१८९

ईश्वर उवाच

विश्वास-प्रस्तुतिः

प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके
गीता पञ्चदशाध्यायमाहात्म्यमवधारय ॥ १ ॥

मूलम्

प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके
गीता पञ्चदशाध्यायमाहात्म्यमवधारय ॥ १ ॥

विश्वास-प्रस्तुतिः

कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः
यस्यासिधारया सङ्ख्ये देवासङ्घा वधीकृताः ॥ २ ॥

मूलम्

कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः
यस्यासिधारया सङ्ख्ये देवासङ्घा वधीकृताः ॥ २ ॥

विश्वास-प्रस्तुतिः

यदीय मत्तमातङ्ग दानधाराजलैरिला
निदाघेपि च सेहेतां रविसन्तापवेदनाम् ॥ ३ ॥

मूलम्

यदीय मत्तमातङ्ग दानधाराजलैरिला
निदाघेपि च सेहेतां रविसन्तापवेदनाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

सङ्क्रन्दनपरित्रस्ता यदीय शरणं गताः
रेजिरे करिणो मत्ताश्चलन्तः पर्वता इव ॥ ४ ॥

मूलम्

सङ्क्रन्दनपरित्रस्ता यदीय शरणं गताः
रेजिरे करिणो मत्ताश्चलन्तः पर्वता इव ॥ ४ ॥

विश्वास-प्रस्तुतिः

मत्तमातङ्गचीत्कारप्रतिस्वनमिवादरात्
यस्य गोपायतः शैला व्याहरन्ति कृपावतः ॥ ५ ॥

मूलम्

मत्तमातङ्गचीत्कारप्रतिस्वनमिवादरात्
यस्य गोपायतः शैला व्याहरन्ति कृपावतः ॥ ५ ॥

विश्वास-प्रस्तुतिः

यदीय धावत्तुरगक्षुरसङ्घातजर्जरम्
नाभूच्चित्रं कथङ्कारं गतखण्डं धरातलम् ॥ ६ ॥

मूलम्

यदीय धावत्तुरगक्षुरसङ्घातजर्जरम्
नाभूच्चित्रं कथङ्कारं गतखण्डं धरातलम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् 3
पुनरुज्वलयाञ्चक्रे महाभाष्यं फणीश्वरः ॥ ७ ॥

मूलम्

यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् 3
पुनरुज्वलयाञ्चक्रे महाभाष्यं फणीश्वरः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः
नाम्ना सरभभेरुण्डः प्रचण्डभुजमण्डलः ॥ ८ ॥

मूलम्

तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः
नाम्ना सरभभेरुण्डः प्रचण्डभुजमण्डलः ॥ ८ ॥

विश्वास-प्रस्तुतिः

भाण्डारेण तुरङ्गैश्च भटैर्वीररसोद्भवैः
समान एव भूपालदुर्गैरत्यन्तदुर्गमैः ॥ ९ ॥

मूलम्

भाण्डारेण तुरङ्गैश्च भटैर्वीररसोद्भवैः
समान एव भूपालदुर्गैरत्यन्तदुर्गमैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः
निहत्य वसुधापालं बलात्साकं कुमारकै ॥ १० ॥

मूलम्

स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः
निहत्य वसुधापालं बलात्साकं कुमारकै ॥ १० ॥

विश्वास-प्रस्तुतिः

कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया
विषूचिकामयादाशु परासुः समजायत ॥ ११ ॥

मूलम्

कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया
विषूचिकामयादाशु परासुः समजायत ॥ ११ ॥

विश्वास-प्रस्तुतिः

कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा
तेजस्वी तुरगो जातः सिन्धुदेशे कृशोदरिः ॥ १२ ॥

मूलम्

कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा
तेजस्वी तुरगो जातः सिन्धुदेशे कृशोदरिः ॥ १२ ॥

विश्वास-प्रस्तुतिः

मूलेन बहुना क्रीत्वा हयतत्वविदा ततः
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना ॥ १३ ॥

मूलम्

मूलेन बहुना क्रीत्वा हयतत्वविदा ततः
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना ॥ १३ ॥

विश्वास-प्रस्तुतिः

राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम्
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् ॥ १४ ॥

मूलम्

राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम्
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् ॥ १४ ॥

विश्वास-प्रस्तुतिः

स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः
राज्ञोद्वारिस्थतस्तत्र प्रतीक्षंस्तत्समागमम् ॥ १५ ॥

मूलम्

स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः
राज्ञोद्वारिस्थतस्तत्र प्रतीक्षंस्तत्समागमम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत ॥ १६ ॥

मूलम्

ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत ॥ १६ ॥

विश्वास-प्रस्तुतिः

देव त्रिजगतीरत्नमिति मत्वा तुरङ्गमः
मया नियुतमूल्येन बहुना साधुलक्षणः ॥ १७ ॥

मूलम्

देव त्रिजगतीरत्नमिति मत्वा तुरङ्गमः
मया नियुतमूल्येन बहुना साधुलक्षणः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम्
समादिदेश वणिजमश्वोऽत्र नीयतामिति ॥ १८ ॥

मूलम्

ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम्
समादिदेश वणिजमश्वोऽत्र नीयतामिति ॥ १८ ॥

विश्वास-प्रस्तुतिः

शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम्
शूराणामपि चेतांसि मुहुरुत्साहयन्महान् ॥ १९ ॥

मूलम्

शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम्
शूराणामपि चेतांसि मुहुरुत्साहयन्महान् ॥ १९ ॥

विश्वास-प्रस्तुतिः

अखण्डमेदिनीवेगबहुसङ्क्रमणार्जितम्
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः ॥ २० ॥

मूलम्

अखण्डमेदिनीवेगबहुसङ्क्रमणार्जितम्
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः ॥ २० ॥

विश्वास-प्रस्तुतिः

उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः
विवृण्वन्नति तेजस्वी ह्रियेवनतकन्धरः ॥ २१ ॥

मूलम्

उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः
विवृण्वन्नति तेजस्वी ह्रियेवनतकन्धरः ॥ २१ ॥

विश्वास-प्रस्तुतिः

चामरैरिन्दुधवलैर्वीज्यमानो निरन्तरम्
दुग्धाम्भोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव ॥ २२ ॥

मूलम्

चामरैरिन्दुधवलैर्वीज्यमानो निरन्तरम्
दुग्धाम्भोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव ॥ २२ ॥

विश्वास-प्रस्तुतिः

नीलातपत्रयुगलं घनच्छायतुलश्रिया
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् ॥ २३ ॥

मूलम्

नीलातपत्रयुगलं घनच्छायतुलश्रिया
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

मेदिनीमण्डलस्पर्श सङ्क्रान्तमिव पावकम्
मुहुरुद्धरयन्धुन्वन्बन्धुरं कन्धरातटम् ॥ २४ ॥

मूलम्

मेदिनीमण्डलस्पर्श सङ्क्रान्तमिव पावकम्
मुहुरुद्धरयन्धुन्वन्बन्धुरं कन्धरातटम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम्
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः ॥ २५ ॥

मूलम्

दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम्
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः ॥ २६ ॥

मूलम्

सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः ॥ २६ ॥

विश्वास-प्रस्तुतिः

आनीतो वणिजा वाजी राज्ञा च समदृश्यत
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः ॥ २७ ॥

मूलम्

आनीतो वणिजा वाजी राज्ञा च समदृश्यत
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः ॥ २७ ॥

विश्वास-प्रस्तुतिः

यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः
जग्राह तुरगं वेगादसीमानन्दनिर्भरः ॥ २८ ॥

मूलम्

यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः
जग्राह तुरगं वेगादसीमानन्दनिर्भरः ॥ २८ ॥

विश्वास-प्रस्तुतिः

ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च
विसर्जितसभालोको गृहान्तरमगान्नृपः ॥ २९ ॥

मूलम्

ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च
विसर्जितसभालोको गृहान्तरमगान्नृपः ॥ २९ ॥

विश्वास-प्रस्तुतिः

अनेकधा समापृष्टो महीपालं रण्णाङ्गणे
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ॥ ३० ॥

मूलम्

अनेकधा समापृष्टो महीपालं रण्णाङ्गणे
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

एकदा मृगयां खेलन्कुतूहलरसात्मना
तमारुह्य महीपालो वनं प्रति विवेश ह ॥ ३१ ॥

मूलम्

एकदा मृगयां खेलन्कुतूहलरसात्मना
तमारुह्य महीपालो वनं प्रति विवेश ह ॥ ३१ ॥

विश्वास-प्रस्तुतिः

विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान्
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ॥ ३२ ॥

मूलम्

विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान्
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ॥ ३३ ॥

मूलम्

तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

गीतापञ्चदशाध्यायश्लोकार्द्धलिखितं ततः
पातितं मरुता तत्र यत्र खण्डे विलोकयत् ॥ ३४ ॥

मूलम्

गीतापञ्चदशाध्यायश्लोकार्द्धलिखितं ततः
पातितं मरुता तत्र यत्र खण्डे विलोकयत् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम्
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ॥ ३५ ॥

मूलम्

पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम्
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ततो ग्रन्थिं समाच्छिद्य पल्याणवतार्य च
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ॥ ३६ ॥

मूलम्

ततो ग्रन्थिं समाच्छिद्य पल्याणवतार्य च
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ततः सरभभेरुण्डो नृपमाभाष्य सुस्वरम्
दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ॥ ३७ ॥

मूलम्

ततः सरभभेरुण्डो नृपमाभाष्य सुस्वरम्
दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम्
पुन्नागकदलीचूतनारिकेलसमन्वितम् ॥ ३८ ॥

मूलम्

ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम्
पुन्नागकदलीचूतनारिकेलसमन्वितम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

द्राक्षेक्षुवाटिकापूगनागकेसरचम्पकम्
खेलत्करभसारङ्गं नृत्यत्केकिकुलं नृपः ॥ ३९ ॥

मूलम्

द्राक्षेक्षुवाटिकापूगनागकेसरचम्पकम्
खेलत्करभसारङ्गं नृत्यत्केकिकुलं नृपः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

प्रणिपत्य द्विजन्मानमुटजाभ्यन्तरस्थितम्
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ॥ ४० ॥

मूलम्

प्रणिपत्य द्विजन्मानमुटजाभ्यन्तरस्थितम्
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ॥ ४० ॥

विश्वास-प्रस्तुतिः

तुरगो निरगात्स्वर्गं हेतुना केन मे वद
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ॥ ४१ ॥

मूलम्

तुरगो निरगात्स्वर्गं हेतुना केन मे वद
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत्
अथ पञ्चदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ॥ ४२ ॥

मूलम्

कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत्
अथ पञ्चदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम्
ततः समागतैस्तत्र परिवारजनैर्वृतः ॥ ४३ ॥

मूलम्

ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम्
ततः समागतैस्तत्र परिवारजनैर्वृतः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः
पत्रं तदेव लिखितं गीतापञ्चदशाक्षरम् ॥ ४४ ॥

मूलम्

प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः
पत्रं तदेव लिखितं गीतापञ्चदशाक्षरम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वाचयन्स महीपालो हर्षसम्फुल्ललोचनः
अभिषिच्य निजं पुत्रं मन्त्रविन्मन्त्रिभिः समम् ॥ ४५ ॥

मूलम्

वाचयन्स महीपालो हर्षसम्फुल्ललोचनः
अभिषिच्य निजं पुत्रं मन्त्रविन्मन्त्रिभिः समम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ॥ ४६ ॥

मूलम्

सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ॥ ४६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीता-
माहात्म्ये एकोननवत्यधिकशततमोऽध्यायः १८९