१८६

महादेव उवाच-

विश्वास-प्रस्तुतिः

अस्ति कोल्हापुरं नाम नगरं दक्षिणापथे
सुखानां सदनं साध्वि साधूनां सिद्धिसम्भवम् ॥ १ ॥

मूलम्

अस्ति कोल्हापुरं नाम नगरं दक्षिणापथे
सुखानां सदनं साध्वि साधूनां सिद्धिसम्भवम् ॥ १ ॥

विश्वास-प्रस्तुतिः

परशक्तेः परम्पीठं सर्वदेवनिषेवितम्
पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम् ॥ २ ॥

मूलम्

परशक्तेः परम्पीठं सर्वदेवनिषेवितम्
पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम् ॥ २ ॥

विश्वास-प्रस्तुतिः

कोटिशस्तत्र तीर्थानि शिवलिगानि कोटिशः
आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम् ॥ ३ ॥

मूलम्

कोटिशस्तत्र तीर्थानि शिवलिगानि कोटिशः
आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तुङ्गाचलमहावप्र गोपुरोल्लासितोरणम्
प्रासादशिखरे यत्र तुङ्गं च कनकध्वजम् ॥ ४ ॥

मूलम्

तुङ्गाचलमहावप्र गोपुरोल्लासितोरणम्
प्रासादशिखरे यत्र तुङ्गं च कनकध्वजम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सोमकान्तिमहासौधवलभीपङ्क्तिशोभितम्
जालरन्ध्रोद्गिरद्धूपधूमाऽमोदितदिक्तटम् ॥ ५ ॥

मूलम्

सोमकान्तिमहासौधवलभीपङ्क्तिशोभितम्
जालरन्ध्रोद्गिरद्धूपधूमाऽमोदितदिक्तटम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

चलत्पताकविस्तीर्णच्छायं देवालयान्वितम्
चतुरैः सुन्दरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः ॥ ६ ॥

मूलम्

चलत्पताकविस्तीर्णच्छायं देवालयान्वितम्
चतुरैः सुन्दरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः ॥ ६ ॥

विश्वास-प्रस्तुतिः

अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः
कुरङ्गनयनाश्चन्द्रवदनाः कुटिलालकाः ॥ ७ ॥

मूलम्

अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः
कुरङ्गनयनाश्चन्द्रवदनाः कुटिलालकाः ॥ ७ ॥

विश्वास-प्रस्तुतिः

उत्फुल्लचम्पकच्छायाः पीनतुङ्गपयोधराः
कृशमध्या निम्ननाभि वलित्रयविराजिताः ॥ ८ ॥

मूलम्

उत्फुल्लचम्पकच्छायाः पीनतुङ्गपयोधराः
कृशमध्या निम्ननाभि वलित्रयविराजिताः ॥ ८ ॥

विश्वास-प्रस्तुतिः

विशालजघनाश्चारुजङ्घा युग्मा वराङ्घ्रयः
वाचालमेखलादामनिक्वणन्मणिनूपुराः ॥ ९ ॥

मूलम्

विशालजघनाश्चारुजङ्घा युग्मा वराङ्घ्रयः
वाचालमेखलादामनिक्वणन्मणिनूपुराः ॥ ९ ॥

विश्वास-प्रस्तुतिः

रणत्कङ्कणहस्ताब्ज स्फुरत्करज रश्मयः
वसन्ति प्रमदा यत्र मादयन्त्यो मुनीनपि ॥ १० ॥

मूलम्

रणत्कङ्कणहस्ताब्ज स्फुरत्करज रश्मयः
वसन्ति प्रमदा यत्र मादयन्त्यो मुनीनपि ॥ १० ॥

विश्वास-प्रस्तुतिः

समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम्
मङ्गलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् ॥ ११ ॥

मूलम्

समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम्
मङ्गलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

तत्रागच्छत्पुमान्कश्चिद्युवा गौरं सुलोचनः
कम्बुकण्ठः पृथुस्कन्धो महावक्षा महाभुजः ॥ १२ ॥

मूलम्

तत्रागच्छत्पुमान्कश्चिद्युवा गौरं सुलोचनः
कम्बुकण्ठः पृथुस्कन्धो महावक्षा महाभुजः ॥ १२ ॥

विश्वास-प्रस्तुतिः

समस्तलक्षणोपेतो गोचरासक्तमानसः
प्रविश्य नगरं पश्यन्शोभां सौधेषु सर्वतः ॥ १३ ॥

मूलम्

समस्तलक्षणोपेतो गोचरासक्तमानसः
प्रविश्य नगरं पश्यन्शोभां सौधेषु सर्वतः ॥ १३ ॥

विश्वास-प्रस्तुतिः

उत्कण्ठितमना द्रष्टुम्महालक्ष्मीं सुरेश्वरीम्
मणिकुण्डे कृतः स्नानः सम्पन्न पितॄतर्पणः ॥ १४ ॥

मूलम्

उत्कण्ठितमना द्रष्टुम्महालक्ष्मीं सुरेश्वरीम्
मणिकुण्डे कृतः स्नानः सम्पन्न पितॄतर्पणः ॥ १४ ॥

विश्वास-प्रस्तुतिः

महालक्ष्मीं महामायां नत्वा तुष्टाव भक्तितः
जयत्यपारकरुणाशरण्या जगदम्बिका ॥ १५ ॥

मूलम्

महालक्ष्मीं महामायां नत्वा तुष्टाव भक्तितः
जयत्यपारकरुणाशरण्या जगदम्बिका ॥ १५ ॥

विश्वास-प्रस्तुतिः

कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा
यया शक्त्या कृतादिष्टः परमेष्ठी सृजत्यसौ ॥ १६ ॥

मूलम्

कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा
यया शक्त्या कृतादिष्टः परमेष्ठी सृजत्यसौ ॥ १६ ॥

विश्वास-प्रस्तुतिः

अवष्टभ्य च तां शक्तिं पालयत्यच्युतो जगत्
यया शक्त्या कृतावेशः संहरत्यखिलं हरः ॥ १७ ॥

मूलम्

अवष्टभ्य च तां शक्तिं पालयत्यच्युतो जगत्
यया शक्त्या कृतावेशः संहरत्यखिलं हरः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम्
योगिध्येयाङ्घ्रिकमले कमले कमलालये ॥ १८ ॥

मूलम्

तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम्
योगिध्येयाङ्घ्रिकमले कमले कमलालये ॥ १८ ॥

विश्वास-प्रस्तुतिः

स्वभावानखिलान्नस्त्वं गृह्णासीन्द्रियगोचरान्
त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः ॥ १९ ॥

मूलम्

स्वभावानखिलान्नस्त्वं गृह्णासीन्द्रियगोचरान्
त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः ॥ १९ ॥

विश्वास-प्रस्तुतिः

इच्छाज्ञानक्रियारूपा परसंवित्स्वरूपिणी
निष्फला निर्मला नित्या निराकारा निरञ्जना ॥ २० ॥

मूलम्

इच्छाज्ञानक्रियारूपा परसंवित्स्वरूपिणी
निष्फला निर्मला नित्या निराकारा निरञ्जना ॥ २० ॥

विश्वास-प्रस्तुतिः

निरन्तरा निरातङ्का निरालम्बा निरामया
तवैवं महिमानं हि को वर्णयितुमीशते ॥ २१ ॥

मूलम्

निरन्तरा निरातङ्का निरालम्बा निरामया
तवैवं महिमानं हि को वर्णयितुमीशते ॥ २१ ॥

विश्वास-प्रस्तुतिः

वन्दे निर्भिन्नषट्चक्रद्वादशान्तर्विहारिणीम्
अनाहतध्वनिमयीं बिन्दुनादकलात्मिकाम् ॥ २२ ॥

मूलम्

वन्दे निर्भिन्नषट्चक्रद्वादशान्तर्विहारिणीम्
अनाहतध्वनिमयीं बिन्दुनादकलात्मिकाम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

मातस्त्वं पूर्णशीतांशु गलत्पीयूषवाहिनी
पुष्णासि वत्सले बालान्सनकादीन्दिगम्बरान् ॥ २३ ॥

मूलम्

मातस्त्वं पूर्णशीतांशु गलत्पीयूषवाहिनी
पुष्णासि वत्सले बालान्सनकादीन्दिगम्बरान् ॥ २३ ॥

विश्वास-प्रस्तुतिः

अनुस्यूता शिवा संविज्जाग्रत्स्वप्नसुषुप्तिषु
तुरीयायां वर्त्तमानां दयासूनृतसन्धिषु ॥ २४ ॥

मूलम्

अनुस्यूता शिवा संविज्जाग्रत्स्वप्नसुषुप्तिषु
तुरीयायां वर्त्तमानां दयासूनृतसन्धिषु ॥ २४ ॥

विश्वास-प्रस्तुतिः

ददासि प्राणिनां सर्वाः सततं ब्रह्मसम्पदः
संहृत्य तत्वसङ्घातं तुरीयातीतया त्वया ॥ २५ ॥

मूलम्

ददासि प्राणिनां सर्वाः सततं ब्रह्मसम्पदः
संहृत्य तत्वसङ्घातं तुरीयातीतया त्वया ॥ २५ ॥

विश्वास-प्रस्तुतिः

योगिनां बिम्बतादत्म्यं दीयते निर्विकल्पया
परां नमामि पश्यन्तीं मध्यमां वैखरीमपि ॥ २६ ॥

मूलम्

योगिनां बिम्बतादत्म्यं दीयते निर्विकल्पया
परां नमामि पश्यन्तीं मध्यमां वैखरीमपि ॥ २६ ॥

विश्वास-प्रस्तुतिः

रूपाणि देवि गृह्णासि जगत्सन्त्राणहेतवे
त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमम्बिके ॥ २७ ॥

मूलम्

रूपाणि देवि गृह्णासि जगत्सन्त्राणहेतवे
त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमम्बिके ॥ २७ ॥

विश्वास-प्रस्तुतिः

वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैन्द्रिका
त्वं कौमारी चण्डिका त्वं लक्ष्मीस्त्वं विश्वपावनी ॥ २८ ॥

मूलम्

वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैन्द्रिका
त्वं कौमारी चण्डिका त्वं लक्ष्मीस्त्वं विश्वपावनी ॥ २८ ॥

विश्वास-प्रस्तुतिः

सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी
त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी ॥ २९ ॥

मूलम्

सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी
त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी ॥ २९ ॥

विश्वास-प्रस्तुतिः

चण्डमुण्डभुजादण्डखण्डदोर्दण्डमण्डिते
रक्तबीजगलद्रक्तपानघूर्णितलोचने ॥ ३० ॥

मूलम्

चण्डमुण्डभुजादण्डखण्डदोर्दण्डमण्डिते
रक्तबीजगलद्रक्तपानघूर्णितलोचने ॥ ३० ॥

विश्वास-प्रस्तुतिः

उन्मत्तमहिषग्रीवोन्मूलनप्रौढ दोर्युगे
शुम्भासुरमहादैत्यदारणायातविक्रमे ॥ ३१ ॥

मूलम्

उन्मत्तमहिषग्रीवोन्मूलनप्रौढ दोर्युगे
शुम्भासुरमहादैत्यदारणायातविक्रमे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

अनन्तचरिते तुभ्यं नमस्त्रैलोक्यमातृके
भक्तकल्पलते मह्यं प्रसीद परमेश्वरि ॥ ३२ ॥

मूलम्

अनन्तचरिते तुभ्यं नमस्त्रैलोक्यमातृके
भक्तकल्पलते मह्यं प्रसीद परमेश्वरि ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम्
निजरूपं समास्थाय पुरुषं प्रत्युवाच तम् ॥ ३३ ॥

मूलम्

इति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम्
निजरूपं समास्थाय पुरुषं प्रत्युवाच तम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

श्रीलक्ष्मीरुवाच-
राजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम्
राजपुत्र उवाच
पिता मे धरणीपालो वाजिमेधं महाक्रतुम् ॥ ३४ ॥

मूलम्

श्रीलक्ष्मीरुवाच-
राजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम्
राजपुत्र उवाच
पिता मे धरणीपालो वाजिमेधं महाक्रतुम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

कुर्वाणो दैवयोगेन रोगाक्रान्तो दिवं ययौ
तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः ॥ ३५ ॥

मूलम्

कुर्वाणो दैवयोगेन रोगाक्रान्तो दिवं ययौ
तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स्थापितस्तत्र यागोऽसौ यथापूर्वमवर्तत
अथ क्रान्तमहीचक्रो यूपे यागतुरङ्गमः ॥ ३६ ॥

मूलम्

स्थापितस्तत्र यागोऽसौ यथापूर्वमवर्तत
अथ क्रान्तमहीचक्रो यूपे यागतुरङ्गमः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

निशीथे बन्धनं हित्वा नीतः केनापि कुत्रचित्
अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम् ॥ ३७ ॥

मूलम्

निशीथे बन्धनं हित्वा नीतः केनापि कुत्रचित्
अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आमन्त्र्य ऋत्विजः सर्वाञ्छरणं त्वामुपागतः
प्रसन्ना यदि देवि त्वं तन्मे यागतुरङ्गमः ॥ ३८ ॥

मूलम्

आमन्त्र्य ऋत्विजः सर्वाञ्छरणं त्वामुपागतः
प्रसन्ना यदि देवि त्वं तन्मे यागतुरङ्गमः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

दृष्टो भवतु यागोऽसौ सम्पूर्णो जायते यथा
आनृण्यं मम तातस्य तेन राज्ञो भविष्यति ॥ ३९ ॥

मूलम्

दृष्टो भवतु यागोऽसौ सम्पूर्णो जायते यथा
आनृण्यं मम तातस्य तेन राज्ञो भविष्यति ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तथा कुरु जगद्धात्रि शरणागतवत्सले
देव्युवाच
ममद्वारं द्विजः सिद्धसमाधिरिति विश्रुतः ॥ ४० ॥

मूलम्

तथा कुरु जगद्धात्रि शरणागतवत्सले
देव्युवाच
ममद्वारं द्विजः सिद्धसमाधिरिति विश्रुतः ॥ ४० ॥

विश्वास-प्रस्तुतिः

ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति
इत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः ॥ ४१ ॥

मूलम्

ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति
इत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति
प्रणम्य तस्यपादाब्जं कृताञ्जलिरवस्थितः ॥ ४२ ॥

मूलम्

आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति
प्रणम्य तस्यपादाब्जं कृताञ्जलिरवस्थितः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तमुवाच ततो विप्रः प्रहितोऽसि त्वमम्बया
त्वदीप्सितमिदं सर्वं साधयामि विलोकय ॥ ४३ ॥

मूलम्

तमुवाच ततो विप्रः प्रहितोऽसि त्वमम्बया
त्वदीप्सितमिदं सर्वं साधयामि विलोकय ॥ ४३ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मान्त्रिकः
एक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान् ॥ ४४ ॥

मूलम्

इत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मान्त्रिकः
एक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

कृताञ्जलिपुटान्देवान्वेपमानकलेवरान्
अथ तानमरान्सर्वान्सम्बभाषे द्विजोत्तमः ॥ ४५ ॥

मूलम्

कृताञ्जलिपुटान्देवान्वेपमानकलेवरान्
अथ तानमरान्सर्वान्सम्बभाषे द्विजोत्तमः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः
नीतोस्ति देवराजेन क्षपायामपहृत्य सः ॥ ४६ ॥

मूलम्

अमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः
नीतोस्ति देवराजेन क्षपायामपहृत्य सः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

गीर्वाणा अश्वमेवास्य समानयत मा चिरम्
अथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरङ्गमः ॥ ४७ ॥

मूलम्

गीर्वाणा अश्वमेवास्य समानयत मा चिरम्
अथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरङ्गमः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

समर्पितस्ततस्तेन तेऽनुज्ञात्वा दिवौकसः
आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरङ्गमम् ॥ ४८ ॥

मूलम्

समर्पितस्ततस्तेन तेऽनुज्ञात्वा दिवौकसः
आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरङ्गमम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीत्
आश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम ॥ ४९ ॥

मूलम्

महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीत्
आश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणात्
हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरङ्गमः 6.186.॥ ५० ॥

मूलम्

कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणात्
हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरङ्गमः 6.186.॥ ५० ॥

विश्वास-प्रस्तुतिः

न किञ्चिदपरं यावद्दुष्करं यत्सुरैरपि
प्रभविष्यति तत्कर्तुं भवानेव न चापरः ॥ ५१ ॥

मूलम्

न किञ्चिदपरं यावद्दुष्करं यत्सुरैरपि
प्रभविष्यति तत्कर्तुं भवानेव न चापरः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शृणु विप्र महीपाल पितासीन्मेबृहद्रथः
प्रारब्ध हयमेधोऽसौ दैवेन निधनं गतः ॥ ५२ ॥

मूलम्

शृणु विप्र महीपाल पितासीन्मेबृहद्रथः
प्रारब्ध हयमेधोऽसौ दैवेन निधनं गतः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अद्यापि तस्य देहोस्ति तप्ततैलेन शोषितः
तस्य सञ्जीवनं भूयः कर्त्तुमर्हसि सत्तम ॥ ५३ ॥

मूलम्

अद्यापि तस्य देहोस्ति तप्ततैलेन शोषितः
तस्य सञ्जीवनं भूयः कर्त्तुमर्हसि सत्तम ॥ ५३ ॥

विश्वास-प्रस्तुतिः

इत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः
यामस्तत्र पिता यत्र तावको यागमण्डपः ॥ ५४ ॥

मूलम्

इत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः
यामस्तत्र पिता यत्र तावको यागमण्डपः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

अथागत्य समं तेन तत्र सिद्धः समाधिना
पयोऽभिमन्त्र्य विदधे तस्य प्रेतस्य मूर्द्धनि ॥ ५५ ॥

मूलम्

अथागत्य समं तेन तत्र सिद्धः समाधिना
पयोऽभिमन्त्र्य विदधे तस्य प्रेतस्य मूर्द्धनि ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ततः प्राप नृपः सञ्ज्ञामुत्तस्थे वै ददर्श च
स तं पप्रच्छ विप्रेन्द्रं कोऽसि धर्मेति भूपतिः ॥ ५६ ॥

मूलम्

ततः प्राप नृपः सञ्ज्ञामुत्तस्थे वै ददर्श च
स तं पप्रच्छ विप्रेन्द्रं कोऽसि धर्मेति भूपतिः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ततो राजसुतः सर्वं भूपालाय न्यवेदयत्
स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम् ॥ ५७ ॥

मूलम्

ततो राजसुतः सर्वं भूपालाय न्यवेदयत्
स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी
यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः ॥ ५८ ॥

मूलम्

बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी
यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

यागश्चोद्धरितो विप्र येनमेतन्निरूपय
इत्युक्तस्तेनविप्रोऽसौ जगाद श्लक्ष्णया गिरा ॥ ५९ ॥

मूलम्

यागश्चोद्धरितो विप्र येनमेतन्निरूपय
इत्युक्तस्तेनविप्रोऽसौ जगाद श्लक्ष्णया गिरा ॥ ५९ ॥

विश्वास-प्रस्तुतिः

गीतानां द्वादशाध्यायं जपाम्यहमतन्द्रितः
तेन शक्तिरियं राजन्यया प्राप्तोसि जीवितम् ॥ ६० ॥

मूलम्

गीतानां द्वादशाध्यायं जपाम्यहमतन्द्रितः
तेन शक्तिरियं राजन्यया प्राप्तोसि जीवितम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

एतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम्
पपाठ तस्माद्विप्रर्षेः सकाशात्ब्राह्मणान्वितम् ॥ ६१ ॥

मूलम्

एतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम्
पपाठ तस्माद्विप्रर्षेः सकाशात्ब्राह्मणान्वितम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तस्याध्यायस्य माहत्म्यात्ते सर्वे सद्गतिं ययुः
अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम् ॥ ६२ ॥

मूलम्

तस्याध्यायस्य माहत्म्यात्ते सर्वे सद्गतिं ययुः
अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम् ॥ ६२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीतामाहात्म्ये षडशीत्यधिकशततमोऽध्यायः १८६