१८८

ईश्वर उवाच-

विश्वास-प्रस्तुतिः

अतः परं प्रवक्ष्यामि भवानि भवमुक्तये
गीताचतुर्दशाध्यायमवधारय सुस्मिते ॥ १ ॥

मूलम्

अतः परं प्रवक्ष्यामि भवानि भवमुक्तये
गीताचतुर्दशाध्यायमवधारय सुस्मिते ॥ १ ॥

विश्वास-प्रस्तुतिः

मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमण्डलम्
राजधानी सरस्वत्या आस्ते चैव मनोहरा ॥ २ ॥

मूलम्

मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमण्डलम्
राजधानी सरस्वत्या आस्ते चैव मनोहरा ॥ २ ॥

विश्वास-प्रस्तुतिः

यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति
हंसमारुह्यमानापि सावित्रीप्रहतैरपि ॥ ३ ॥

मूलम्

यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति
हंसमारुह्यमानापि सावित्रीप्रहतैरपि ॥ ३ ॥

विश्वास-प्रस्तुतिः

सरस्वतीपदाम्भोज सेवामाश्रित्य कुङ्कुमैः
यत्र गौरवयन्त्याशा हंसपक्षपुटोद्भवैः ॥ ४ ॥

मूलम्

सरस्वतीपदाम्भोज सेवामाश्रित्य कुङ्कुमैः
यत्र गौरवयन्त्याशा हंसपक्षपुटोद्भवैः ॥ ४ ॥

विश्वास-प्रस्तुतिः

निरन्तरं तया चैव नृणां संस्कृतभाषिणाम्
सुपर्वाणमयी भाषा निमेषेणोपलभ्यते ॥ ५ ॥

मूलम्

निरन्तरं तया चैव नृणां संस्कृतभाषिणाम्
सुपर्वाणमयी भाषा निमेषेणोपलभ्यते ॥ ५ ॥

विश्वास-प्रस्तुतिः

प्रातर्गृहाङ्गणोद्भूतै र्यत्रकुङ्कुमपांसुलैः
सर्वतोरुणितच्छाय शशाङ्करविमण्डलम् ॥ ६ ॥

मूलम्

प्रातर्गृहाङ्गणोद्भूतै र्यत्रकुङ्कुमपांसुलैः
सर्वतोरुणितच्छाय शशाङ्करविमण्डलम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः
उद्यदुज्ज्वलबाणौघ खण्डितारातिमण्डलः ॥ ७ ॥

मूलम्

तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः
उद्यदुज्ज्वलबाणौघ खण्डितारातिमण्डलः ॥ ७ ॥

विश्वास-प्रस्तुतिः

अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः
नाम्ना विक्रमवेतालः कलानामपि शेवधिः ॥ ८ ॥

मूलम्

अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः
नाम्ना विक्रमवेतालः कलानामपि शेवधिः ॥ ८ ॥

विश्वास-प्रस्तुतिः

उभौ परस्परं मैत्रीं वर्द्धयाञ्चक्रतुः क्रमात्
तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः ॥ ९ ॥

मूलम्

उभौ परस्परं मैत्रीं वर्द्धयाञ्चक्रतुः क्रमात्
तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा
राजा विक्रमवेतालो विलोक्य शुनकीद्वयम् ॥ १० ॥

मूलम्

एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा
राजा विक्रमवेतालो विलोक्य शुनकीद्वयम् ॥ १० ॥

विश्वास-प्रस्तुतिः

मत्तमातङ्गतुरग मणिभूषणचामरम्
प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे ॥ ११ ॥

मूलम्

मत्तमातङ्गतुरग मणिभूषणचामरम्
प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे ॥ ११ ॥

विश्वास-प्रस्तुतिः

एकदा शिबिकारूढश्चारु चामरवीजितः
सुवर्णशृङ्खलारूढं वाद्यडिण्डिमडम्बरम् ॥ १२ ॥

मूलम्

एकदा शिबिकारूढश्चारु चामरवीजितः
सुवर्णशृङ्खलारूढं वाद्यडिण्डिमडम्बरम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

शुनीयुगलमादाय मृगया कौतुकोत्सुकः
राजा जगाम बाह्यालीं समं राजकुमारकैः ॥ १३ ॥

मूलम्

शुनीयुगलमादाय मृगया कौतुकोत्सुकः
राजा जगाम बाह्यालीं समं राजकुमारकैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

पणबन्धविधानेन समुपेतं शशामिषम्
तत्र राजकुमाराणां महान्कोलाहलोऽभवत् ॥ १४ ॥

मूलम्

पणबन्धविधानेन समुपेतं शशामिषम्
तत्र राजकुमाराणां महान्कोलाहलोऽभवत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततः समानवयसा केनचिद्राजसूनुना
बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी ॥ १५ ॥

मूलम्

ततः समानवयसा केनचिद्राजसूनुना
बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी ॥ १५ ॥

विश्वास-प्रस्तुतिः

ततोवतार्य दोलाया विरुदावलिगर्विताम्
धावतः शशकस्योच्चैः पृष्ठे मुञ्चन्नृपं शुनीम् ॥ १६ ॥

मूलम्

ततोवतार्य दोलाया विरुदावलिगर्विताम्
धावतः शशकस्योच्चैः पृष्ठे मुञ्चन्नृपं शुनीम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः
विरराम शुनीमुच्चैः सङ्कीर्त्य विरुदावलीम् ॥ १७ ॥

मूलम्

मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः
विरराम शुनीमुच्चैः सङ्कीर्त्य विरुदावलीम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम्
धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम् ॥ १८ ॥

मूलम्

अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम्
धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

पपात गर्ते महति शशकोऽतिश्रमादसौ
पतितोऽपि शुनी वश्यो नाभवच्छशशावकः ॥ १९ ॥

मूलम्

पपात गर्ते महति शशकोऽतिश्रमादसौ
पतितोऽपि शुनी वश्यो नाभवच्छशशावकः ॥ १९ ॥

विश्वास-प्रस्तुतिः

ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः
जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन् ॥ २० ॥

मूलम्

ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः
जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन् ॥ २० ॥

विश्वास-प्रस्तुतिः

ततः कथञ्चिदुप्लुत्य गच्छन्विस्खलयञ्छशः
राजपुत्रशुनक्यासौ गृहीतः कन्धरातटे ॥ २१ ॥

मूलम्

ततः कथञ्चिदुप्लुत्य गच्छन्विस्खलयञ्छशः
राजपुत्रशुनक्यासौ गृहीतः कन्धरातटे ॥ २१ ॥

विश्वास-प्रस्तुतिः

जितमस्माभिरत्यर्थमिति सञ्जल्पतां नृणाम्
कोलाहले शङ्किताया शुन्या निर्गतवान्मुखात् ॥ २२ ॥

मूलम्

जितमस्माभिरत्यर्थमिति सञ्जल्पतां नृणाम्
कोलाहले शङ्किताया शुन्या निर्गतवान्मुखात् ॥ २२ ॥

विश्वास-प्रस्तुतिः

ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः
क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः ॥ २३ ॥

मूलम्

ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः
क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः ॥ २३ ॥

विश्वास-प्रस्तुतिः

जिघ्रन्त्या राजशुन्याऽसौ भूभागं धनरोषया
दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत् ॥ २४ ॥

मूलम्

जिघ्रन्त्या राजशुन्याऽसौ भूभागं धनरोषया
दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः
चोली कपोलफलकान्चुबन्वाति समीरणः॥ २५ ॥

मूलम्

यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः
चोली कपोलफलकान्चुबन्वाति समीरणः॥ २५ ॥

विश्वास-प्रस्तुतिः

उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः
विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः ॥ २६ ॥

मूलम्

उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः
विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः ॥ २६ ॥

विश्वास-प्रस्तुतिः

नारिकेलफलैर्यत्र स्वयं निपतितैरधः
अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि ॥ २७ ॥

मूलम्

नारिकेलफलैर्यत्र स्वयं निपतितैरधः
अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि ॥ २७ ॥

विश्वास-प्रस्तुतिः

अपि केसरिणो यत्र खेलन्ति कलभैः समम्
फणिनः केकिबर्हेषु निर्विशङ्कं विशन्ति च ॥ २८ ॥

मूलम्

अपि केसरिणो यत्र खेलन्ति कलभैः समम्
फणिनः केकिबर्हेषु निर्विशङ्कं विशन्ति च ॥ २८ ॥

विश्वास-प्रस्तुतिः

यत्राश्रमान्तरे विप्रो वत्सनामा जितेन्द्रियः
शान्तश्चतुर्दशाध्यायं जपन्नास्ते निरन्तरम् ॥ २९ ॥

मूलम्

यत्राश्रमान्तरे विप्रो वत्सनामा जितेन्द्रियः
शान्तश्चतुर्दशाध्यायं जपन्नास्ते निरन्तरम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते
कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन् ॥ ३० ॥

मूलम्

तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते
कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन् ॥ ३० ॥

विश्वास-प्रस्तुतिः

ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः
दिव्यं विमानमारुह्य निर्ययौ शशको दिवम् ॥ ३१ ॥

मूलम्

ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः
दिव्यं विमानमारुह्य निर्ययौ शशको दिवम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ततः शुन्यपि लिप्ताङ्गीस्तोकैः कर्दमबिन्दुभिः
क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा ॥ ३२ ॥

मूलम्

ततः शुन्यपि लिप्ताङ्गीस्तोकैः कर्दमबिन्दुभिः
क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ततो दिव्याङ्गनारम्यं गन्धर्वैरुपशोभितम्
दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ ॥ ३३ ॥

मूलम्

ततो दिव्याङ्गनारम्यं गन्धर्वैरुपशोभितम्
दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ ॥ ३३ ॥

विश्वास-प्रस्तुतिः

ततो जहास मेधावी शिष्यो नाम्ना स्वकन्धरः
विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम् ॥ ३४ ॥

मूलम्

ततो जहास मेधावी शिष्यो नाम्ना स्वकन्धरः
विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः
प्रणम्य परया भक्त्या विनयैकपयोनिधिः ॥ ३५ ॥

मूलम्

राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः
प्रणम्य परया भक्त्या विनयैकपयोनिधिः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कथां कथय मे विप्र हीनयोनि निषेवितौ
अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ ॥ ३६ ॥

मूलम्

कथां कथय मे विप्र हीनयोनि निषेवितौ
अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शिष्य उवाच-
वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेन्द्रियः
चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् ॥ ३७ ॥

मूलम्

शिष्य उवाच-
वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेन्द्रियः
चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः
चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप ॥ ३८ ॥

मूलम्

शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः
चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मदीयचरणाम्भोजप्रक्षालनजले लुठन्
शशस्त्रिदिवमापन्नः शुनक्या सह भूपते ॥ ३९ ॥

मूलम्

मदीयचरणाम्भोजप्रक्षालनजले लुठन्
शशस्त्रिदिवमापन्नः शुनक्या सह भूपते ॥ ३९ ॥

विश्वास-प्रस्तुतिः

राजोवाच
हेतुना केन कथय हसितं च द्विजोत्तम
अतः किमपि साकूतं मन्यमानेन सादरम् ॥ ४० ॥

मूलम्

राजोवाच
हेतुना केन कथय हसितं च द्विजोत्तम
अतः किमपि साकूतं मन्यमानेन सादरम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

शिष्य उवाच
महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत्
तत्रासीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः ॥ ४१ ॥

मूलम्

शिष्य उवाच
महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत्
तत्रासीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

विलोभनाभवत्तस्य जाया स्वैरविहारिणी
तेन सा हन्यते क्रोधाद्वैरं सञ्चिन्त्य जन्मनः ॥ ४२ ॥

मूलम्

विलोभनाभवत्तस्य जाया स्वैरविहारिणी
तेन सा हन्यते क्रोधाद्वैरं सञ्चिन्त्य जन्मनः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ततः स्त्रीवधपापेन शशको जायते द्विजः
किल्बिषाच्छुनकी सापि जाता वञ्चनजन्मनः ॥ ४३ ॥

मूलम्

ततः स्त्रीवधपापेन शशको जायते द्विजः
किल्बिषाच्छुनकी सापि जाता वञ्चनजन्मनः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि
आसेदिवद्भ्यां बहुधा योन्यन्तरमपि क्वचित् ॥ ४४ ॥

मूलम्

पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि
आसेदिवद्भ्यां बहुधा योन्यन्तरमपि क्वचित् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः
गीतामभ्यस्य सकलामवाप परमां गतिम् ॥ ४५ ॥

मूलम्

इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः
गीतामभ्यस्य सकलामवाप परमां गतिम् ॥ ४५ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीता-
माहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः १८८