सूत उवाच-
विश्वास-प्रस्तुतिः
अथ देवऋषिस्तत्र कुमाराननुमान्य च
उवाच प्रणतो वाक्यं ज्ञानयज्ञ कृतादरः ॥ १ ॥
मूलम्

नारद उवाच-
ज्ञानयज्ञं करिष्यामि शुकशास्त्र कथोज्वलम्
भक्ति ज्ञान विरागाणां स्थापनार्थे प्रयत्नतः ॥ २ ॥

यत्र कार्यो मया यज्ञः स्थानं तत्कथ्यतां द्विजाः
चत्वारो यज्ञवाहाश्च यूयमेव वृता मया ॥ ३ ॥

कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा
को विधिस्तत्र कर्तव्यो ज्ञानयज्ञविशारदाः ॥ ४ ॥

कुमारा ऊचुः
शृणु नारद वक्ष्यामस्तुभ्यं यत्र कथा नृणाम्
शृण्वतां पापराशिघ्नो भवेत्पुण्यविबर्द्विनी ॥ ५ ॥

गङ्गाद्वार समीपे तु कामदाख्यं पुरं महत् ॥ ६ ॥

स्वर्णद्याश्चोत्तरे पुण्ये तटमानन्दनामकम्
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवितम् ॥ ७ ॥

नाना तरुलताकीर्णं स्वच्छकोमल वालुकम्
रम्यमेकान्तदेशस्थं स्वर्णपङ्कज शोभितम् ॥ ८ ॥

यत्समीपस्थजीवानां क्षेत्रस्यैव प्रभावतः
मिथः संस्निग्धचित्तानां वैरं चेतसि न स्थितम् ॥ ९ ॥

ज्ञानयज्ञस्त्वया तत्र कर्त्तव्यो हि प्रयत्नतः
अपूर्व रसदात्री च कथा तत्र भविष्यति ॥ १० ॥

वृन्दावनप्रतोलिस्थं जराजीर्ण कलेवरम्
सुतद्वयं पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥ ११ ॥

यत्र भागवती वार्ता भक्तिस्तत्र सहात्मजा
कृष्णकीर्तिसुधां पीत्वा तरुणी वा भविष्यति ॥ १२ ॥

एवमुक्त्वा कुमारास्ते नारदेन समन्ततः
गङ्गाद्वारे समाजग्मुर्ज्ञानयज्ञाय सत्वराः ॥ १३ ॥

यदा प्राप्तास्तटं ते तु गङ्गाया भार्गवर्षभ
तदा कोलाहलश्चासीद्भूर्लोकादिक सप्तसु ॥ १४ ॥

श्रीमद्भागवतास्वादलम्पटा साप्तलौकिकाः
धावं धावं समाजग्मुः प्राचीना वैष्णवाश्च ये ॥ १५ ॥

भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिर्देबलदेवरातौ
रामस्तथागाधिज शाकलौ च मृकण्डपुत्रात्रिज पिप्पलादाः ॥ १६ ॥

योगेश्वरौ व्यासपराशरौ च शुकादयो भागवतप्रधानाः
शिष्यैरुपेता बहुशास्त्रविज्ञाः कृष्णामृतास्वाद कृतौ प्रधानाः ॥ १७ ॥

वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राणि संहिताः
दशसप्तपुराणानि षट्शास्त्राणि तथाययुः ॥ १८ ॥

गङ्गाद्याः सरितस्तत्र पुष्करादि सरांसि च
क्षेत्राणि च दिशः सर्वा दण्डकादि वनानि च ॥ १९ ॥

हिमादयो नगास्तत्र देवगन्धर्वकिन्नराः
द्वीपाः समुद्रा दिक्पालाः पातालस्थास्तथाययुः ॥ २० ॥

दीक्षायां नारदेनाथ दत्तमासनमुत्तमम्
कुमारा वन्दिता सर्वे निषेदुः कृष्णतत्पराः॥ २१ ॥

वैष्णवाः सुविरक्ताश्च न्यासिनो ब्रह्मचारिणः
मुख्या ह्यग्रेस्थिता स्तेषां पुरतो नारदः स्थितः ॥ २२ ॥

वामभागेमुनिगणादक्षिणेचदिवौकसः
वेदोपनिषदोऽन्यत्रतीर्थानिचभृगूद्वह ॥ २३ ॥

जयशब्दोनमः शब्दःशङ्खशब्दस्तथैवच
बभूवाकाशसंस्पर्शीघोषयन्विदिशोदश ॥ २४ ॥
मूलम्
जयशब्दोनमः शब्दःशङ्खशब्दस्तथैवच
बभूवाकाशसंस्पर्शीघोषयन्विदिशोदश ॥ २४ ॥
विश्वास-प्रस्तुतिः
विमानानिसमारुह्यप्रहृष्टानाकवासिनः
कल्पवृक्षप्रसूनैश्चतांसभांसमवाकिरन् ॥ २५ ॥

सूतउवाच-
एवन्तेषुनिविष्टेषुभृग्वादिषुयथार्हतः
श्रीभागवतमाहात्म्यमूचिरेनारदायते ॥ २६ ॥
मूलम्
सूतउवाच-
एवन्तेषुनिविष्टेषुभृग्वादिषुयथार्हतः
श्रीभागवतमाहात्म्यमूचिरेनारदायते ॥ २६ ॥
विश्वास-प्रस्तुतिः
कुमारा ऊचुः
शृणु नारद वक्ष्यामो महिमानं महाद्भुतम्
श्रीमद्भागवताख्यस्य शास्त्रस्य विधिपूर्वकम् ॥ २७ ॥

सदा नरैः सुकृतिभिः सेव्या भागवती कथा
यस्याः श्रवणमात्रेण कृतार्थत्वं प्रयान्ति ते ॥ २८ ॥

ग्रन्थो ऽष्टादशसाहस्रो द्वादशस्कन्ध संयुतः
परीक्षिच्छुकसंवादः श्रीमद्भागवताभिधः ॥ २९ ॥

तावत्संसारचक्रेस्मिन्भ्रमत्यज्ञानमोहितः
यावत्कर्णगतन्नोस्याच्छुकशास्त्रं जनस्य च ॥ ३० ॥

किं श्रुतैर्बहुभिः शास्त्रैः पुराणैः संहितागमैः
यदि भागवतं पुम्भिर्न श्रुतं भक्तिभावनैः ॥ ३१ ॥

कथा भागवतस्यापि नित्यं भवति यद्गृहे
तद्गृहं तीर्थरूपं हि नृणां पापविनाशनम् ॥ ३२ ॥

अश्वमेधसहस्राणि राजसूयशतानि च
भागवत्याः कथायाश्च कलां नार्हन्ति षोडशीम् ॥ ३३ ॥

तावत्पापानि तिष्ठन्ति देहेऽस्मिन्मुनिपुङ्गव
यावन्न श्रूयते सम्यक्श्रीमद्भागवतं नरैः ॥ ३४ ॥

न गङ्गा न गया काशी प्रतिष्ठानं न पुष्करः
कथाया भागवत्याश्च समा पुण्यफलेन च ॥ ३५ ॥

श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम्
पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम् ॥ ३६ ॥

वेदादिर्वेदमाता च पौरुषंसूक्तमेव च
त्रयी भागवतं चैव द्वादशाष्टाक्षरौ मनू ॥ ३७ ॥

द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः
ब्राह्मणश्चाग्निहोत्रं च सुरभिर्द्वादशी तिथिः ॥ ३८ ॥

तुलसी च वसन्तर्तुः पुरुषोत्तम एव च
एतेषां वस्तुतो नास्ति पृथग्भावो मुनीश्वर ॥ ३९ ॥

यश्च भागवतं शास्त्रं व्याकुर्यादन्वहं द्विज
जन्मकोटिकृतं पापं तस्य नश्यति नारद ॥ ४० ॥

श्रुतं च पठितं ध्यातं श्रीमद्भागवतं नृभिः
ददाति मुक्तिं भक्तिं वा तुलस्यग्न्योश्च सेवनम् ॥ ४१ ॥

अन्तकाले तु सम्प्राप्ते भयं त्यक्त्वा सुदूरतः
श्रीमद्भागवतं भक्त्या शृणुयाद्यः स मुक्तिभाक् ॥ ४२ ॥

प्रौष्ठपद्यां च राकायां हेमसिंह समन्वितम्
अलङ्कृत्य द्विजाग्र्याय श्रीमद्भागवतं ददेत् ॥ ४३ ॥

भक्तियुक्तो विमानश्च मिताशी च जितेन्द्रियः
श्रुत्वादितः स कृष्णस्य सायुज्यं लोकमाप्नुयात् ॥ ४४ ॥

आजन्ममात्रमपि येन शठेन चित्तं सम्यङ्नियम्य भुवि कृष्णकथा न पीता
चाण्डालवच्च पशुवद्बत तेन नीतं मिथ्या स्वजन्म जननी भृशमर्दिता च ॥ ४५ ॥

यैर्न श्रुतं भागवतं पुराणमाराधितो नो पुरुषः पुराणः
मुखे हुतं नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ॥ ४६ ॥

चित्तं न यस्य तु नरस्य हरेः कथायां सम्प्रीयते दुरितदुष्टमसत्प्रसङ्गात्
धिक्तं नरं पशुसमं भुविभारभूतमेवं वदन्ति मुनयः किल पूर्वसिद्धाः ॥ ४७ ॥

दुर्ल्लभैव कथा लोके श्रीमद्भागवतोद्भवा
कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ ४८ ॥

तेन योगनिधे साधो श्रोतव्या सात्वती कथा
प्रत्यहं नियमो नास्ति दिनानां वस्तुतो द्विज ॥ ४९ ॥

सत्येन ब्रह्मचर्येण यतोऽस्य श्रवणं मतम्
ततः कलौ विशेषो हि विधिः सप्तदिनात्मकः 6.195.॥ ५० ॥

मनसश्चाजयाद्रोगात्पुंसां चैवायुषः क्षयात्
कलेर्दोषबहुत्वाच्च सप्ताहश्रवणम्मतम् ॥ ५१ ॥

मनसो निग्रहश्चैव नियमाचरणं तथा
कर्तुं सप्तदिनं शक्यं ततो नियमकल्पना ॥ ५२ ॥

श्रद्धया श्रवणे नित्यमाद्यन्तावधि यत्फलम्
तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ ५३ ॥

यत्फलं नास्ति तपसा न योगेन समाधिना
अनायासेन तत्सर्वं सप्ताह श्रवणाल्लभेत् ॥ ५४ ॥

यज्ञाद्व्रताच्च तपसो ध्यानाज्ज्ञानाच्च तीर्थतः
श्रीभागवतसप्ताह नियमो ह्युत्तमो मतः ॥ ५५ ॥

यदा कृष्णो भुवं त्यक्त्वा स्वपदं गन्तुमुद्यतः
तदाज्ञायोद्धवो धीमान्गोविन्दं वाक्यमब्रवीत् ॥ ५६ ॥

उद्धव उवाच-
भगवन्भवता सर्वं देवकार्यं प्रसाधितम्
अधुना गन्तुमिच्छुस्त्वं स्वम्पदं तमसः परम् ॥ ५७ ॥

अतश्चिन्ता ममोत्पन्ना त्वद्वियोग भिया विभो
तामपाकुरु देवेश त्वामहं शरणं गतः ॥ ५८ ॥

आगतोऽयं कलिर्घोरोऽत्र सर्वेऽपि जनाः खलाः
भविष्यन्ति ततो नाथ किं विधेयं तदादिश ॥ ५९ ॥

इयं भारवती भूमिः शरणं किं प्रयास्यति
त्वदन्यो दृश्यते नात्र त्राता स्याद् यदुनन्दन ॥ ६० ॥

अतोऽस्मासु दयां कृत्वा तिष्ठात्रैव दयानिधे
साधूनां रक्षणायैव त्वमाविरभवः प्रभो ॥ ६१ ॥

निर्गुणोऽपि निराकारः सच्चिदानन्दविग्रहः
त्वद्वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले ॥ ६२ ॥

निर्गुणोपासने कष्टमतोऽस्मद्धितमाचर
सूत उवाच-
इत्युद्धववचः श्रुत्वा चिन्तयित्वा क्षणं हरिः ॥ ६३ ॥

ददौ भागवतं तस्मै कृपया परया युतः
निजं तेजः समाधाय श्रीमद्भागवते द्विज ॥ ६४ ॥

दत्वोद्धवाय भगवान्स्वकीयं पदमाविशत्
तेनेयं वाङ्मयी मूर्तिर्वर्त्तते श्रीहरेरिह ॥ ६५ ॥

सेवनात्सततं चास्याः पापं नश्येन्नृणां क्षणात्
सप्ताहश्रवणं तेन कथितं सर्वतोऽधिकम् ॥ ६६ ॥

श्रोता वक्ता पृच्छकश्च यान्ति तन्मयतां द्विज
दुःखदारिद्र्य दौर्भाग्य पाप प्रक्षालनाय च ॥ ६७ ॥

कामक्रोध जयार्थं च कलौ भागवतं क्षमम्
अन्यथा वैष्णवी माया देवानामपि दुर्जया
कथं निवर्तते पुंसां श्रीमद्भागवतं विना ॥ ६८ ॥

इत्येवमुक्त्वा माहात्म्यं श्रीमद्भागवतस्य ते
कथां भागवतीं दिव्यां प्रवक्तुमुपचक्रमुः ॥ ६९ ॥

वेदोपनिषदां सारे श्रीमद्भागवते द्विजैः
आरभ्यमाणे तत्रैव भक्तिराविरभूत्क्षणात् ॥ ७० ॥

प्रेमान्विता चारुतनुर्मुदान्वितौ सुतौ गृहीत्वा तरुणौ स्वदोर्भ्याम्
श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ती ॥ ७१ ॥

तामागतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः
व्यतर्कयंश्चापि कथं कुतासौ कास्तीति सर्वेऽपि सुविस्मिताक्षाः ॥ ७२ ॥

ततः कुमारा जगदुः कृतार्था कथार्थतो निष्पतिताधुनेयम्
एवं गिरः सा ससुता निशम्य जगाद नम्राब्जभुवः कुमारात् ॥ ७३ ॥

भक्तिरुवाच-
भवद्भिरद्यैव कृतास्मि पुष्टा कलौ प्रणष्टापि कथारसेन
तिष्ठामि कुत्राहमभीष्टमाभ्यां सहास्पदं मह्यमुपादशध्वम् ॥ ७४ ॥

तद्वाक्यमाकर्ण्य विधेः कुमारा विचार्य सम्यक्प्रणिधाय चित्ते
उचुश्च भक्तिं भवरोगहर्त्रीं प्रेमैकदात्रीं हरिभक्तिभाजाम् ॥ ७५ ॥

भक्तेषु गोविन्द परायणेषु साधुष्वथो दीनदया परेषु
मनो नियम्योत्पथसम्प्रवृत्तं कृत्वैकतानं हरिपादपद्मे ॥ ७६ ॥

ततो हि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोपि लोके
कलौ त्वमेकैव जगद्धिताय भविष्यसे नारद सम्प्रणीता ॥ ७७ ॥

सकलभुवनमध्ये निर्धनाश्चातिधन्या निवसति हृदि येषां श्रीहरेर्भक्तिरेका
हरिरपि निजलोकं सत्वरं संविहाय प्रविशति हृदि येषां प्रेमसूत्रापिनद्धः ७८