सूत उवाच-
विश्वास-प्रस्तुतिः
एवं सम्प्रार्थितो विप्रास्तया भक्त्यातिदीनया
यतश्चाकथयं तद्वै तच्छृणुध्वं दयालवः ॥ १ ॥
मूलम्

नारद उवाच-
मा खिदस्त्वं वृथा बाले समाधाय मनो हृदि
श्रीकृष्णचरणाम्भोजं स्मर सौख्यं लभिष्यसि ॥ २ ॥

द्रौपदी च परित्राता येन कौरवकश्मलात्
पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ ३ ॥

त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका
त्वयाहूतस्तु भगवान्याति नीचगृहेष्वपि ॥ ४ ॥

सत्यादि त्रियुगे बोधो विरागो मुक्तिसाधकौ
कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ॥ ५ ॥

इति निश्चित्य विद्रूपी स्वकां गात्त्वां ससर्ज ह
परमानन्दचिन्मूर्तिः स्वप्रियां प्रीतमानसः ॥ ६ ॥

बध्वाञ्जलि त्वया पृष्टः किं करोमीति वै हरिः
त्वां तदाज्ञापयत्कृष्णो मद्भक्तान्पोषयेति च ॥ ७ ॥

अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा
मुक्तिदासीं ददौ तुभ्यं ज्ञानवैराग्य आत्मजौ ॥ ८ ॥

भक्तानां पोषणं नित्यं वैकुण्ठस्था करोषि च
भूमौ च भक्तपोषाय छायारूपं समाश्रिता ॥ ९ ॥

विमुक्ति ज्ञानवैराग्यैः सह चैवागतात्र हि
कृतादिद्वापरान्ते हि काले मुक्ति मुदास्थिता ॥ १० ॥

कलौ तु सङ्क्षयं प्राप्ता पाषण्डामयपीडिता
त्वदाज्ञया गता शीघ्रं वैकुण्ठे पुनरेव सा
स्मृतमात्रा त्वयाद्यापि मुक्तिरायाति सत्वरम् ॥ ११ ॥

पुत्रीकृत्य त्वयैमौ च स्वपार्श्वे परिरक्षितौ
उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ॥ १२ ॥

तथापि चिन्तां मुञ्चत्वमुपायं चिन्तयाम्यहम्
कलिना सदृशः कोऽपि युगो नास्ति वरानने ॥ १३ ॥

तस्मिंस्त्वां ख्यापयिष्यामि गेहे गेहे जने जने
अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् ॥ १४ ॥

यदि प्रवर्त्तये न त्वां तदा दासो हरेर्नहि
त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह ॥ १५ ॥

पापिनोऽपि गमिष्यन्ति निर्भया हरिमन्दिरम्
येषां चित्ते भवेद्भक्तिः सर्वदा प्रेमरूपिणी ॥ १६ ॥

न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्त्तयः
न प्रेतो न पिशाचो वा राक्षसो वासुरोपि च ॥ १७ ॥

भक्तियुक्तमनस्कानां स्पर्शने दर्शने प्रभुः
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ॥ १८ ॥

हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः
नृणां जन्मसहस्रेण भक्तिः सुकृतिनां भवेत् ॥ १९ ॥

कलौ भक्तिः कलौ भक्तिर्भक्त्याकृष्णः पुरः स्थितः
भक्तिद्रोहकरा ये च ते सीदन्ति जगत्त्रये ॥ २० ॥

दुर्वासा दुःखमापन्नः पुरा भक्तिविनिन्दकः
अलं वृत्तैरलन्तीर्थैरलं योगैरलं मखैः ॥ २१ ॥

अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा
एवमुक्तं मया सा तु स्वमाहात्म्यं निशम्य वै ॥ २२ ॥

सर्वाङ्गहर्षसंयुक्ता मां पुनर्वाक्यमब्रवीत्
अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ॥ २३ ॥

न कदाचिन्विमुञ्चामि चित्तं ते मयि सङ्गतम्
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् ॥ २४ ॥

पुत्रयोश्चेतना नास्ति ममेमौ प्रतिबोधय
तस्यास्तद्वचनं श्रुत्वा कारुण्येनान्वितो ह्यहम् ॥ २५ ॥

तयोः प्रबोधनं कर्तुं प्रवृत्तः पाणिना स्पृशन्
मुखं संसृज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ॥ २६ ॥

ज्ञान प्रबुद्ध्य्तां शीघ्रं वैराग्यप्रतिबुध्यताम्
वेदवेदान्तघोषैश्च गीता पाठैर्मुहुर्मुहुः ॥ २७ ॥

बोध्यमानौ तदा तेन कथञ्चिद्बोधमागतौ
नेत्रैरनवलोकन्तौ जृम्भन्तौ सालसावुभौ ॥ २८ ॥

बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापमुपागतौ ॥ २९ ॥

तदा चिन्तापरोऽभूवं किं विधेयं मयेति च
अहो निद्रा कथं याति वृद्धत्वं चानयोः परम् ॥ ३० ॥

चिन्तयन्नित गोविन्दं स्मरन्नासं द्विजोत्तमाः
व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति ॥ ३१ ॥

उद्यमस्सफलस्ते तु भविष्यति न संशयः
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ॥ ३२ ॥

तत्कर्मतेऽभिधास्यन्ति साधवः साधुभूषणाः
सत्कर्मणि कृते तस्मिन्स्वपनं वृद्धतानयोः ॥ ३३ ॥

गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति
इत्याकाशवचः स्पष्टं निशम्यापि मया द्विजाः ॥ ३४ ॥

न ज्ञातं यन्नभोवाण्या गोप्यत्वेन निरूपितं
किं तत्कर्म च येनैतौ भवतो ज्ञानसंयुतौ ॥ ३५ ॥

क्व भविष्यन्ति ते सन्तः कथं वक्ष्यन्ति कर्म सत्
मयात्र किं प्रकर्त्तव्यं यदुक्तं व्योमभाषया ॥ ३६ ॥

अथ तौ तत्र संस्थाप्य निर्गतोऽहं बहिर्द्विजाः
वृन्दारण्यादपृच्छं च यत्र तत्र द्विजोत्तमान् ॥ ३७ ॥

वृत्तान्तं सर्व एवाथ श्रुत्वा विस्मितमानसाः
नैवोत्तरं प्रयच्छन्ति ह्यनभिज्ञानभोगिरः ॥ ३८ ॥

असाध्यं केचन प्रोचुराविज्ञेयमथापरे
मूकी बभूवुरन्ये तु चिन्तयानाः पुनः पुनः ॥ ३९ ॥

वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः
बोध्यमानं त्रिकं तत्तु नोदतिष्ठदहो विधिः ॥ ४० ॥

योगिना नारदेनापि स्वयं न ज्ञायते तु यत्
तत्कथं शक्यते कर्तुमितरैरिह मानुषैः
ततश्चिन्तातुरश्चाहं बदरीवनमागतः ॥ ४१ ॥
मूलम्
योगिना नारदेनापि स्वयं न ज्ञायते तु यत्
तत्कथं शक्यते कर्तुमितरैरिह मानुषैः
ततश्चिन्तातुरश्चाहं बदरीवनमागतः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तपश्चरामि चात्रैव तदर्थं कृतनिश्चयः
तावद्ददर्श पुरतः सनकाद्यान्मुनीश्वरान्
कोटिसूर्यसमाभासानुवाच मुनिसत्तमान् ॥ ४२ ॥

इदानीं भूरिभागेन भवतां दर्शनं ह्यभूत्
तदुपायं महाभागा वदन्तु प्रीतमानसाः ॥ ४३ ॥

भवन्तो योगिनां श्रेष्ठा बुद्धिमन्तो बहुश्रुताः
कुमारा एवपञ्चाब्दाः पूर्वेषामपिपूर्वजाः ॥ ४४ ॥

सदा वैकुण्ठनिलया हरिकीर्त्तनतत्पराः
लीलामृतकथोन्मत्ता हरिस्मरणतत्पराः ॥ ४५ ॥

अतो हि कालदुहिता युष्मान्नैव प्रबाधते
येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा ॥ ४६ ॥

दैत्यौ भूत्वा त्रिजन्मानि पुनस्तत्स्थानमास्थितौ
अशरीरगिरोक्तं यत्किन्तत्साधनमुच्यताम् ॥ ४७ ॥

अनुष्ठेयं यथा यत्र प्रब्रुवन्तु कृपालवः
भक्तिज्ञानविरागाणांसुखमुत्पद्यतेयथा
ख्यातिर्वः सर्वलोकेषु तथा साधूच्यतां बुधाः ॥ ४८ ॥

कुमारा ऊचुः-
मा चिन्तां कुरु देवर्षे स्वचित्ते हर्षमावह
उपायः सुखासाध्योऽत्र विद्यते विश्वसौख्यदः ॥ ४९ ॥

अहो नारद धन्योऽसि विरक्तानां शिरोमणिः
श्रीकृष्णप्रेमपात्राणामग्रणीर्वदतां वरः 6.194.॥ ५० ॥

त्वयि चित्रं न देवर्षे भक्तिसाधनतत्परे
उचितं कृष्णदासानां भक्तेः सञ्चारणं भुवि ॥ ५१ ॥

ऋषिभिर्बहुधा लोके उपायाः सिद्धये कृताः
श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥ ५२ ॥

वैकुण्ठसाधकः पन्था गुप्तो लोकेषु वर्त्तते
तस्योपदेशकः साधुः प्रायो भाग्येन लभ्यते ॥ ५३ ॥

यत्ते सत्कर्म निर्दिष्टं व्योमवाचा मुनीश्वर
तज्ज्ञेयमिह सर्वज्ञैर्ज्ञानयज्ञः पुरातनैः ॥ ५४ ॥

श्रीमद्भागवतालापो ज्ञानयज्ञः शुकोदितः
भक्तिज्ञानविरागाणां सुखदः प्रतिभाति नः ॥ ५५ ॥

कलिदोषा इमे सर्वे श्रीमद्भागवत ध्वनेः
प्रभीताः प्रलयायन्ते सिंहशब्दाद्वृका इव ॥ ५६ ॥

ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा
प्रतिगेहं प्रतिजनं सुखक्रीडां करिष्यति ॥ ५७ ॥

कुमारोक्तं समाकर्ण्य नारदः प्रीतमानसः
पुनः प्रोवाच भगवांस्तदुत्कर्षं विभावयन् ॥ ५८ ॥

वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम्
नोदतिष्ठत्त्रिकं तत्तु कलिदोषतिरस्कृतम् ॥ ५९ ॥

कथं भागवतालापात्तद्विबोधमिहैष्यति
छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः ॥ ६० ॥

विलम्बो नात्र कर्त्तव्यः शरणागतवत्सलाः
ततस्ते सनकाद्यास्तु विरक्ता ह्यूर्द्ध्वरेतसः ॥ ६१ ॥

सिद्धाः सनातना विप्रा नारदं प्रोचुरादरात् ॥ ६२ ॥

कुमारा ऊचुः
वेदोपनिषदां साराज्जाता भागवती कथा
अत्युत्तमा ततो भाति पृथग्भूता फलोन्नतिः ॥ ६३ ॥

आमूलाग्रं रसोस्त्येव रसालस्य यथा फले
पृथग्भूतं तु पानेन यथा विश्वमनोहरः ॥ ६४ ॥

यथा दुग्धेस्थितं सर्पिर्न च स्वादूपकल्प्यते
पृथग्भूतं तु तद्दिव्यं देवानां प्रीतिवर्द्धनम् ॥ ६५ ॥

इक्षुष्विवादिमध्यान्तं शर्करा व्याप्य तिष्ठति
पृथग्भूता तु सा मिष्टा तथा भागवती कथा ॥ ६६ ॥

श्रीमद्भागवतं नाम पुराणं रसमेव हि
भक्तिज्ञानविरागाणां सौख्यायैव प्रकाशितम् ॥ ६७ ॥

कृष्णेन ब्रह्मणे नाभिकञ्जस्थाय हृदैव हि
तच्चतुःश्लोकमखिलं ब्रह्मैव प्रतिभासते ॥ ६८ ॥

तुभ्यं च ब्रह्मणा प्रोक्तं तच्चरित्रनिदर्शनम्
त्वयापि व्यासदेवाय प्रोक्तं तत्तापहानये ॥ ६९ ॥

यदीयस्मरणात्सद्यो निर्विण्णो बादरायणः
चकार महदाख्यातुमात्माराम मनोहरम् ॥ ७० ॥
मूलम्
यदीयस्मरणात्सद्यो निर्विण्णो बादरायणः
चकार महदाख्यातुमात्माराम मनोहरम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
अत्र ते विस्मयः केन येन पृच्छेः पुनः पुनः
श्रीमद्भागवतं शास्त्रं क्षमं कृष्णानुकर्षणे ॥ ७१ ॥
मूलम्
अत्र ते विस्मयः केन येन पृच्छेः पुनः पुनः
श्रीमद्भागवतं शास्त्रं क्षमं कृष्णानुकर्षणे ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
एतन्निशम्य वचनं समुदाहृतं तु योगीश्वरैः सनकमुख्यतमैरभीष्टम्
भक्त्या विधृत्य चरणं च प्रणम्य मूर्ध्ना हृष्टो जगाद जगदाधिनिवर्त्तकांस्तान् ॥ ७२ ॥

सन्दर्शनं च भवतां विनिहन्त्यघौघं श्रेयस्तनोति भवदुःखदवार्दितानाम्
निःशेषशेषमुखगीतकथैकपानात्प्रेमप्रकाशनकृते शरणं गतो वः ॥ ७३ ॥

पुण्योदयेन बहुजन्मसमर्जितेन सत्सङ्गमो यदि भवेत्कृतिनो जनस्य
अज्ञानहेतुकृतमोहमहान्धकारो नश्येत्तदा ह्युदयमेति महान्विवेकः ॥ ७४ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्रयां संहितायामुत्तरखण्डे
श्रीभागवतमाहात्म्ये चतुर्नवत्यधिकशततमोऽध्यायः १९४