१९१

ईश्वर उवाच-

विश्वास-प्रस्तुतिः

षोडशाध्यायसामर्थ्यं कथितं शृणु साम्प्रतम्
स्पष्टं सप्तदशाध्यायमहिमाम्भोनिधिं शिवे ॥ १ ॥

मूलम्

षोडशाध्यायसामर्थ्यं कथितं शृणु साम्प्रतम्
स्पष्टं सप्तदशाध्यायमहिमाम्भोनिधिं शिवे ॥ १ ॥

विश्वास-प्रस्तुतिः

खड्गबाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत्
तं गजं धर्तुमागत्य गजात्प्राप्तो यमक्षयम् ॥ २ ॥

मूलम्

खड्गबाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत्
तं गजं धर्तुमागत्य गजात्प्राप्तो यमक्षयम् ॥ २ ॥

विश्वास-प्रस्तुतिः

तद्वासनानिबद्धात्मा गजयोनिमवाप्य च
गीता सप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम् ॥ ३ ॥

मूलम्

तद्वासनानिबद्धात्मा गजयोनिमवाप्य च
गीता सप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

देव्युवाच
दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम्
तदेव वद कल्याण विस्तरेण मम प्रभो ॥ ४ ॥

मूलम्

देव्युवाच
दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम्
तदेव वद कल्याण विस्तरेण मम प्रभो ॥ ४ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
स्थितः कश्चन दुर्मेधा मण्डलीककुमारकैः
बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः ॥ ५ ॥

मूलम्

ईश्वर उवाच-
स्थितः कश्चन दुर्मेधा मण्डलीककुमारकैः
बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः ॥ ५ ॥

विश्वास-प्रस्तुतिः

गत्वा कतिपयान्येव पदानि जनवारितः
नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदीरयन् ॥ ६ ॥

मूलम्

गत्वा कतिपयान्येव पदानि जनवारितः
नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदीरयन् ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततो निशम्य तद्वाक्यं क्रोधान्धः सिन्धुरोऽभवत्
न्यपतच्च स्खलत्पादः कम्पमानकुमारकैः ॥ ७ ॥

मूलम्

ततो निशम्य तद्वाक्यं क्रोधान्धः सिन्धुरोऽभवत्
न्यपतच्च स्खलत्पादः कम्पमानकुमारकैः ॥ ७ ॥

विश्वास-प्रस्तुतिः

ततो निपतितं किञ्चिदुच्छ्वसन्तं गजो रुषा
ऊर्द्ध्वमुन्मूलयाञ्चक्रे कृतान्तकनिरङ्कुशः ॥ ८ ॥

मूलम्

ततो निपतितं किञ्चिदुच्छ्वसन्तं गजो रुषा
ऊर्द्ध्वमुन्मूलयाञ्चक्रे कृतान्तकनिरङ्कुशः ॥ ८ ॥

विश्वास-प्रस्तुतिः

गतासोरपि रोषेण तस्यास्थ्न्यां च गणं गजः
विकीर्णवान्पृथक्कृत्वा मत्तो दन्तावलस्ततः ॥ ९ ॥

मूलम्

गतासोरपि रोषेण तस्यास्थ्न्यां च गणं गजः
विकीर्णवान्पृथक्कृत्वा मत्तो दन्तावलस्ततः ॥ ९ ॥

विश्वास-प्रस्तुतिः

ततः कालेन सम्प्रेत्य गजयोनिमवाप सः
महान्तं कालमनयत्सिंहलद्वीपभूपतेः ॥ १० ॥

मूलम्

ततः कालेन सम्प्रेत्य गजयोनिमवाप सः
महान्तं कालमनयत्सिंहलद्वीपभूपतेः ॥ १० ॥

विश्वास-प्रस्तुतिः

मैत्री गरीयसी सार्द्धं खड्गबाहुमहीभुजा
ततोऽयं जलमार्गेण प्रापितो वारुणो मतः ॥ ११ ॥

मूलम्

मैत्री गरीयसी सार्द्धं खड्गबाहुमहीभुजा
ततोऽयं जलमार्गेण प्रापितो वारुणो मतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा
जातिं स्मरन्स्वकीयां स पश्यन्बन्धून्सहोदरान् ॥ १२ ॥

मूलम्

जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा
जातिं स्मरन्स्वकीयां स पश्यन्बन्धून्सहोदरान् ॥ १२ ॥

विश्वास-प्रस्तुतिः

दुःखेन महतास्तोकान्दिवसानत्यवाहयत्
उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन् ॥ १३ ॥

मूलम्

दुःखेन महतास्तोकान्दिवसानत्यवाहयत्
उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन् ॥ १३ ॥

विश्वास-प्रस्तुतिः

स कदाचित्तु सन्तुष्टः समस्याश्लोकपूरणे
कस्मैचित्कवये प्रादात्तमुपायन हस्तिनम् ॥ १४ ॥

मूलम्

स कदाचित्तु सन्तुष्टः समस्याश्लोकपूरणे
कस्मैचित्कवये प्रादात्तमुपायन हस्तिनम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

शतेन तेन कविना रोगोपद्रवभीरुणा
मालवक्षोणिपालस्य विक्रीतश्चैत्यकुञ्जरः ॥ १५ ॥

मूलम्

शतेन तेन कविना रोगोपद्रवभीरुणा
मालवक्षोणिपालस्य विक्रीतश्चैत्यकुञ्जरः ॥ १५ ॥

विश्वास-प्रस्तुतिः

कियत्यपि गते काले पाल्यमानोऽपि यत्नतः
मुमूर्षुरभवत्तत्र कुञ्जरो दुर्जरज्वरः ॥ १६ ॥

मूलम्

कियत्यपि गते काले पाल्यमानोऽपि यत्नतः
मुमूर्षुरभवत्तत्र कुञ्जरो दुर्जरज्वरः ॥ १६ ॥

विश्वास-प्रस्तुतिः

न जिघ्रति पयः शीतं नादत्ते कवलं गजः
स्वपित्यपि न सौख्येन मुञ्चत्यश्रूणि केवलम्
ततो हस्तिपकाख्यातं वृत्तान्तमवनीपतिः ॥ १७ ॥

मूलम्

न जिघ्रति पयः शीतं नादत्ते कवलं गजः
स्वपित्यपि न सौख्येन मुञ्चत्यश्रूणि केवलम्
ततो हस्तिपकाख्यातं वृत्तान्तमवनीपतिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

आकर्ण्य स समायातो यत्रास्ते ज्वरितो गजः
स चावलोक्य भूपालं जगद्विस्मयकारिणीम् ॥ १८ ॥

मूलम्

आकर्ण्य स समायातो यत्रास्ते ज्वरितो गजः
स चावलोक्य भूपालं जगद्विस्मयकारिणीम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः
राजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे ॥ १९ ॥

मूलम्

वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः
राजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे ॥ १९ ॥

विश्वास-प्रस्तुतिः

निर्जितारातिसङ्घात मुरारिचरणप्रिय
किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः ॥ २० ॥

मूलम्

निर्जितारातिसङ्घात मुरारिचरणप्रिय
किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः ॥ २० ॥

विश्वास-प्रस्तुतिः

गीतासप्तदशाध्यायजापकं द्विजमानय
तेनायं मामको रोगः शाम्यत्यत्र न संशयः ॥ २१ ॥

मूलम्

गीतासप्तदशाध्यायजापकं द्विजमानय
तेनायं मामको रोगः शाम्यत्यत्र न संशयः ॥ २१ ॥

विश्वास-प्रस्तुतिः

यथादिष्टं गजेनासौ तथा चक्रे नराधिपः
ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत् ॥ २२ ॥

मूलम्

यथादिष्टं गजेनासौ तथा चक्रे नराधिपः
ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तेन विप्रेणाभिमन्त्र्य जले क्षिप्ते तदुत्तमे
अथ दिव्यं समारूढं विमानमवनीपतिः ॥ २३ ॥

मूलम्

तेन विप्रेणाभिमन्त्र्य जले क्षिप्ते तदुत्तमे
अथ दिव्यं समारूढं विमानमवनीपतिः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तं दुःशासनमद्राक्षीत्पाकशासनतेजसम् ॥ २४ ॥

मूलम्

तं दुःशासनमद्राक्षीत्पाकशासनतेजसम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

राजोवाच
किं जातीयः किमात्मा त्वं किं वृत्त इति मे वद
केन वा कर्मणा जातो गजः कथमिहागतः ॥ २५ ॥

मूलम्

राजोवाच
किं जातीयः किमात्मा त्वं किं वृत्त इति मे वद
केन वा कर्मणा जातो गजः कथमिहागतः ॥ २५ ॥

विश्वास-प्रस्तुतिः

पृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम्
वृत्तं यथा यदाचख्यौ निजं दुःशासनः क्रमात् ॥ २६ ॥

मूलम्

पृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम्
वृत्तं यथा यदाचख्यौ निजं दुःशासनः क्रमात् ॥ २६ ॥

विश्वास-प्रस्तुतिः

गीतासप्तदशाध्यायं जपन्मालवभूपतिः
नरवर्माभवन्मुक्तः कालेनाल्पीयसा ततः ॥ २७ ॥

मूलम्

गीतासप्तदशाध्यायं जपन्मालवभूपतिः
नरवर्माभवन्मुक्तः कालेनाल्पीयसा ततः ॥ २७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीतामाहात्म्ये एकनवत्यधिकशततमोऽध्यायः १९१