देव्युवाच
विश्वास-प्रस्तुतिः
द्वादशाध्यायमाहात्म्यं भवता कथितं मम
ब्रूहि त्रयोदशाध्यायमाहात्म्यमतिसुन्दरम् ॥ १ ॥
मूलम्

ईश्वर उवाच-
शृणु त्रयोदशाध्यायमहिमाम्भोनिधिं शिवे
यदाकर्णनमात्रेण परां मुदमवाप्स्यसि ॥ २ ॥

अस्ति दक्षिणदिङ्मार्गे तुङ्गभद्रा महानदी
तत्तटे नगरं रम्यं नाम्ना हरिहरं पुरम् ॥ ३ ॥

यत्राऽस्ते भगवान्देवि देवो हरिहरः स्वयम्
यस्य दर्शनमात्रेण परं कल्याणमाप्यते ॥ ४ ॥

तस्मिन्पुरे द्विजन्मासीद्धरिदीक्षितसञ्ज्ञिकः
तपः स्वाध्यायनिरतो श्रोत्रियो वेदपारगः ॥ ५ ॥

दुराचारेति तस्यासीद्भार्या नाम्ना च कर्मणा
न सुष्वाप समं पत्या दुरालापा कदाचन ॥ ६ ॥

क्षणमप्यात्मसदने न चास्ते स्वैरचारिणी
कण्ठदघ्नं द्विजद्वारे धयन्ती वारुणीरसम् ॥ ७ ॥

पतिसम्बधिनः सर्वान्तर्जयन्ती पुनः पुनः
विटैः सह सदोन्मत्ता रममाणा निरन्तरम् ॥ ८ ॥

कदचिद्व्याकुलं दृष्ट्वा पुरं पौरैरितस्ततः
सङ्केतगेहमकरोत्कान्तारे निर्जने स्वयम् ॥ ९ ॥

अथ तत्रैव सा धूर्ता रममाणा विटैः सह
निनाय सा बहून्कालान्निजयौवनगर्विता ॥ १० ॥

अथ तस्मिन्पुरे रम्ये निवसन्त्या निरङ्कुशम्
वसन्तकालं समभूत्परं चित्ते भुवः सखा ॥ ११ ॥

आमूलपल्लवाकीर्णं सहकारविकारिणा
पिकानां पञ्चमालापैः पुनः स जीवितः स्मरः ॥ १२ ॥

स्फुरच्चम्पकसौरभ्यहारकैर्मलयानिलैः
मन्दं मन्दं प्रसर्पद्भिरान्दोलितवनद्रुमः ॥ १३ ॥

उत्फुल्लमल्लिकामोद मदिरापारणावताम्
अलीनां कलटङ्कारैः समन्ताद्रावशोभितः ॥ १४ ॥

प्रसन्नचारुभिः स्मेरः सरोवरसुगन्धिभिः
मीलन्मरालनिवहैः सरोभिः प्रकटीकृतः ॥ १५ ॥

घनच्छायासुखासीन हरिणार्भकधारिभिः
नीरन्ध्रपल्लवैर्नानाशाखिभिः शोभितावनिः ॥ १६ ॥

तस्मिन्वसन्तसमये मुदिता साभिसारिका
अपश्यज्जगदानन्ददायिनीं चन्द्रिकां निशि ॥ १७ ॥

चञ्चच्चकोरचञ्च्वग्रगलत्पीयूषसीकराम्
द्रवदिन्दुशिलानिर्यत्सुधानिर्झरनिर्भराम् ॥ १८ ॥

विकाशिकुसुमक्रोडसान्द्रीभूतकरोत्कराम्
उल्लासितपयोराशिकल्लोलालिङ्गिताम्बराम् ॥ १९ ॥

मनोभवमहासिंहकुलटाकण्ठकर्तरीम्
घनान्धकारसन्दोहविदारणपटीयसीम् ॥ २० ॥
मूलम्
मनोभवमहासिंहकुलटाकण्ठकर्तरीम्
घनान्धकारसन्दोहविदारणपटीयसीम् ॥ २० ॥
विश्वास-प्रस्तुतिः
श्वेतीकृतसतीकारपरार्थहिमगर्भिणीम्
म्लानपङ्कजसङ्कोचा द्यूनामानन्ददायिनीम् ॥ २१ ॥

चक्रवाकवधूवक्त्र करुणाक्रोशसाक्षिणीम्
मुक्ताश्रेणीविशुद्धांशु प्रभासितदिगन्तराम् ॥ २२ ॥

अथ तस्यां प्रभूतायां पूरयन्त्या दिशो दश
कामान्धा कामिनीजाता पथिसौधविहारिणी ॥ २३ ॥

अपश्यन्ती विटान्रात्रौ निर्भिद्य भवनार्गलम्
ययौ सङ्केतभवनं निर्गत्य नगराद्बहिः ॥ २४ ॥

तत्र प्रियतमं कञ्चित्काममोहितमानसा
अन्वेषयन्ती नाद्राक्षीत्कुञ्जे कुञ्जे तरौ तरौ ॥ २५ ॥

आकर्णयन्ती कान्तस्य मन्दालापान्पदे पदे
अभियाति ततः क्रीडन्यत्र संहारिनिस्वनः ॥ २६ ॥

चक्रवाकरवान्श्रुत्वा कान्तालापभ्रमादसौ
सरोवराणि सर्वाणि पर्यटन्ती मुहुर्मुहुः ॥ २७ ॥

कान्तभ्रान्त्या तरुतले प्रसुप्तान्हरिणोत्करान्
प्रबोधयन्ती सोच्छ्वासमागतास्मीति भाषिणी ॥ २८ ॥

आलिङ्गन्ती वनस्थाणुं जीवनेश्वरशङ्कया
तदाननभ्रमाद्भूयं चुम्बन्ती विकचाम्बुजम् ॥ २९ ॥

तत्रतत्र कृतव्यर्थश्रमादृष्टप्रियास्वयम्
विललाप वने तस्मिन्मूर्च्छती विविधोक्तिभिः
हा कान्त हा गुणाक्रान्त मच्चैतन्यस्य नायक ॥ ३० ॥

हे मनोहरसौभाग्य भाग्यलावण्यशेवधे
हा पूर्णचन्द्रवदन हा सरोजायतेक्षण ॥ ३१ ॥

हा कान्ततत्वसौहित्य विश्रमाय सुरद्रुम
यदि कोपेन कुत्रापि गुह्यवेषोऽत्र तिष्ठसि ॥ ३२ ॥

प्रसादयामि त्वां कान्त दत्त्वा प्राणान्प्रियानपि
इत्युच्चैः सर्वतो दिक्षु विलपन्त्या वियोगतः ॥ ३३ ॥

तस्याः श्रुत्वा वचः कोऽपि सुप्तो व्याघ्रः प्रबुद्धवान्
कुर्वन्घुरघुरध्वानं पश्यन्प्रतिदिशं रुषा ॥ ३४ ॥

आस्फालयन्नखैर्भूमिं गर्जन्नाकाशगह्वरम्
पृष्ठनिर्भग्नलाङ्गूल द्रुतमुत्थाय वेगवान् ॥ ३५ ॥

गतो व्याघ्रः समुत्पत्य यत्रास्ते साभिसारिका
अथ सापि तमायान्तमालोक्य पतिशङ्कया ॥ ३६ ॥

निर्जगाम पुरः स्थातुं प्रेममनिर्भरमानसा
ततस्तस्यनखक्रीडाक्रूरतान्धीकृता सती ॥ ३७ ॥

जहौ प्रियवपुः शङ्कां श्रुत्वा गर्जितमूर्ज्जितम्
तथाविधापि सा नारी भ्रान्तिमुत्सृज्यसत्वरम् ॥ ३८ ॥

व्याघ्रत्वं तु कुतो हेतोर्मां निहन्तुमिहागतः
इदं सर्वं समाख्याहि यतस्त्वं हन्तुमिच्छसि ॥ ३९ ॥

इति तस्या वचः श्रुत्वा शार्दूलश्चण्डविक्रमः
क्षणं विहाय तद्ग्रासमुवाच प्रहसन्निव ॥ ४० ॥

मलापहा नदी नाम्ना देशे तिष्ठति दक्षिणे
नगरी मुनिपर्णेति तस्या रोधसि वर्तते ॥ ४१ ॥

तत्रास्ते भगवान्साक्षात्पञ्चलिङ्गो महेश्वरः
तस्यां पुर्यामहं विप्र पुत्रो भूत्वा स्थितस्ततः ॥ ४२ ॥

अयाज्यान्याजयन्नश्नन्नेकोद्दिष्टे नदी तटे
वेदपाठफलं शश्वद्विक्रीणन्धनकाङ्क्षया ॥ ४३ ॥

भिक्षुकानपरान्लोभात्तिरस्कुर्वन्दुरुक्तिभिः
अदेयद्रविणं गृह्णन्नदत्तमनिशं दिनम् ॥ ४४ ॥

छलयन्सकलांल्लोकान्क्षणग्रहणकौतुकात्
ततः कतिपये काले जरठत्वमुपागतः ॥ ४५ ॥
मूलम्
छलयन्सकलांल्लोकान्क्षणग्रहणकौतुकात्
ततः कतिपये काले जरठत्वमुपागतः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वलीपलितवानन्धः प्रपतन्प्रस्खलद्गतिः
पतद्दन्तोभवं भूयः प्रतिग्रहपरायणः ॥ ४६ ॥

हस्ते गृहीत दर्भोऽहमगमं तीर्थसन्निधिम्
धनग्रहणलोभेन भ्रमन्पर्वसु पर्वसु ॥ ४७ ॥
मूलम्
हस्ते गृहीत दर्भोऽहमगमं तीर्थसन्निधिम्
धनग्रहणलोभेन भ्रमन्पर्वसु पर्वसु ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ततोऽहं शिथिलाङ्गः सन्कञ्चिद्भूनिर्जरालयम्
गतवान्याचितं भोक्तुं दष्टो मध्ये पदे शुना ॥ ४८ ॥

अपतं मूर्छितो भूत्वा ततः क्षितितले क्षणात्
ततोऽहं गलितप्राणो व्याघ्रयोनिमुपागतः ॥ ४९ ॥

अत्र तिष्ठामि कान्तारे पूर्वपापमनुस्मरन्
न भक्षयामि धर्मिष्ठान्मुनीन्साधुजनान्सतीः 6.187.॥ ५० ॥

किन्तु पापान्दुराचारनसतीर्भक्षयाम्यहम्
अतोऽसतित्वं तत्वेन ममैव कवलायसे ॥ ५१ ॥
मूलम्
किन्तु पापान्दुराचारनसतीर्भक्षयाम्यहम्
अतोऽसतित्वं तत्वेन ममैव कवलायसे ॥ ५१ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा स्वैर्नखैः कूरैस्तां विभज्याङ्गखण्डशः
अथतां भक्षितां तेन पापदेहमुपाश्रिताम् ॥ ५२ ॥

यमस्य किङ्करा निन्युः सद्यः संयमनीं पुरीम्
यमादेशेन तत्रापि पातयामासुराशु ताम् ॥ ५३ ॥

विण्मूत्ररक्तपूर्णेषु घोरकुण्डेष्वनेकधा
कल्पकोटिषु पीतासु तस्मादानीय तां मुहुः ॥ ५४ ॥

रौरवे स्थापयामासुर्मन्वन्तरशतावधि
ततोप्याकृष्य तां दीनां रुदतीं सर्वतोमुखीम् ॥ ५५ ॥

मुक्तकेशां भग्नगात्रां चिक्षिपुर्दहनानने
एवं पापपरां घोरां भुक्त्वा नरकयातनाम् ॥ ५६ ॥

इह जाता महापापात्पुनः श्वपचयोनिषु
ततः श्वपचगेहेऽपि वर्द्धमाना दिनेदिने ॥ ५७ ॥

पूर्वजन्मवशेनैव तथैवासीद्यथा पुरा
ततः कतिपये काले पुनः स्वम्भवनंययौ ॥ ५८ ॥

यत्रास्ते जृम्भकादेवी शिवस्यान्तः पुरेश्वरी
तत्रापश्यद्द्विजन्मानं वासुदेवाभिधं शुचिम् ॥ ५९ ॥

गीतात्रयोदशाध्यायमुद्गिरन्तमनारतम्
ततस्तच्छ्रवणादेव मुक्ता श्वपचविग्रहात् ॥ ६० ॥

दिव्यं देहं समासाद्य जगाम त्रिदशालयम् ॥ ६१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीता-
माहात्म्ये सप्ताशीत्यधिकशततमोऽध्यायः १८७