कार्यं तेन शुद्धो भवेत्सुतः
एवमुक्त्वा ययौ योगी विप्रः स्वगृहमागतः ॥ ४९ ॥

दत्त्वा पत्न्यै फलं तत्तु सिद्धोक्तमवदच्च ह
अथ सा धुन्धुली क्रूरा स्ववाक्यस्थापनोत्सुका 6.196.॥ ५० ॥

स्वसख्यै प्राह तत्सर्वं पत्योक्तं सिद्धभाषितम्
यद्यहं भक्षये चेदं फलं सिद्धेन चार्पितम् ॥ ५१ ॥

गर्भो मम भवेत्तर्हि कथं चाहं सहाम्यहम्
स्वल्पं भक्ष्यमशक्तिश्च गमने गृहकर्मणि ॥ ५२ ॥

तिर्यक्चेदागतो गर्भो तदा मे मरणं भवेत्
प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे
मन्दयां मयि सर्वस्वं ननान्दा संहरेत्सदा ॥ ५३ ॥

चिन्ता मे समनुप्राप्ता किं करोमि शुचिस्मिते
सा तद्वचनमाकर्ण्य स्नेहभङ्गभयाद्दिवज ॥ ५४ ॥

एवमेवेति तां प्राह प्रीत्या प्रहसितानना
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ॥ ५५ ॥

पत्या पृष्टे फलं भुक्तं भुक्तं चेति तयेरितम्
एकदा भगिनी तस्याः स्वेच्छया तद्गृहं गता ॥ ५६ ॥

तदग्रे कथितं सर्वं चिन्तेयं महती हि मे
किं करोमि सगर्भोऽहं त्वं प्रब्रूहि यथातथम् ॥ ५७ ॥

साब्रवीन्मम गर्भोस्ति तुभ्यं दास्ये प्रसूतितः
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ॥ ५८ ॥

तं बालं पोषयिष्यामि त्वद्गृहे चैव नित्यदा
फलं धेनोः प्रयच्छाद्य परीक्षार्थं शुभानने ॥ ५९ ॥

इत्युक्त्वा सा ययौ गेहमात्मनो हृष्टमानसा
धुन्धुल्यापि यथोद्दिष्टं तद्भगिन्या तथा कृतम् ॥ ६० ॥

अथ प्रसूय सा बालं धुन्धुल्यै चार्पयद्द्रुतम्
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः॥ ६१ ॥

लोकस्य सुखमुत्पन्नमात्मदेव प्रजोदयात्
दत्त्वा दानं द्विजाग्रेभ्यो जातकर्म चकार च ॥ ६२ ॥

गीतवादित्रनिर्घोषो गृहे तस्यातिमङ्गलम्
बभूव हर्षमापन्न आत्मदेवो महामतिः ॥ ६३ ॥
मूलम्
गीतवादित्रनिर्घोषो गृहे तस्यातिमङ्गलम्
बभूव हर्षमापन्न आत्मदेवो महामतिः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अथ सा प्राह भर्त्तारं दुग्धं मेस्तनयोर्नहि
पालयिष्ये कथं बालं सद्यः सूतं प्रभोऽधुना ॥ ६४ ॥

मत्स्वसुश्च प्रसूताया मृतो बालः पुराभवत्
तामानीय गृहे रक्षसार्भकं पोषयिष्यति ॥ ६५ ॥

इति श्रुत्वा वचस्तस्या धुन्धुल्या द्विजसत्तमः
तथैव कृतवान्भ्रान्तरात्मदेवो मुदान्वितः ॥ ६६ ॥

धुन्धुकारीति नामास्य कृतं मात्रा यथार्थतः
स्तन्येन पोषमाप्नोति नित्यं मातृष्वसुः सुतः ॥ ६७ ॥

त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम्
सर्वाङ्गसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ ६८ ॥

दृष्ट्वा प्रसन्नस्तं विप्रः संस्कारान्स्वयमादधे
तं दिदृक्षव आयाता जनाः सर्वेऽतिविस्मिताः ॥ ६९ ॥

आत्मदेवस्य विप्रस्य महाभाग्योदयेन च
धेन्वा बालः प्रसूतश्च देवरूपोऽतिकौतुकम् ॥ ७० ॥

न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः
गोकर्णः तं सुतं दृष्ट्वा गोकर्णेत्येवचाभ्यधात् ॥ ७१ ॥

कियत्कालेन सम्प्राप्तौ तारुण्यं तावुभावपि
गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥ ७२ ॥

स्नानशौचक्रियाहीनो भक्ष्याभक्षी क्रुधाप्लुतः
चौरः सर्वजनद्वेषी दुष्टचाण्डालसङ्गतः ॥ ७३ ॥

क्रीडतो ह्यर्भकान्धृत्वा बलात्कूपे निपातयेत्
एवं वेश्याप्रसङ्गेनानयद्द्रव्यं क्षयं पितुः ॥ ७४ ॥

पिता कृपणवत्तस्य शुचा निःस्वो रुरोद ह
अनपत्यः सुखी नित्यं कुपुत्रो दुःखदायकः ॥ ७५ ॥

सिद्धेनोक्तं वचः सत्यमनुभूतं मयाधुना
क्व गच्छामि क्व तिष्ठामि को मे दुःखं निवारयेत् ॥ ७६ ॥

प्राणांस्त्यक्ष्ये जले वह्नौ भृगोर्वापि पते ह्यहम्
इत्येवं चिन्तयानं तमधोमुखमुपागतः ॥ ७७ ॥

गोकर्णो जनकं ज्ञानी बोधयामास तत्वतः
गोकर्ण उवाच-
असारस्तात संसार दुःखमोहप्रदो नृणाम् ॥ ७८ ॥

कः सुत किं धनं कस्य का जाया कः पतिः पितः
मोहेन बद्धो दीनात्मा लोकः क्लिश्यति नान्यथा ॥ ७९ ॥

न चेन्द्रस्य सुखं किञ्चिन्न सुखं चक्रवर्तिनः
विरक्तस्य सुखं तात मुनेरेकान्तशीलिनः ॥ ८० ॥

मुञ्चाज्ञानं प्रजारूपं मोहं नरककारणम्
निर्द्वन्द्वो निरभीमानो व्रज त्यक्त्वाखिलं वनम् ॥ ८१ ॥

ततस्तद्वाक्यमाकर्ण्य गोकर्णं स द्विजोऽब्रवीत्
द्विज उवाच-
यत्कर्त्तव्यं वने साधो तन्ममाचक्ष्व विस्तरात् ॥ ८२ ॥

मोहपाशनिबद्धं हि शठं कृपणमानसम्
संसारगर्ते पतितं मामुद्धर दयानिधे ॥ ८३ ॥

पितुरित्थं वचः श्रुत्वा गोकर्णो ज्ञानपण्डितः
उवाच दीनं निर्विण्णं पितरं हृष्टमानसः ॥ ८४ ॥

मांसास्थिरक्तनिकरे स्वशरीरकेऽस्मिन्स्वत्वं त्यजाशु ममतां वनिता सुतादौ
पश्यानिशं जगदिदं क्षणभङ्गनिष्ठं ज्ञानी विरागरसिको भव भक्तिनिष्ठः ॥ ८५ ॥

धर्मं भजस्व सततं त्यज लोकधर्मान्संसेव्य साधुपुरुषान्जहि कामतृष्णाम्
अन्यस्य दोषगुण चिन्तनमाशु मुक्त्वा विष्णोः कथारसमथो नितरां पिब त्वम् ॥ ८६ ॥

कुमारा उचुः-
एवं सुतोक्तविदितानुभवो निरीहस्त्यक्त्वा गृहं स्थिरमतिर्गतषष्टिवर्षः
नित्यं हरिप्रियजनानुगतो महात्मा दुष्प्रापमाप च पदं स हरेर्वनस्थः ८७