पार्वत्युवाच-
विश्वास-प्रस्तुतिः
देवदेव महादेव सर्वज्ञ सकलार्थद
कृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे ॥ १ ॥
मूलम्

श्रुतं च गीतामाहात्म्यं बह्वाश्चर्यकथायुतम्
तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथां पराम् ॥ २ ॥

पुराणेषु तु सर्वेषु श्रीमद्भागवतं परम्
यत्र प्रतिपदं कृष्णो गीयते बहुधर्षिभिः
तन्माहात्म्यं यथातत्वं सेतिहासं वदाधुना ॥ ३ ॥

ईश्वर उवाच-
नैमिषे सूतमासीनमभिवाद्य महामतिम्
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ॥ ४ ॥
मूलम्
ईश्वर उवाच-
नैमिषे सूतमासीनमभिवाद्य महामतिम्
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
शौनक उवाच
अज्ञानध्वान्तविध्वंसि कोटिजन्माघनाशनम् ॥ ५ ॥

श्रीमद्भागवताख्यानं सूताख्याहि रसायनम्
भक्तिज्ञानविरागाढ्यो विवेको वर्द्धते कथम् ॥ ६ ॥

माहामोहनिरासश्च वैष्णवैः क्रियते कथम्
इह घोरे कलौप्रायो जीवश्चासुरतां गतः ॥ ७ ॥

क्लेशाक्रान्तस्य तस्याथ शोधने किं रसायनम्
श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् ॥ ८ ॥

कृष्णप्रीतिकरं यच्च साधनं तद्वदाधुना
चिन्तामणिं लोकसुखं सुरेन्द्रास्पदसम्पदम् ॥ ९ ॥

प्रयच्छति गुरुः प्रीतो वैकुण्ठं चातिदुर्लभम् ॥ १० ॥

सूत उवाच-
प्रीतोऽहं ते द्विजश्रेष्ठाः कथयिष्ये यथाश्रुतम्
सारात्सारतरं यच्च संसारभयनाशनम् ॥ ११ ॥

भक्तिप्रवर्द्धकं यच्च कृष्णसन्तुष्टिहेतुकम्
तन्मे कथयतः साधो सावधानतया शृणु ॥ १२ ॥

कालव्यालमुखालीढ जगत्त्राणविधायकम्
श्रीमद्भागवतं शास्त्रं कलौ कृष्णेन भाषितम् ॥ १३ ॥

एतस्मादपरं किञ्चिन्मनः शुद्धिकरं नहि
जन्मान्तरकृतैः पुण्यैर्लभ्यते साधुभिस्तु तत् ॥ १४ ॥

राज्ञः परीक्षितो मोक्षं ज्ञात्वा कमलसम्भवः
तोलयामास शास्त्राणि पुराणानि महान्ति च ॥ १५ ॥

श्रीमद्भागवतं तत्र गरीयो भुवि सङ्गतम्
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा ॥ १६ ॥

इति सञ्चित्य बहुशो मुनयः साधवोऽमलाः
मेनिरे भगवद्रूपं श्रीमद्भागवतं क्षितौ ॥ १७ ॥

पठनाच्छ्रवणाद्यस्य नरो याति हरेः पदम्
वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकम् ॥ १८ ॥

मासेन भक्तिराभास्यं लभते द्विजसत्तम
सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् ॥ १९ ॥

किं बहूक्तेन वै साधो श्रीमद्भागवताऽमृतम्
नित्यं सद्भिः प्रपातव्यं कृष्णलीलाप्रकाशकम् ॥ २० ॥

सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः
ब्रह्मणः श्रुतपूर्वाय सप्ताहश्रवणे विधिः ॥ २१ ॥

शौनक उवाच-
पितुर्लब्ध्वा वरं ज्ञानं श्रीमद्भागवताभिधम्
नारदो लोकतत्वज्ञः सर्वदा ह्यटते महीम् ॥ २२ ॥

कुत्र तैः सङ्गमो जातो नारदस्य महात्मभिः
श्रुतो देवर्षिणा यत्र सप्ताहश्रवणे विधिः ॥ २३ ॥

अत्र ते वर्णयिष्यामि भक्तियुक्तं कथानकम्
यत्पुरा ब्रह्मरातेन मह्यं प्रोक्तं दयालुना ॥ २४ ॥

एकदा तु विशालायामुपविष्टमधोमुखम्
नारदं सनकाद्यास्ते ददृशुर्दीनमानसम् ॥ २५ ॥

तं दृष्ट्वा चिन्तयानं तु देवर्षिर्भ्रातरं स्वकम्
पप्रच्छुर्विस्मयाविष्टा मुनयस्तत्वचिन्तकाः ॥ २६ ॥

कुमारा ऊचुः-
किं त्वं चिन्तयसे ब्रह्मन्नतिदीन इवातुरः
तवेत्थं मुक्तिसङ्गस्य नोचितं वद कारणम् ॥ २७ ॥

नारद उवाच-
अहं पृथ्व्यां समायातो ज्ञात्वा सर्वोत्तमोत्तमाम्
तीर्थैर्नानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीम् ॥ २८ ॥

पुष्करे च प्रयागे च काश्यां गोदावरीतटे
हरिक्षेत्रे कुरुक्षेत्रे श्रीरङ्गे सेतुबन्धने ॥ २९ ॥

एतेष्वन्येषु तीर्थेषु भ्रममाण इतस्ततः
नापश्यं कुत्रचिच्छर्म मनः सन्तोषकारकम् ॥ ३० ॥

कलिना धर्ममित्रेण धरेयं बाधिताऽधुना
सत्यं शौचं दया दानं नास्ति कुत्रापि भूतले ॥ ३१ ॥

उदरम्भरिणो लोका वराकाः कूटसाक्षिणः
मन्दाः सुमन्दमतयो महापाखण्डसंश्रयाः ॥ ३२ ॥

स्त्रीप्रधानगृहस्थाश्च वर्णिनो व्रतवर्जिताः
वानप्रस्थाः पुरावासा न्यासिनो भोगतत्परा ॥ ३३ ॥

कन्याविक्रयिणो लोभात्कृषिकर्मपरायणाः
भ्रष्टाचारा दम्भिनश्च स्वेच्छाचारनिदर्शिनः ॥ ३४ ॥

आश्रमा यवनै रुद्धास्तीर्थानि सरितो ह्रदाः
देवतायतनान्यत्र दुष्टैरुच्छेदितानि च ॥ ३५ ॥

योगी सिद्धोऽथवा ज्ञानी सत्क्रियोऽत्र न दृश्यते
कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥ ३६ ॥

अट्टशूला जनपदाः शिवशूला द्विजातयः
कामिन्यः केशशूलिन्यो दृश्यन्ते भुवि सर्वतः ॥ ३७ ॥

एकदाहमनुप्राप्तो यमुनायास्तटं शुभम्
दृष्टं वृन्दावनं तत्र यत्र लीला हरेरभूत् ॥ ३८ ॥

तत्र यच्चाद्भुतं दृष्टं श्रूयतां तन्मुनीश्वराः
एका तु तरुणी तत्र निषण्णाखिन्नमानसा ॥ ३९ ॥

द्वौ वृद्धौ पतितौ पार्श्वे निःश्वसन्तावचेतनौ
शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः ॥ ४० ॥

दृष्टा दिशो निरीक्षन्ती रक्षितारमिवात्मनः
वीज्यमाना बहुस्त्रीभिर्बोध्यमाना मुहुर्महुः ॥ ४१ ॥

दृष्ट्वा दूराद्गतश्चाऽहं कौतुकेन तदन्तिकम्
मां दृष्ट्वोत्थाय सा बाला वचनं चेदमब्रवीत् ॥ ४२ ॥

बालोवाच-
भो साधोऽत्र क्षणं तिष्ठ मम चिन्तामपाकुरु
पुंसां च दर्शनं भद्र सर्वाघौघनिवारणम्
पुण्येन प्राक्तनेनैव दर्शनं तव जायते ॥ ४३ ॥

अतो मे मानसं दुःखं च्छेत्तुमर्हसि मानद
नारद उवाच
एवमुक्तस्तया चाहं कृपया स्निग्धमानसः
अपृच्छन्तां वरारोहां कौतुकेन समाकुलः ॥ ४४ ॥

का त्वमेतौ च कौ भद्रे काश्चेमाः पद्मलोचनाः
आख्याहि मत्पुरः सर्वं तव दुःखस्य कारणम् ॥ ४५ ॥

इति पृष्टा मया सा तु बाला दुःखितमानसा
प्रोवाच निखिलं दुःखमात्मनो दुःखकारणम् ॥ ४६ ॥

अहं भक्तिरिति ख्याता एतौ मे तनयौ वरौ
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ॥ ४७ ॥

गङ्गाद्याः सरितश्चेमा मम सेवार्थमागताः
एताभिः सेविता नित्यं सत्कारेणापि नारद ॥ ४८ ॥

न च श्रेयो लभे किञ्चित्क्षीणाऽहं सर्वतो मुने
ममपूर्वं तु वृत्तातं शृणु ब्राह्मणसत्तम ॥ ४९ ॥

येनाऽहं दुःखिता जाता न लभे शर्म कुत्रचित्
उत्पन्ना द्रविडे चाहं कर्णाटे वृद्धिमागता 6.193.॥ ५० ॥

स्थिता किञ्चिन्महाराष्ट्रे गुर्जरे जीर्णतां गता
तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गका ॥ ५१ ॥

दुर्बलाहं चिरं जाता पुत्राभ्यां सह मन्दताम् ॥ ५२ ॥

वृन्दावनमिदं प्राप्ता दैवयोगेन नारद
जाता हं तु पुनर्बाला नवीनेव सुरूपिणी ॥ ५३ ॥

इमौ तु शयितावत्र सुतौ मे क्लिष्टमानसौ
अतिवृद्धौ परित्यज्य गन्तुं नाहं क्षमाधुना ॥ ५४ ॥

अहं बाला कथं जाता सुतौ मे जरठौ कुतः
त्रयाणामेकभावानां वैपरीत्यं कुतोऽभवत् ॥ ५५ ॥

घटते जरठा माता बालकौ तनयाविति
अतः शोचामि चात्मानं विस्मयाविष्टमानसा ॥ ५६ ॥

यदि त्वं वेत्सि धर्मज्ञ कृपालो दीनपालक
वद सर्वं यथातत्वं कारणं चात्र यद्भवेत् ॥ ५७ ॥

एवं पृष्टस्तया चाहं क्षणं चैव विमृश्य तु
अवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा ॥ ५८ ॥

ज्ञानेनाहं प्रपश्यामि वृत्तं सर्वं तवानघे
मा विषादं कुरु प्राज्ञे हरिः शं ते करिष्यति ॥ ५९ ॥

सर्वसत्वहरो बाले युगोऽयं दारुणः कलि
लुप्तोऽनेन सदाऽचारो योगमार्गस्तपांसि च ॥ ६० ॥

जनाश्चाघा (द्या) सुरायन्ते शाठ्यदुष्कृतकारिणः
सन्तो ह्यस्मिन्सुदुःखार्ता असन्तो हृष्टमानसाः ॥ ६१ ॥

दृश्यते धीरचित्तस्तु पण्डितोऽपि न कोऽपि च
अस्पृश्य नवलोक्येयं दुष्टभाराकुलाधरा ॥ ६२ ॥

अन्वब्दं क्रमतो जातो मङ्गलं हीयतेऽन्वहम्
न त्वां तव सुतौ चेमौ कोऽपि पश्यति भामिनि ॥ ६३ ॥

यूयं तु रागबहुलैस्त्यक्ता जर्जरतां गताः
वृन्दावनस्य संयोगाद्बालात्वमभवः पुनः ॥ ६४ ॥

धन्यं वृन्दावनं चेदं भक्तिर्यत्राभवन्नवा
अत्रेमौ ग्राहकाभावान्नवीनत्वं न चागतौ ॥ ६५ ॥

किञ्चिदात्मसुखेनेह प्रसुप्ताविति लक्ष्यते
भक्तिरुवाच-
कथं परिक्षिता राज्ञा स्थापितोद्य शुचिः कलि
दयापरेण हरिणा ह्यधर्मः किमुपेक्षितः ॥ ६६ ॥

एनं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम्
तस्या वचः समाकर्ण्य भूयोऽहमवदं द्विजाः ॥ ६७ ॥

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु
यदा मुकुन्दो भगवान्क्ष्मां त्यक्त्वा स्वपदं गतः ॥ ६८ ॥

कलिस्तद्दिनमारभ्य प्रवृत्तः सत्यबाधकः
दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ॥ ६९ ॥

न हतोऽस्य गुणद्रष्टा सर्वसाधारणं त्विदम्
यत्फलं तपसा नैति न योगे न समाधिना ॥ ७० ॥

तत्फलं लभते धीमान्कलौ केशवकीर्तनात्
एतादृशं कलिं दृष्ट्वा सारात्सारफलप्रदम् ॥ ७१ ॥

विष्णुरातः स्थापितवान्कलिजानां हिताय च
कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ॥ ७२ ॥

पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा
विप्रैर्भागवतीवार्त्ता गेहे गेहे जने जने ॥ ७३ ॥

कारिता धनलोभेन कथासारस्ततो गतः
अत्युग्रभूरिकर्माणो नास्तिका दाम्भिका जनाः ॥ ७४ ॥

तिष्ठन्ति सर्वतीर्थेषु तीर्थसारस्ततो गतः
कामक्रोधमहालोभतृष्णाव्याकुलचेतसः ॥ ७५ ॥

समारभन्ते कर्माणि कर्मसारस्ततो गतः
मनसश्चाजयाल्लोभाद्दम्भात्पाखण्डसंश्रयात् ॥ ७६ ॥

शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम्
पण्डितास्ते कलत्रेषु रमन्ते महिषा इव ॥ ७७ ॥

पुत्रोत्पादनदक्षाश्च न दक्षा मुक्तिसाधने
न हि वैष्णवता कुत्र सम्प्रदायपुरःसराः ॥ ७८ ॥

देवनिन्दापराः सर्वे साधुनिन्दापरायणाः
अयं तु युगधर्मोऽस्ति दीयते कस्य दूषणम् ॥ ७९ ॥

अतस्त्वं पुण्डरीकाक्षं स्मृत्वा सौख्यमवाप्स्यसि ॥ ८० ॥

एवं मयोक्तं वचनं श्रुत्वा सा विस्मयं गता
उवाच वचनं भूयो मां प्रशस्य द्विजोत्तमाः ॥ ८१ ॥

देवर्षे त्वं तु धन्योऽसि मद्भाग्येन समागतः
साधूनां दर्शनं लोके सर्वसिद्धिप्रदायकम् ॥ ८२ ॥

सुखोपायो यथा मे स्यात्तथादिश मुनेऽधुना
सर्वज्ञस्य तव ब्रह्मन्न साध्यं किमपीह वै ॥ ८३ ॥

अजयदजितमायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य
ध्रुवपदमुपयातो यत्कृपातो ध्रुवो वै तमहमरणभूतं ब्रह्मपुत्रं नतास्मि ॥ ८४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे भागवतमाहात्म्ये त्रिनवत्यधिकशततमोऽध्यायः १९३