ईश्वर उवाच-
विश्वास-प्रस्तुतिः
अतः परं प्रवक्ष्यामि षोडशाध्यायगौरवम्
आकर्णय कुरङ्गाक्षि हर्षोत्कण्ठप्रवर्षिणि ॥ १ ॥
मूलम्
अतः परं प्रवक्ष्यामि षोडशाध्यायगौरवम्
आकर्णय कुरङ्गाक्षि हर्षोत्कण्ठप्रवर्षिणि ॥ १ ॥
विश्वास-प्रस्तुतिः
अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमण्डले
तत्रासीत्खङ्गबाहुश्च राजा चन्द्र इवापरः ॥ २ ॥
मूलम्
अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमण्डले
तत्रासीत्खङ्गबाहुश्च राजा चन्द्र इवापरः ॥ २ ॥
विश्वास-प्रस्तुतिः
यदीय कुसुमामोदमालासुरभितोदरे
वारान्निधौ हरिः स्वास्थ्यादशेत सह पद्मया ॥ ३ ॥
मूलम्
यदीय कुसुमामोदमालासुरभितोदरे
वारान्निधौ हरिः स्वास्थ्यादशेत सह पद्मया ॥ ३ ॥
विश्वास-प्रस्तुतिः
यदीय कीर्तिकर्पूरकणाभान्तिनभोङ्गणे
कीर्णा वैरिकृतश्वास मारुतैस्तारकाछलात् ॥ ४ ॥
मूलम्
यदीय कीर्तिकर्पूरकणाभान्तिनभोङ्गणे
कीर्णा वैरिकृतश्वास मारुतैस्तारकाछलात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
यस्यासिधारा तीर्थेषु स्नाता वै रिपुभूभुजः
व्यावर्त्तं ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः ॥ ५ ॥
मूलम्
यस्यासिधारा तीर्थेषु स्नाता वै रिपुभूभुजः
व्यावर्त्तं ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः ॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्यारिमर्दनोनाम मदहस्ती मदोद्धुरः
मदाम्बुधारा सलिले गुञ्जद्भ्रमरमण्डलः ॥ ६ ॥
मूलम्
तस्यारिमर्दनोनाम मदहस्ती मदोद्धुरः
मदाम्बुधारा सलिले गुञ्जद्भ्रमरमण्डलः ॥ ६ ॥
विश्वास-प्रस्तुतिः
कपोलफलकोत्तीर्ण मदधाराजलाविलः
बभौ यो निर्झरोद्गोरैरञ्जनाद्रिरिवाच्चकैः ॥ ७ ॥
मूलम्
कपोलफलकोत्तीर्ण मदधाराजलाविलः
बभौ यो निर्झरोद्गोरैरञ्जनाद्रिरिवाच्चकैः ॥ ७ ॥
विश्वास-प्रस्तुतिः
यस्याङ्गेषु व्यराजन्त चामराश्चन्द्रिकोज्ज्वलाः
किरणाइव शीतांशोः पतिताः काननोदरे ॥ ८ ॥
मूलम्
यस्याङ्गेषु व्यराजन्त चामराश्चन्द्रिकोज्ज्वलाः
किरणाइव शीतांशोः पतिताः काननोदरे ॥ ८ ॥
विश्वास-प्रस्तुतिः
सिन्दूरपांसुपटली राजत्कुम्भस्थलो बभौ
यः सन्ध्यावारिदव्याप्तं वियत्खण्डमिव स्थितम् ॥ ९ ॥
मूलम्
सिन्दूरपांसुपटली राजत्कुम्भस्थलो बभौ
यः सन्ध्यावारिदव्याप्तं वियत्खण्डमिव स्थितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
स कदाचिन्मोचयित्वा शृङ्खलान्निगडानपि
भङ्क्त्वा लौहदृढस्तम्भं प्रसह्य निशि निर्गतः ॥ १० ॥
मूलम्
स कदाचिन्मोचयित्वा शृङ्खलान्निगडानपि
भङ्क्त्वा लौहदृढस्तम्भं प्रसह्य निशि निर्गतः ॥ १० ॥
विश्वास-प्रस्तुतिः
आधोरणगणान्सर्वान्पार्ष्णिविस्फूर्जदङ्कुशान्
क्रोधादवगणय्यैव निजशालां बभञ्ज सः ॥ ११ ॥
मूलम्
आधोरणगणान्सर्वान्पार्ष्णिविस्फूर्जदङ्कुशान्
क्रोधादवगणय्यैव निजशालां बभञ्ज सः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तीक्ष्णाङ्कुशमुखैर्विष्वक्हन्यमानोऽपि वैणवैः
दण्डैस्तु त्रासयामासुः सादिनो न मनागपि ॥ १२ ॥
मूलम्
तीक्ष्णाङ्कुशमुखैर्विष्वक्हन्यमानोऽपि वैणवैः
दण्डैस्तु त्रासयामासुः सादिनो न मनागपि ॥ १२ ॥
विश्वास-प्रस्तुतिः
ततो राजा समागत्य निशम्येदं कुतूहलम्
तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः ॥ १३ ॥
मूलम्
ततो राजा समागत्य निशम्येदं कुतूहलम्
तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अदृश्यत समागत्य राज्ञा दन्तावलो बली
मोहयन्नुद्भटाटोपो हृताट्टालिकमालिकः ॥ १४ ॥
मूलम्
अदृश्यत समागत्य राज्ञा दन्तावलो बली
मोहयन्नुद्भटाटोपो हृताट्टालिकमालिकः ॥ १४ ॥
विश्वास-प्रस्तुतिः
ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः
गोपायन्तः शिशून्भीत्या निवृत्तान्यकुतूहलाः ॥ १५ ॥
मूलम्
ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः
गोपायन्तः शिशून्भीत्या निवृत्तान्यकुतूहलाः ॥ १५ ॥
विश्वास-प्रस्तुतिः
रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः
वासितेषु तदीयोग्रदानधाराम्बुसीकरैः ॥ १६ ॥
मूलम्
रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः
वासितेषु तदीयोग्रदानधाराम्बुसीकरैः ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्नात्वा तेनाध्वना यातः सरसः कश्चन द्विजः
गीतानां षोडशाध्यायश्लोकान्कतिपयाञ्जपन् १७ भगवद्गीता/दैवासुरसम्पद्विभागयोगः
निषिद्ध्यमानो बहुधा पौरैराधोरणैरपि ॥ १८ ॥
मूलम्
स्नात्वा तेनाध्वना यातः सरसः कश्चन द्विजः
गीतानां षोडशाध्यायश्लोकान्कतिपयाञ्जपन् १७ भगवद्गीता/दैवासुरसम्पद्विभागयोगः
निषिद्ध्यमानो बहुधा पौरैराधोरणैरपि ॥ १८ ॥
विश्वास-प्रस्तुतिः
अमन्यमानः करिणो भीतान्चलितवांस्ततः
फूत्कारेण स आवृण्वञ्जनान्विपरिमर्दयन् ॥ १९ ॥
मूलम्
अमन्यमानः करिणो भीतान्चलितवांस्ततः
फूत्कारेण स आवृण्वञ्जनान्विपरिमर्दयन् ॥ १९ ॥
विश्वास-प्रस्तुतिः
स्पृशन्दानाम्बुजं तस्य स्वस्तिमान्निर्गतो द्विजः
ततो महानभूत्तत्र विस्मयो वागगोचरः ॥ २० ॥
मूलम्
स्पृशन्दानाम्बुजं तस्य स्वस्तिमान्निर्गतो द्विजः
ततो महानभूत्तत्र विस्मयो वागगोचरः ॥ २० ॥
विश्वास-प्रस्तुतिः
मानसे भूमिपालस्य पौराणामपि पश्यताम्
समाहूय ततो राजा फुल्लराजीवलोचनः ॥ २१ ॥
मूलम्
मानसे भूमिपालस्य पौराणामपि पश्यताम्
समाहूय ततो राजा फुल्लराजीवलोचनः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तमापृच्छद्द्विजं वाहादवतीर्य प्रणम्य च ॥ २२ ॥
मूलम्
तमापृच्छद्द्विजं वाहादवतीर्य प्रणम्य च ॥ २२ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
अलौकिकमिदं विप्र त्वयाद्याचरितं महत्
कृतान्तकल्पादेतस्मात्कथं निर्यातवान्गजात् ॥ २३ ॥
मूलम्
राजोवाच-
अलौकिकमिदं विप्र त्वयाद्याचरितं महत्
कृतान्तकल्पादेतस्मात्कथं निर्यातवान्गजात् ॥ २३ ॥
विश्वास-प्रस्तुतिः
कमर्चयसि गीर्वाणं कं मन्त्रं जपसि प्रभो
का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय ॥ २४ ॥
मूलम्
कमर्चयसि गीर्वाणं कं मन्त्रं जपसि प्रभो
का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय ॥ २४ ॥
विश्वास-प्रस्तुतिः
द्विज उवाच
गीतायाः षोडशोध्यायः श्लोकान्कतिपयानहम्
जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः ॥ २५ ॥
मूलम्
द्विज उवाच
गीतायाः षोडशोध्यायः श्लोकान्कतिपयानहम्
जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ततो विहाय द्विरदं कौतूहलरसं नृपः
आजगाम द्विजन्मानमादाय निजमन्दिरम् ॥ २६ ॥
मूलम्
ततो विहाय द्विरदं कौतूहलरसं नृपः
आजगाम द्विजन्मानमादाय निजमन्दिरम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमम् ॥ २७ ॥
मूलम्
शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सुवर्णैर्लक्ष्यसङ्ख्याकैर्गीतामन्त्रमुपाददे
गीतायाः षोडशाध्यायश्लोकान्कतिपयानपि ॥ २८ ॥
मूलम्
सुवर्णैर्लक्ष्यसङ्ख्याकैर्गीतामन्त्रमुपाददे
गीतायाः षोडशाध्यायश्लोकान्कतिपयानपि ॥ २८ ॥
विश्वास-प्रस्तुतिः
समभ्यस्य ततो राजा सत्कारेण सकौतुकः
अथैकदा विनिर्गत्य बाह्यालीं सह सैनिकैः ॥ २९ ॥
मूलम्
समभ्यस्य ततो राजा सत्कारेण सकौतुकः
अथैकदा विनिर्गत्य बाह्यालीं सह सैनिकैः ॥ २९ ॥
विश्वास-प्रस्तुतिः
तमेवामोचयद्राजा मत्तमाधोरणाद्गजम्
विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन् ॥ ३० ॥
मूलम्
तमेवामोचयद्राजा मत्तमाधोरणाद्गजम्
विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन् ॥ ३० ॥
विश्वास-प्रस्तुतिः
तृणवज्जीवितं राजा गजस्याग्रेविशत्ततः
आदाय गण्डफलकं मदपङ्क्तिनिरङ्कुशम् ॥ ३१ ॥
मूलम्
तृणवज्जीवितं राजा गजस्याग्रेविशत्ततः
आदाय गण्डफलकं मदपङ्क्तिनिरङ्कुशम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
आययौ मन्त्रिविश्वासान्नृपः साहसिकाग्रणीः
राहोरिव मुखादिन्दुः कालास्यादिव धार्मिकः ॥ ३२ ॥
मूलम्
आययौ मन्त्रिविश्वासान्नृपः साहसिकाग्रणीः
राहोरिव मुखादिन्दुः कालास्यादिव धार्मिकः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
साधुः खलस्य वदनान्नृयोनिरगमद्गजात्
आगत्य नगरं राजा त्वभिषिच्य कुमारकम् ॥ ३३ ॥
मूलम्
साधुः खलस्य वदनान्नृयोनिरगमद्गजात्
आगत्य नगरं राजा त्वभिषिच्य कुमारकम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
गीतायाः षोडशाध्यायादवाप परमां गतिम् ॥ ३४ ॥
मूलम्
गीतायाः षोडशाध्यायादवाप परमां गतिम् ॥ ३४ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरङ्खडे गीतामाहात्म्ये नवत्यधिकशततमोऽध्यायः१९०