१९२

पावर्त्युवाच-

विश्वास-प्रस्तुतिः

उक्तं सप्तदशाध्यायगौरवं भवता शिव
स त्वमष्टादशाध्यायमहिमानमुदीरय ॥ १ ॥

मूलम्

उक्तं सप्तदशाध्यायगौरवं भवता शिव
स त्वमष्टादशाध्यायमहिमानमुदीरय ॥ १ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
आकर्णय चिदानन्द निष्पादि निगमोत्तरम्
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनन्दिनि ॥ २ ॥

मूलम्

ईश्वर उवाच-
आकर्णय चिदानन्द निष्पादि निगमोत्तरम्
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनन्दिनि ॥ २ ॥

विश्वास-प्रस्तुतिः

समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम्
संसारयातनाजालविदारणपरायणम् ॥ ३ ॥

मूलम्

समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम्
संसारयातनाजालविदारणपरायणम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम्
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥ ४ ॥

मूलम्

परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम्
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

विवेकवल्लरीमूलं कामक्रोधमलापहम्
पुरन्दरादिगीर्वाणचित्तविश्रामकारकम् ॥ ५ ॥

मूलम्

विवेकवल्लरीमूलं कामक्रोधमलापहम्
पुरन्दरादिगीर्वाणचित्तविश्रामकारकम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

सनकादिमहायोगिमनोरञ्जनकारणम्
पाठमात्रपराभूतकालकिङ्करगर्जितम् ॥ ६ ॥

मूलम्

सनकादिमहायोगिमनोरञ्जनकारणम्
पाठमात्रपराभूतकालकिङ्करगर्जितम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम्
नातः परतरं किञ्चिद्रहस्यं हंसगामिनि ॥ ७ ॥

मूलम्

अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम्
नातः परतरं किञ्चिद्रहस्यं हंसगामिनि ॥ ७ ॥

विश्वास-प्रस्तुतिः

उपतापत्रयहरं महापातकनाशनम्
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ॥ ८ ॥

मूलम्

उपतापत्रयहरं महापातकनाशनम्
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ॥ ८ ॥

विश्वास-प्रस्तुतिः

यथा व्यासो मुनीन्द्रेषु व्यासेषु ब्रह्मवित्तमः
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ॥ ९ ॥

मूलम्

यथा व्यासो मुनीन्द्रेषु व्यासेषु ब्रह्मवित्तमः
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ॥ ९ ॥

विश्वास-प्रस्तुतिः

यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम्
तथा गिरीणां कैलासो यथा चेन्द्रो दिवौकसाम् ॥ १० ॥

मूलम्

यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम्
तथा गिरीणां कैलासो यथा चेन्द्रो दिवौकसाम् ॥ १० ॥

विश्वास-प्रस्तुतिः

तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पङ्कजम्
पतिव्रतासु नारीषु यथा लोकेष्वरुन्धती ॥ ११ ॥

मूलम्

तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पङ्कजम्
पतिव्रतासु नारीषु यथा लोकेष्वरुन्धती ॥ ११ ॥

विश्वास-प्रस्तुतिः

यथा मखेष्वश्वमेधो यथोद्यानेषु नन्दनम्
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥ १२ ॥

मूलम्

यथा मखेष्वश्वमेधो यथोद्यानेषु नन्दनम्
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥ १२ ॥

विश्वास-प्रस्तुतिः

यथा दानेषु भूदानं यथा सिन्धुषु गौतमी
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥ १३ ॥

मूलम्

यथा दानेषु भूदानं यथा सिन्धुषु गौतमी
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥ १३ ॥

विश्वास-प्रस्तुतिः

तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम्
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति ॥ १४ ॥

मूलम्

तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम्
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति ॥ १४ ॥

विश्वास-प्रस्तुतिः

यथाकर्णनमात्रेण जन्तुः पापैः प्रमुच्यते
अस्ति मेरुगिरेः शृङ्गे पुरी रम्यामरावती ॥ १५ ॥

मूलम्

यथाकर्णनमात्रेण जन्तुः पापैः प्रमुच्यते
अस्ति मेरुगिरेः शृङ्गे पुरी रम्यामरावती ॥ १५ ॥

विश्वास-प्रस्तुतिः

पुरा मम विनोदाय निर्मिता विश्वकर्मणा
निरन्तरं गुणयुता कोटिगीर्वाणसेविता ॥ १६ ॥

मूलम्

पुरा मम विनोदाय निर्मिता विश्वकर्मणा
निरन्तरं गुणयुता कोटिगीर्वाणसेविता ॥ १६ ॥

विश्वास-प्रस्तुतिः

तेजःपुञ्जवती साक्षाद्ब्रह्मविद्येव विश्रुता
चिन्तामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥ १७ ॥

मूलम्

तेजःपुञ्जवती साक्षाद्ब्रह्मविद्येव विश्रुता
चिन्तामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥ १७ ॥

विश्वास-प्रस्तुतिः

जयन्ति मेरुशिखरे चतुर्मुखपुरावधि
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा ॥ १८ ॥

मूलम्

जयन्ति मेरुशिखरे चतुर्मुखपुरावधि
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा ॥ १८ ॥

विश्वास-प्रस्तुतिः

शृणोति श्यामला गीर्भिर्गीतं गन्धर्वयोषिताम्
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् ॥ १९ ॥

मूलम्

शृणोति श्यामला गीर्भिर्गीतं गन्धर्वयोषिताम्
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः ॥ २० ॥

मूलम्

दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः ॥ २० ॥

विश्वास-प्रस्तुतिः

धयन्ति यत्र क्षुत्क्षामा कलां प्रत्यहमैन्दवीम्
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः ॥ २१ ॥

मूलम्

धयन्ति यत्र क्षुत्क्षामा कलां प्रत्यहमैन्दवीम्
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः ॥ २१ ॥

विश्वास-प्रस्तुतिः

शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥ २२ ॥

मूलम्

शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सहस्रनेत्रमायान्तमपश्यत्पुरुषं परम्
ततस्तदीय तेजोभिरभिभूतः पुरन्दरः ॥ २३ ॥

मूलम्

सहस्रनेत्रमायान्तमपश्यत्पुरुषं परम्
ततस्तदीय तेजोभिरभिभूतः पुरन्दरः ॥ २३ ॥

विश्वास-प्रस्तुतिः

मणिसिंहासनात्तूर्णं पतितः स्थानमण्डपे
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः ॥ २४ ॥

मूलम्

मणिसिंहासनात्तूर्णं पतितः स्थानमण्डपे
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः ॥ २४ ॥

विश्वास-प्रस्तुतिः

गीर्वाणगणसाम्राज्य पट्टबन्धं वितेनिरे
अथ तस्याभिषिक्तस्य महेन्द्रस्य पुलोमजा ॥ २५ ॥

मूलम्

गीर्वाणगणसाम्राज्य पट्टबन्धं वितेनिरे
अथ तस्याभिषिक्तस्य महेन्द्रस्य पुलोमजा ॥ २५ ॥

विश्वास-प्रस्तुतिः

वामाङ्कमारुरोहाशु दिव्यदुन्दुम्भिनिःस्वनैः
अथ त्रिदिवसङ्गीत गीर्वाणाः प्रमदान्विताः ॥ २६ ॥

मूलम्

वामाङ्कमारुरोहाशु दिव्यदुन्दुम्भिनिःस्वनैः
अथ त्रिदिवसङ्गीत गीर्वाणाः प्रमदान्विताः ॥ २६ ॥

विश्वास-प्रस्तुतिः

सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥ २७ ॥

मूलम्

सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥ २७ ॥

विश्वास-प्रस्तुतिः

रम्भाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः
गन्धर्वा ललितालापाञ्जगुर्मङ्गलकौतुकम् ॥ २८ ॥

मूलम्

रम्भाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः
गन्धर्वा ललितालापाञ्जगुर्मङ्गलकौतुकम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

एवं नूतनमिन्द्रं तु जुष्टं बहुभिरुत्सवैः
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ ॥ २९ ॥

मूलम्

एवं नूतनमिन्द्रं तु जुष्टं बहुभिरुत्सवैः
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ ॥ २९ ॥

विश्वास-प्रस्तुतिः

न मया विहिता मार्गे तडागा न विनिर्मिताः
न रोपिता महावृक्षाः पान्थविश्रान्तिकारकः ॥ ३० ॥

मूलम्

न मया विहिता मार्गे तडागा न विनिर्मिताः
न रोपिता महावृक्षाः पान्थविश्रान्तिकारकः ॥ ३० ॥

विश्वास-प्रस्तुतिः

न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः
निधिवासे स्थिता देवी पूजिता न मदालसा ॥ ३१ ॥

मूलम्

न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः
निधिवासे स्थिता देवी पूजिता न मदालसा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मेघङ्करस्थितः शार्ङ्गधरो नैव निरीक्षितः
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ॥ ३२ ॥

मूलम्

मेघङ्करस्थितः शार्ङ्गधरो नैव निरीक्षितः
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

न देववाटिकावासी दृष्टो नरहरिः स्वयम्
एरण्डविष्णुर्हेरम्बो न जातु परिशीलितः ॥ ३३ ॥

मूलम्

न देववाटिकावासी दृष्टो नरहरिः स्वयम्
एरण्डविष्णुर्हेरम्बो न जातु परिशीलितः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

रेणुकानेक्षिता जातु माता पुरनिवासिनी
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ॥ ३४ ॥

मूलम्

रेणुकानेक्षिता जातु माता पुरनिवासिनी
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ॥ ३४ ॥

विश्वास-प्रस्तुतिः

न भक्त्या त्रिपुरे दृष्टस्त्रिलिङ्गस्त्र्यम्बकः स्वयम्
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ॥ ३५ ॥

मूलम्

न भक्त्या त्रिपुरे दृष्टस्त्रिलिङ्गस्त्र्यम्बकः स्वयम्
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः
नागदन्तपुरे ख्यातो नागनाथो न वेक्षितः ॥ ३६ ॥

मूलम्

रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः
नागदन्तपुरे ख्यातो नागनाथो न वेक्षितः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः
न तुङ्गभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ॥ ३७ ॥

मूलम्

पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः
न तुङ्गभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

न वेङ्कटाद्रिनिलयः श्रीनिवासः सुलक्षितः
कावेरी कर्णिकातीरे श्रीरङ्गो नैव वीक्षितः ॥ ३८ ॥

मूलम्

न वेङ्कटाद्रिनिलयः श्रीनिवासः सुलक्षितः
कावेरी कर्णिकातीरे श्रीरङ्गो नैव वीक्षितः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

दीनास्त्वनाथाः क्रोशन्तः कारागारान्न मोचिताः
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ॥ ३९ ॥

मूलम्

दीनास्त्वनाथाः क्रोशन्तः कारागारान्न मोचिताः
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ॥ ४० ॥

मूलम्

रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ॥ ४० ॥

विश्वास-प्रस्तुतिः

न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ॥ ४१ ॥

मूलम्

न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दत्तं नो भूखण्डमपि कवयो नैव पूजिताः
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ॥ ४२ ॥

मूलम्

दत्तं नो भूखण्डमपि कवयो नैव पूजिताः
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ॥ ४३ ॥

मूलम्

पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

न जातुचिद्भयाक्रान्ता रक्षिताः शरणागताः
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ॥ ४४ ॥

मूलम्

न जातुचिद्भयाक्रान्ता रक्षिताः शरणागताः
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

इति चिन्ताकुलो भूत्वा हरिं प्रष्टुं पुरन्दरः
ययौ सरभसङ्खिन्नः क्षीरकूपारगह्वरम् ॥ ४५ ॥

मूलम्

इति चिन्ताकुलो भूत्वा हरिं प्रष्टुं पुरन्दरः
ययौ सरभसङ्खिन्नः क्षीरकूपारगह्वरम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तत्र प्रविश्य गोविन्दं कृतनिद्रं नवैस्तवैः
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ॥ ४६ ॥

मूलम्

तत्र प्रविश्य गोविन्दं कृतनिद्रं नवैस्तवैः
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ॥ ४६ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा
तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ ४७ ॥

मूलम्

इन्द्र उवाच-
रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा
तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः
न तेन धर्मो विहितो न तेन क्रतवः कृताः ॥ ४८ ॥

मूलम्

इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः
न तेन धर्मो विहितो न तेन क्रतवः कृताः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ ४९ ॥

मूलम्

मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ ४९ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः 6.192.॥ ५० ॥

मूलम्

महादेव उवाच-
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः 6.192.॥ ५० ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ॥ ५१ ॥

मूलम्

श्रीभगवानुवाच-
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरन्दरं पदम् ॥ ५२ ॥

मूलम्

इन्द्र उवाच-
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरन्दरं पदम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच
जपत्यष्टादशाध्याये गीतानां श्लोकपञ्चकम्
यत्पुण्येन च सम्प्राप्तं तव साम्राज्यमुत्तमम् ॥ ५३ ॥

मूलम्

श्रीभगवानुवाच
जपत्यष्टादशाध्याये गीतानां श्लोकपञ्चकम्
यत्पुण्येन च सम्प्राप्तं तव साम्राज्यमुत्तमम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरन्दरः ॥ ५४ ॥

मूलम्

सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरन्दरः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

विप्रवेषधरो भूत्वा गतो गोदावरीतटम्
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ॥ ५५ ॥

मूलम्

विप्रवेषधरो भूत्वा गतो गोदावरीतटम्
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ॥ ५६ ॥

मूलम्

यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अपश्यत्करुणावन्तं ब्राह्मणं वेदपारगम्
नित्यमष्टादशाध्यायं जपन्तं दान्तचेतसम् ॥ ५७ ॥

मूलम्

अपश्यत्करुणावन्तं ब्राह्मणं वेदपारगम्
नित्यमष्टादशाध्यायं जपन्तं दान्तचेतसम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

ततस्तच्चरणद्वन्द्वे लुठित्वा परया मुदा
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ॥ ५८ ॥

मूलम्

ततस्तच्चरणद्वन्द्वे लुठित्वा परया मुदा
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ
हित्वा पुरन्दरादीनां देवानां पदमल्पकम् ॥ ५९ ॥

मूलम्

अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ
हित्वा पुरन्दरादीनां देवानां पदमल्पकम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वातीव मुदायुक्तो वैकुण्ठमगमत्पुरम्
अतएव परं तत्वं मुनीनामिदमुत्तमम् ॥ ६० ॥

मूलम्

ज्ञात्वातीव मुदायुक्तो वैकुण्ठमगमत्पुरम्
अतएव परं तत्वं मुनीनामिदमुत्तमम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ६१ ॥

मूलम्

दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ६१ ॥

विश्वास-प्रस्तुतिः

इत्येवं गीतामाहात्म्यं कथितं पापनाशनम्
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥ ६२ ॥

मूलम्

इत्येवं गीतामाहात्म्यं कथितं पापनाशनम्
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

यः शृणोति महाभागे श्रद्धया संयुतः पुमान्
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ॥ ६३ ॥

मूलम्

यः शृणोति महाभागे श्रद्धया संयुतः पुमान्
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ॥ ६३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे सतीश्वरसंवादे गीतामाहात्म्ये द्विनवत्यधिक शततमोऽध्यायः १९२