देव्युवाच
विश्वास-प्रस्तुतिः
इतिहासोऽयमीशान श्रेयसां साधनं परम्
आकर्ण्य करुणापूर्ण ममकाङ्क्षा प्रवर्त्तते ॥ १ ॥
मूलम्
इतिहासोऽयमीशान श्रेयसां साधनं परम्
आकर्ण्य करुणापूर्ण ममकाङ्क्षा प्रवर्त्तते ॥ १ ॥
विश्वास-प्रस्तुतिः
एकादशस्य माहात्म्यमध्यायस्य कथाश्रयम्
व्यावर्णय विरूपाक्ष वक्तॄणां प्रथम प्रभो ॥ २ ॥
मूलम्
एकादशस्य माहात्म्यमध्यायस्य कथाश्रयम्
व्यावर्णय विरूपाक्ष वक्तॄणां प्रथम प्रभो ॥ २ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
आकर्णय कथां कान्ते गीतावर्णनसंश्रयाम्
विश्वरूपाभिधानस्य माहात्म्यमपि पावनम् ॥ ३ ॥
मूलम्
ईश्वर उवाच-
आकर्णय कथां कान्ते गीतावर्णनसंश्रयाम्
विश्वरूपाभिधानस्य माहात्म्यमपि पावनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते
सहस्राणि कथाः सन्ति तत्रैका कथ्यते मया ॥ ४ ॥
मूलम्
अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते
सहस्राणि कथाः सन्ति तत्रैका कथ्यते मया ॥ ४ ॥
विश्वास-प्रस्तुतिः
प्रणीतायास्तटे नद्या मेघङ्करमिति श्रुतम्
नगरं गरिमाधार तुङ्गप्राकारगोपुरम् ॥ ५ ॥
मूलम्
प्रणीतायास्तटे नद्या मेघङ्करमिति श्रुतम्
नगरं गरिमाधार तुङ्गप्राकारगोपुरम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
विशालाश्रमशालासु स्वर्णस्तम्भविभूषितम्
श्रीमद्भिः सुखिभिः शान्तैः सदाचारैर्जितेन्द्रियैः ॥ ६ ॥
मूलम्
विशालाश्रमशालासु स्वर्णस्तम्भविभूषितम्
श्रीमद्भिः सुखिभिः शान्तैः सदाचारैर्जितेन्द्रियैः ॥ ६ ॥
विश्वास-प्रस्तुतिः
अधिष्ठितं जवैश्चारुशृङ्गाटकमनोहरम्
मणिस्तम्भस्फुरत्स्वर्णापणचत्वरशोभितम् ॥ ७ ॥
मूलम्
अधिष्ठितं जवैश्चारुशृङ्गाटकमनोहरम्
मणिस्तम्भस्फुरत्स्वर्णापणचत्वरशोभितम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
पताकाकिङ्किणीक्वाण कदम्बक कलस्वरम्
वेदाध्ययननिर्घोषवाचालित दिगन्तरम् ॥ ८ ॥
मूलम्
पताकाकिङ्किणीक्वाण कदम्बक कलस्वरम्
वेदाध्ययननिर्घोषवाचालित दिगन्तरम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तूर्यसङ्घोषणाकीर्ण विशालव्योममण्डलम्
पताकापल्लोद्भूतवातनिर्जितविग्रहम् ॥ ९ ॥
मूलम्
तूर्यसङ्घोषणाकीर्ण विशालव्योममण्डलम्
पताकापल्लोद्भूतवातनिर्जितविग्रहम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
राजामार्गवरद्वारनारीमञ्जीरसिञ्जितैः
वल्लकीवेणुकैर्गीतेर्भाति वाजीन्द्र हेषितैः ॥ १० ॥
मूलम्
राजामार्गवरद्वारनारीमञ्जीरसिञ्जितैः
वल्लकीवेणुकैर्गीतेर्भाति वाजीन्द्र हेषितैः ॥ १० ॥
विश्वास-प्रस्तुतिः
प्रेक्षमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम्
आस्ते जगत्पतिर्यत्र शार्ङ्गपाणिर्विराजितः ॥ ११ ॥
मूलम्
प्रेक्षमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम्
आस्ते जगत्पतिर्यत्र शार्ङ्गपाणिर्विराजितः ॥ ११ ॥
विश्वास-प्रस्तुतिः
मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितम्
लक्ष्मीनयनराजीव पूजिताकारगौरवः ॥ १२ ॥
मूलम्
मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितम्
लक्ष्मीनयनराजीव पूजिताकारगौरवः ॥ १२ ॥
विश्वास-प्रस्तुतिः
त्रिविक्रमवपुर्मेघश्यामलः कोमलद्युति
श्रीवत्सवक्षाराजीव वनमालाविभूषितः ॥ १३ ॥
मूलम्
त्रिविक्रमवपुर्मेघश्यामलः कोमलद्युति
श्रीवत्सवक्षाराजीव वनमालाविभूषितः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अनेकभूषणोपेतः सरत्न इव वारिधिः
चलत्सौदामिनीदाम सान्द्रमेघसमद्युतिः ॥ १४ ॥
मूलम्
अनेकभूषणोपेतः सरत्न इव वारिधिः
चलत्सौदामिनीदाम सान्द्रमेघसमद्युतिः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्यास्ते मुकुटे साक्षात्शार्ङ्गपाणिः परः पुमान्
तं दृष्ट्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १५ ॥
मूलम्
तस्यास्ते मुकुटे साक्षात्शार्ङ्गपाणिः परः पुमान्
तं दृष्ट्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १५ ॥
विश्वास-प्रस्तुतिः
यस्मिन्पुरे महातीर्थं विद्यते मेखलाभिधम्
यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदम् ॥ १६ ॥
मूलम्
यस्मिन्पुरे महातीर्थं विद्यते मेखलाभिधम्
यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवम्
सप्तजन्मार्जिताद्धोरान्मुच्यते दुष्कृतान्नरः ॥ १७ ॥
मूलम्
तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवम्
सप्तजन्मार्जिताद्धोरान्मुच्यते दुष्कृतान्नरः ॥ १७ ॥
विश्वास-प्रस्तुतिः
मेखलायां गणाधीशं विलोकयति यो नरः
स निस्तरति विघ्नानि दुस्तराण्यपि सर्वदा
ब्रह्मचर्यपरो दान्तो निर्ममो निरहङ्कृतिः ॥ १८ ॥
मूलम्
मेखलायां गणाधीशं विलोकयति यो नरः
स निस्तरति विघ्नानि दुस्तराण्यपि सर्वदा
ब्रह्मचर्यपरो दान्तो निर्ममो निरहङ्कृतिः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्मिन्मेघङ्करे कश्चिदभूद्ब्राह्मणसत्तमः
सुनन्द इति विख्यातो वेदशास्त्रविशारदः ॥ १९ ॥
मूलम्
तस्मिन्मेघङ्करे कश्चिदभूद्ब्राह्मणसत्तमः
सुनन्द इति विख्यातो वेदशास्त्रविशारदः ॥ १९ ॥
विश्वास-प्रस्तुतिः
वशीकृतेन्न्द्रियग्रामो वासुदेवपरायणः
देवस्य शार्ङ्गिणः पार्श्वे गीताध्यायमिमं प्रिये ॥ २० ॥
मूलम्
वशीकृतेन्न्द्रियग्रामो वासुदेवपरायणः
देवस्य शार्ङ्गिणः पार्श्वे गीताध्यायमिमं प्रिये ॥ २० ॥
विश्वास-प्रस्तुतिः
एकादशं पठत्येष विश्वरूपप्रदर्शनम्
अध्यायस्य प्रभावेन ब्रह्मज्ञानमवाप सः ॥ २१ ॥
मूलम्
एकादशं पठत्येष विश्वरूपप्रदर्शनम्
अध्यायस्य प्रभावेन ब्रह्मज्ञानमवाप सः ॥ २१ ॥
विश्वास-प्रस्तुतिः
परमानन्दसन्दोह श्लाघ्यसंवित्समाधिना
प्रत्यङ्मुखेन्द्रियतयानिश्चलां स्थितिमीयुषा ॥ २२ ॥
मूलम्
परमानन्दसन्दोह श्लाघ्यसंवित्समाधिना
प्रत्यङ्मुखेन्द्रियतयानिश्चलां स्थितिमीयुषा ॥ २२ ॥
विश्वास-प्रस्तुतिः
सततं स्थीयते तेन जीवन्मुक्तेन योगिना
एकदा स महायोगी सिंहराशिस्थिते गुरौ ॥ २३ ॥
मूलम्
सततं स्थीयते तेन जीवन्मुक्तेन योगिना
एकदा स महायोगी सिंहराशिस्थिते गुरौ ॥ २३ ॥
विश्वास-प्रस्तुतिः
गोदावरीतीर्थयात्रां विधातुमुपचक्रमे
प्रथमेऽह्नि समागत्य विरजं तीर्थमुत्तमम् ॥ २४ ॥
मूलम्
गोदावरीतीर्थयात्रां विधातुमुपचक्रमे
प्रथमेऽह्नि समागत्य विरजं तीर्थमुत्तमम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
नाभिमारभ्य तीर्थेषु स समभ्यर्च्य देवताम्
मर्ज्जन्मज्जन्जगद्धात्रीं कमलां स व्यलोकयत् ॥ २५ ॥
मूलम्
नाभिमारभ्य तीर्थेषु स समभ्यर्च्य देवताम्
मर्ज्जन्मज्जन्जगद्धात्रीं कमलां स व्यलोकयत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तां सम्पूज्य महामायां सर्वकामफलप्रदाम्
तारातीर्थे ततः स्नात्वा कपिलासङ्गमे ततः ॥ २६ ॥
मूलम्
तां सम्पूज्य महामायां सर्वकामफलप्रदाम्
तारातीर्थे ततः स्नात्वा कपिलासङ्गमे ततः ॥ २६ ॥
विश्वास-प्रस्तुतिः
अष्टतीर्थमसौ चक्रे विधाय पितृतर्पणम्
कुमारीशं शिवं नत्वा कपिलाद्वारमाययौ ॥ २७ ॥
मूलम्
अष्टतीर्थमसौ चक्रे विधाय पितृतर्पणम्
कुमारीशं शिवं नत्वा कपिलाद्वारमाययौ ॥ २७ ॥
विश्वास-प्रस्तुतिः
तत्र निर्मज्ज्य निर्धुतप्राग्जन्मान्तरदुष्कृतः
सम्पूज्य नत्वा श्रुत्वा च देवं वै मधुसूदनम् ॥ २८ ॥
मूलम्
तत्र निर्मज्ज्य निर्धुतप्राग्जन्मान्तरदुष्कृतः
सम्पूज्य नत्वा श्रुत्वा च देवं वै मधुसूदनम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
उषित्वा तत्र तां रात्रिं प्रागात्प्रातः सह द्विजैः
नरसिंहवने तत्र तीर्थे रामस्य दीर्घिका
प्रह्लादपूजितः साक्षादास्ते यत्र नृकेसरी ॥ २९ ॥
मूलम्
उषित्वा तत्र तां रात्रिं प्रागात्प्रातः सह द्विजैः
नरसिंहवने तत्र तीर्थे रामस्य दीर्घिका
प्रह्लादपूजितः साक्षादास्ते यत्र नृकेसरी ॥ २९ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा देवदेवेशं पूजयित्वा तु भक्तितः
तत्र तं दिवसं नीत्वा स ययावम्बिकापुरम् ॥ ३० ॥
मूलम्
तं दृष्ट्वा देवदेवेशं पूजयित्वा तु भक्तितः
तत्र तं दिवसं नीत्वा स ययावम्बिकापुरम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
अनुग्रहेण भक्तानामम्बिका तत्र तिष्ठति
पूरयन्ति मनुष्याणां वाञ्च्छितान्यखिलान्यपि ॥ ३१ ॥
मूलम्
अनुग्रहेण भक्तानामम्बिका तत्र तिष्ठति
पूरयन्ति मनुष्याणां वाञ्च्छितान्यखिलान्यपि ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पूजयित्वाम्बिकां भक्त्या पुष्पगन्धानुलेपनैः
उपहारैश्च विविधैः स्तौत्रैः प्रणमनैरपि ॥ ३२ ॥
मूलम्
पूजयित्वाम्बिकां भक्त्या पुष्पगन्धानुलेपनैः
उपहारैश्च विविधैः स्तौत्रैः प्रणमनैरपि ॥ ३२ ॥
विश्वास-प्रस्तुतिः
विप्रस्तस्मात्पुरा प्राप्तः कण्ठस्थानाभिधं पुरम्
यत्रास्ते परमा शक्तिर्महालक्ष्मीर्महाद्युतिः ॥ ३३ ॥
मूलम्
विप्रस्तस्मात्पुरा प्राप्तः कण्ठस्थानाभिधं पुरम्
यत्रास्ते परमा शक्तिर्महालक्ष्मीर्महाद्युतिः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तामवेक्ष्य सुधाभानुभास्करद्युतिमण्डलाम्
संसारतापविच्छेदपद्मपीयूषवाहिनीम् ॥ ३४ ॥
मूलम्
तामवेक्ष्य सुधाभानुभास्करद्युतिमण्डलाम्
संसारतापविच्छेदपद्मपीयूषवाहिनीम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
योगिराजहृदम्भोज राजहंसनिषेविताम्
अनाहतमहानादमयीमद्वयरूपिणीम् ॥ ३५ ॥
मूलम्
योगिराजहृदम्भोज राजहंसनिषेविताम्
अनाहतमहानादमयीमद्वयरूपिणीम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
महालक्ष्मीं भगवतीं वाञ्छितार्थप्रदायिनीम्
आराध्य भक्तिभावेन चेतसा स मुनीश्वरः ॥ ३६ ॥
मूलम्
महालक्ष्मीं भगवतीं वाञ्छितार्थप्रदायिनीम्
आराध्य भक्तिभावेन चेतसा स मुनीश्वरः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विवाहमण्डपं प्राप पुरं विप्रैः समन्वितः
पुरे तत्र प्रतिगृहं वासस्थानमयाचत ॥ ३७ ॥
मूलम्
विवाहमण्डपं प्राप पुरं विप्रैः समन्वितः
पुरे तत्र प्रतिगृहं वासस्थानमयाचत ॥ ३७ ॥
विश्वास-प्रस्तुतिः
न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः
दर्शितं ग्रामपालेन विशालं वासमन्दिरम् ॥ ३८ ॥
मूलम्
न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः
दर्शितं ग्रामपालेन विशालं वासमन्दिरम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
प्रविश्य वशतिं चक्रे ब्राह्मणः सङ्गिभिः सह
ततः प्रभाते विमले सुनन्दोऽसौ द्विजोत्तमः ॥ ३९ ॥
मूलम्
प्रविश्य वशतिं चक्रे ब्राह्मणः सङ्गिभिः सह
ततः प्रभाते विमले सुनन्दोऽसौ द्विजोत्तमः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
बहिरालोकयाञ्चक्रे वासगेहान्निजं वपुः
अध्वन्यानखिलान्यत्र जातान्क्वापि यदृच्छया ॥ ४० ॥
मूलम्
बहिरालोकयाञ्चक्रे वासगेहान्निजं वपुः
अध्वन्यानखिलान्यत्र जातान्क्वापि यदृच्छया ॥ ४० ॥
विश्वास-प्रस्तुतिः
गम्यमानः समायान्तं ग्रामपालो ददर्श सः
तं बभाषे ग्रामपाल आयुष्मानसि सर्वशः ॥ ४१ ॥
मूलम्
गम्यमानः समायान्तं ग्रामपालो ददर्श सः
तं बभाषे ग्रामपाल आयुष्मानसि सर्वशः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
भागधेयवतां पुंसां पुण्यः पुण्यवतामसि
प्रभावो विद्यते वत्स कोपि लोकोत्तरस्त्वयि ॥ ४२ ॥
मूलम्
भागधेयवतां पुंसां पुण्यः पुण्यवतामसि
प्रभावो विद्यते वत्स कोपि लोकोत्तरस्त्वयि ॥ ४२ ॥
विश्वास-प्रस्तुतिः
क्व प्रयाताः सहायास्ते कथं तत्सदनाद्बहिः
तत्पश्य मुनिशार्दूल कथयामि तवाग्रतः ॥ ४३ ॥
मूलम्
क्व प्रयाताः सहायास्ते कथं तत्सदनाद्बहिः
तत्पश्य मुनिशार्दूल कथयामि तवाग्रतः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
किन्तु नान्यं त्वया तुल्यं पश्यामीह तपस्विनम्
किं जानासि महामन्त्रं कां विद्यामवलम्बसे ॥ ४४ ॥
मूलम्
किन्तु नान्यं त्वया तुल्यं पश्यामीह तपस्विनम्
किं जानासि महामन्त्रं कां विद्यामवलम्बसे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
कस्य देवस्य कारुण्याच्छक्तिर्लोकोत्तरा त्वयि
तत्कारुण्यवशात्तिष्ठ ग्रामेऽस्मिन्ब्राह्मणोत्तम ॥ ४५ ॥
मूलम्
कस्य देवस्य कारुण्याच्छक्तिर्लोकोत्तरा त्वयि
तत्कारुण्यवशात्तिष्ठ ग्रामेऽस्मिन्ब्राह्मणोत्तम ॥ ४५ ॥
विश्वास-प्रस्तुतिः
शुश्रूषामखिलामेव भगवंस्ते करोम्यहम्
इति संवासयामास तस्मिन्ग्रामे मुनीश्वरम् ॥ ४६ ॥
मूलम्
शुश्रूषामखिलामेव भगवंस्ते करोम्यहम्
इति संवासयामास तस्मिन्ग्रामे मुनीश्वरम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
परिचर्या च तस्यासौ भक्त्या चक्रे दिवानिशम्
दिवसेषु प्रयातेषु सप्ताष्टसु समेयिवान् ॥ ४७ ॥
मूलम्
परिचर्या च तस्यासौ भक्त्या चक्रे दिवानिशम्
दिवसेषु प्रयातेषु सप्ताष्टसु समेयिवान् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
प्रातरागत्य तस्याग्रे रुरोद भृशदुःखितः
अद्य मे भाग्यहीनस्य गुणवान्भक्तिमान्सुतः ॥ ४८ ॥
मूलम्
प्रातरागत्य तस्याग्रे रुरोद भृशदुःखितः
अद्य मे भाग्यहीनस्य गुणवान्भक्तिमान्सुतः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
जाज्वल्यमानदंष्ट्रेण भक्षितो निशि रक्षसा
इत्येवं रक्षकेणोक्तं तं पप्रच्छ स संयमी ॥ ४९ ॥
मूलम्
जाज्वल्यमानदंष्ट्रेण भक्षितो निशि रक्षसा
इत्येवं रक्षकेणोक्तं तं पप्रच्छ स संयमी ॥ ४९ ॥
विश्वास-प्रस्तुतिः
क्वास्ते स राक्षसः पुत्रो भक्षितस्ते कथं वद
ग्रामपाल उवाच-
वर्तते नगरे घोरः पुरुषादो निशाचरः 6.185.॥ ५० ॥
मूलम्
क्वास्ते स राक्षसः पुत्रो भक्षितस्ते कथं वद
ग्रामपाल उवाच-
वर्तते नगरे घोरः पुरुषादो निशाचरः 6.185.॥ ५० ॥
विश्वास-प्रस्तुतिः
स खादति नरानेत्य नित्यं नगरगोचरान्
स सर्वैर्नागरैरत्र प्रार्थितः पुरुषैः पुरा ॥ ५१ ॥
मूलम्
स खादति नरानेत्य नित्यं नगरगोचरान्
स सर्वैर्नागरैरत्र प्रार्थितः पुरुषैः पुरा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
रक्ष राक्षस नः सर्वान्ग्रासं ते कल्पयामहे
पथिका निशि निद्रन्ति ये च तान्भुङ्क्ष्व राक्षस ॥ ५२ ॥
मूलम्
रक्ष राक्षस नः सर्वान्ग्रासं ते कल्पयामहे
पथिका निशि निद्रन्ति ये च तान्भुङ्क्ष्व राक्षस ॥ ५२ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्सदने पान्थान्ग्रामपालप्रवेशितान्
आहारं कल्पयाञ्चक्रुरात्मीयप्राणगुप्तये ॥ ५३ ॥
मूलम्
एतस्मिन्सदने पान्थान्ग्रामपालप्रवेशितान्
आहारं कल्पयाञ्चक्रुरात्मीयप्राणगुप्तये ॥ ५३ ॥
विश्वास-प्रस्तुतिः
भवान्सुप्तोगृहेऽमुष्मिन्नधन्यैः संयुतः परैः
ते ग्रस्ताः किल चानेन न त्वं मुक्तोसि द्विजोत्तम ॥ ५४ ॥
मूलम्
भवान्सुप्तोगृहेऽमुष्मिन्नधन्यैः संयुतः परैः
ते ग्रस्ताः किल चानेन न त्वं मुक्तोसि द्विजोत्तम ॥ ५४ ॥
विश्वास-प्रस्तुतिः
प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम
मदीय तनयस्याद्य मित्रमेकमुपागतम् ॥ ५५ ॥
मूलम्
प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम
मदीय तनयस्याद्य मित्रमेकमुपागतम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अजानता मया सोऽपि तनयस्य प्रियः सखा
अन्यैः पान्थजनैः सार्द्धं तस्मिन्गेहे प्रवेशितः ॥ ५६ ॥
मूलम्
अजानता मया सोऽपि तनयस्य प्रियः सखा
अन्यैः पान्थजनैः सार्द्धं तस्मिन्गेहे प्रवेशितः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तत्र प्रविष्टं तं निशीथे तनयो मम
तमानेतुं गतः सोऽपि भक्षितस्तेन रक्षसा ॥ ५७ ॥
मूलम्
श्रुत्वा तत्र प्रविष्टं तं निशीथे तनयो मम
तमानेतुं गतः सोऽपि भक्षितस्तेन रक्षसा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
दुःखितेन मया प्रोक्तः प्रातः स पिशिताशनः
ममापि पुत्रो दुष्टात्मन्भवता निशि भक्षितः ॥ ५८ ॥
मूलम्
दुःखितेन मया प्रोक्तः प्रातः स पिशिताशनः
ममापि पुत्रो दुष्टात्मन्भवता निशि भक्षितः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
भवज्जठरनिर्मग्नः सुतोऽसौ येन जीवति
अस्ति चैवमुपायस्ते ब्रूहि मे त्वं निशाचर ॥ ५९ ॥
मूलम्
भवज्जठरनिर्मग्नः सुतोऽसौ येन जीवति
अस्ति चैवमुपायस्ते ब्रूहि मे त्वं निशाचर ॥ ५९ ॥
विश्वास-प्रस्तुतिः
राक्षस उवाच-
अन्तःप्रविष्टा त्वत्पुत्रमज्ञात्वाहमभक्षयम्
अजानन्भक्षितः पान्थैः सहितोऽसौ सुतस्तव ॥ ६० ॥
मूलम्
राक्षस उवाच-
अन्तःप्रविष्टा त्वत्पुत्रमज्ञात्वाहमभक्षयम्
अजानन्भक्षितः पान्थैः सहितोऽसौ सुतस्तव ॥ ६० ॥
विश्वास-प्रस्तुतिः
यथा जीवति मे कुक्षौ यथा भवति रक्षितः
तथा विहितमप्यस्ति दैवेन परमेष्ठिना ॥ ६१ ॥
मूलम्
यथा जीवति मे कुक्षौ यथा भवति रक्षितः
तथा विहितमप्यस्ति दैवेन परमेष्ठिना ॥ ६१ ॥
विश्वास-प्रस्तुतिः
गीतैकादशमध्यायं यः पठत्यनिशं द्विजः
तत्प्रभावेन मे मुक्तिर्मृतानां पुनरुद्भवः ॥ ६२ ॥
मूलम्
गीतैकादशमध्यायं यः पठत्यनिशं द्विजः
तत्प्रभावेन मे मुक्तिर्मृतानां पुनरुद्भवः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ग्रामपाल उवाच-
कथमेकादशाध्यायसामर्थ्यमिदमद्भुतम् ॥ ६३ ॥
मूलम्
ग्रामपाल उवाच-
कथमेकादशाध्यायसामर्थ्यमिदमद्भुतम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
इति पृष्टो मया विप्र स बभाषे निशाचरः ॥ ६४ ॥
मूलम्
इति पृष्टो मया विप्र स बभाषे निशाचरः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
पुरा गृध्रेण केनापि नभोमार्गेण गच्छता
अस्थिखण्डं स्वतुण्डाग्रात्पातितं क्वापि वारिणि ॥ ६५ ॥
मूलम्
पुरा गृध्रेण केनापि नभोमार्गेण गच्छता
अस्थिखण्डं स्वतुण्डाग्रात्पातितं क्वापि वारिणि ॥ ६५ ॥
विश्वास-प्रस्तुतिः
तं जलाशयमागत्यकोऽपि ज्ञानीश्वरस्तदा
महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम् ॥ ६६ ॥
मूलम्
तं जलाशयमागत्यकोऽपि ज्ञानीश्वरस्तदा
महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तमूचिरे जनाः सर्वे तीर्थमेतत्कथं वद
जपत्येकादशाध्यायं त्रिसन्ध्यं नियतेन्द्रियः ॥ ६७ ॥
मूलम्
तमूचिरे जनाः सर्वे तीर्थमेतत्कथं वद
जपत्येकादशाध्यायं त्रिसन्ध्यं नियतेन्द्रियः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
कृतमौनस्तु विप्रोऽसौ चौरैर्व्यापादितः पथि
तस्यास्थिशकलं गृध्रवदनात्पतितं जले ॥ ६८ ॥
मूलम्
कृतमौनस्तु विप्रोऽसौ चौरैर्व्यापादितः पथि
तस्यास्थिशकलं गृध्रवदनात्पतितं जले ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तेन तीर्थमिदं दिव्यं जातं पातकनाशनम्
ततस्ते मानवाः सर्वे सस्नुस्तत्र जलाशये ॥ ६९ ॥
मूलम्
तेन तीर्थमिदं दिव्यं जातं पातकनाशनम्
ततस्ते मानवाः सर्वे सस्नुस्तत्र जलाशये ॥ ६९ ॥
विश्वास-प्रस्तुतिः
निष्कल्मषतया चैवं प्रापुस्ते परमं पदम्
एकादशस्य सामर्थ्यादध्यायस्य भविष्यति ॥ ७० ॥
मूलम्
निष्कल्मषतया चैवं प्रापुस्ते परमं पदम्
एकादशस्य सामर्थ्यादध्यायस्य भविष्यति ॥ ७० ॥
विश्वास-प्रस्तुतिः
ममापि मुक्तिः पान्थानां पुनरुत्थानमेव च
यो मया कश्चिदुद्गीर्णो ब्राह्मणोऽत्रैव तिष्ठति ॥ ७१ ॥
मूलम्
ममापि मुक्तिः पान्थानां पुनरुत्थानमेव च
यो मया कश्चिदुद्गीर्णो ब्राह्मणोऽत्रैव तिष्ठति ॥ ७१ ॥
विश्वास-प्रस्तुतिः
स च एकादशाध्यायं जपति स्म निरन्तरम्
स तेनाध्यायमन्त्रेण सप्तवाराभिमन्त्रितम् ॥ ७२ ॥
मूलम्
स च एकादशाध्यायं जपति स्म निरन्तरम्
स तेनाध्यायमन्त्रेण सप्तवाराभिमन्त्रितम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
विधाय वारि विप्रेन्द्रः क्षिपेद्यदि ममोपरि
ततो मे शापनिर्मुक्तिर्भविष्यति न संशयः
इति तेनास्मि सन्दिष्टः समायातस्त्वदन्तिकम् ॥ ७३ ॥
मूलम्
विधाय वारि विप्रेन्द्रः क्षिपेद्यदि ममोपरि
ततो मे शापनिर्मुक्तिर्भविष्यति न संशयः
इति तेनास्मि सन्दिष्टः समायातस्त्वदन्तिकम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
विप्र उवाच-
राक्षसः केन पापेन जातोसौ वद रक्षक
यत्क्षपायां गृहे तस्मिन्नरान्खादति निद्रितान् ॥ ७४ ॥
मूलम्
विप्र उवाच-
राक्षसः केन पापेन जातोसौ वद रक्षक
यत्क्षपायां गृहे तस्मिन्नरान्खादति निद्रितान् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
ग्रामपाल उवाच
अस्मिन्ग्रामे पुरा कश्चिदासीद्विप्रः कृषीवलः
एकदा शालिकेदाररक्षणे व्याकुलो द्विजः ॥ ७५ ॥
मूलम्
ग्रामपाल उवाच
अस्मिन्ग्रामे पुरा कश्चिदासीद्विप्रः कृषीवलः
एकदा शालिकेदाररक्षणे व्याकुलो द्विजः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
नातिदूरे महागृध्रः पान्थमेकमभक्षयत्
तं विमोचयितुं दूराद्दयाञ्चक्रेऽपि तापसः ॥ ७६ ॥
मूलम्
नातिदूरे महागृध्रः पान्थमेकमभक्षयत्
तं विमोचयितुं दूराद्दयाञ्चक्रेऽपि तापसः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा पान्थं खगस्तावन्निरगादम्बराध्वना
ततः स तापसः कोपात्तं बभाषे कृषीवलम् ॥ ७७ ॥
मूलम्
भुक्त्वा पान्थं खगस्तावन्निरगादम्बराध्वना
ततः स तापसः कोपात्तं बभाषे कृषीवलम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
धिक्त्वां हालिक दुर्बुद्धे कठोरमतिनिर्घृण
कुक्षिभरं परत्राण विमुखं हतजीवितम् ॥ ७८ ॥
मूलम्
धिक्त्वां हालिक दुर्बुद्धे कठोरमतिनिर्घृण
कुक्षिभरं परत्राण विमुखं हतजीवितम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
चोरैश्च दंष्ट्रिभिः सर्प्पैररिवह्निविषाम्बुभिः
गृध्रराक्षसभूतैश्च वेतालादिभिराहतान् ॥ ७९ ॥
मूलम्
चोरैश्च दंष्ट्रिभिः सर्प्पैररिवह्निविषाम्बुभिः
गृध्रराक्षसभूतैश्च वेतालादिभिराहतान् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
जनानुपेक्षते शक्तः स तद्वधफलं लभेत्
न मोचयति यो विप्रं प्रभुश्चोरादिभिर्धृतम् ॥ ८० ॥
मूलम्
जनानुपेक्षते शक्तः स तद्वधफलं लभेत्
न मोचयति यो विप्रं प्रभुश्चोरादिभिर्धृतम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
स याति नरकं घोरं स पुनर्जायते वृकः
निहन्यमानं विपिने गृध्रव्याघ्रेण पीडितम् ॥ ८१ ॥
मूलम्
स याति नरकं घोरं स पुनर्जायते वृकः
निहन्यमानं विपिने गृध्रव्याघ्रेण पीडितम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
मुञ्चमुचेति यो वक्ति स याति परमां गतिम्
गवामर्थे हता व्याघ्रैर्व्याधैर्दुष्टैश्च राजभिः ॥ ८२ ॥
मूलम्
मुञ्चमुचेति यो वक्ति स याति परमां गतिम्
गवामर्थे हता व्याघ्रैर्व्याधैर्दुष्टैश्च राजभिः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तेपि यान्ति पदं विष्णोर्दुष्प्राप्यं योगिनामपि
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ८३ ॥
मूलम्
तेपि यान्ति पदं विष्णोर्दुष्प्राप्यं योगिनामपि
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ८३ ॥
विश्वास-प्रस्तुतिः
शरणागतसन्त्राण कलां नार्हन्ति षोडशीम्
दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः ॥ ८४ ॥
मूलम्
शरणागतसन्त्राण कलां नार्हन्ति षोडशीम्
दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
पुण्यवानपि कालेन कुम्भीपाके स पच्यते
पश्यन्नपि भवान् पान्थं दुष्टगृध्रेण भक्षितम् ॥ ८५ ॥
मूलम्
पुण्यवानपि कालेन कुम्भीपाके स पच्यते
पश्यन्नपि भवान् पान्थं दुष्टगृध्रेण भक्षितम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
निवारणसमर्थोपि न चक्रे यन्निवारणम्
निष्कृपोसि यतस्तस्माद्भविष्यसि निशाचरः ॥ ८६ ॥
मूलम्
निवारणसमर्थोपि न चक्रे यन्निवारणम्
निष्कृपोसि यतस्तस्माद्भविष्यसि निशाचरः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
इमां शापं मुने श्रुत्वा कम्पमानकलेवरः
प्रणम्य हालिको विप्रं बभाषे करुणं वचः ॥ ८७ ॥
मूलम्
इमां शापं मुने श्रुत्वा कम्पमानकलेवरः
प्रणम्य हालिको विप्रं बभाषे करुणं वचः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
अत्राहं क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा
न वेद्मि निकटं गृध्र हन्यमानमिमं नरम् ॥ ८८ ॥
मूलम्
अत्राहं क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा
न वेद्मि निकटं गृध्र हन्यमानमिमं नरम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि
विप्र उवाच
यो वेत्त्येकादशाध्यायं जपत्यनुदिनं च यः ॥ ८९ ॥
मूलम्
तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि
विप्र उवाच
यो वेत्त्येकादशाध्यायं जपत्यनुदिनं च यः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तेनाभिमन्त्रितं वारि यदा शिरसि तावके
पतिष्यति तदा शापात्तव मुक्तिर्भविष्यति ॥ ९० ॥
मूलम्
तेनाभिमन्त्रितं वारि यदा शिरसि तावके
पतिष्यति तदा शापात्तव मुक्तिर्भविष्यति ॥ ९० ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा तापसो यातो हालिको राक्षसोऽभवत्
तदागच्छ द्विजश्रेष्ठ तेनाध्यायेन मन्त्रय
तीर्थोदकं स्वहस्तेन तस्य मूर्द्धनि निक्षिप ॥ ९१ ॥
मूलम्
इत्युक्त्वा तापसो यातो हालिको राक्षसोऽभवत्
तदागच्छ द्विजश्रेष्ठ तेनाध्यायेन मन्त्रय
तीर्थोदकं स्वहस्तेन तस्य मूर्द्धनि निक्षिप ॥ ९१ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
इति तत्प्रार्थितं तस्य श्रुत्वा च करुणाप्लुतः
तथेति सहपालेन मुनी रक्षोन्तिकं ययौ ॥ ९२ ॥
मूलम्
महादेव उवाच
इति तत्प्रार्थितं तस्य श्रुत्वा च करुणाप्लुतः
तथेति सहपालेन मुनी रक्षोन्तिकं ययौ ॥ ९२ ॥
विश्वास-प्रस्तुतिः
एकादशेन तेनाम्बु विश्वरूपेण मन्त्रितम्
निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना ॥ ९३ ॥
मूलम्
एकादशेन तेनाम्बु विश्वरूपेण मन्त्रितम्
निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना ॥ ९३ ॥
विश्वास-प्रस्तुतिः
गीताध्यायप्रभावेण शापमोक्षमवाप सः
विहाय राक्षसं देहं चतुर्बाहुस्ततोऽभवत् ॥ ९४ ॥
मूलम्
गीताध्यायप्रभावेण शापमोक्षमवाप सः
विहाय राक्षसं देहं चतुर्बाहुस्ततोऽभवत् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
निगीर्णा ये जनास्तेन पान्था आसन्सहस्रशः
चतुर्भुजा बभूवुस्ते शङ्खचक्रगदाधराः ॥ ९५ ॥
मूलम्
निगीर्णा ये जनास्तेन पान्था आसन्सहस्रशः
चतुर्भुजा बभूवुस्ते शङ्खचक्रगदाधराः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
ते विमानान्यारुरुहुस्तावदूचे स राक्षसम्
मदीयस्तनयः कस्तं दर्शयस्व निशाचर ॥ ९६ ॥
मूलम्
ते विमानान्यारुरुहुस्तावदूचे स राक्षसम्
मदीयस्तनयः कस्तं दर्शयस्व निशाचर ॥ ९६ ॥
विश्वास-प्रस्तुतिः
इत्युक्ते ग्रामपालेन दिव्यधीराह राक्षसः
एवं चतुर्भुजं विद्धि तमालश्यामलद्युतिम् ॥ ९७ ॥
मूलम्
इत्युक्ते ग्रामपालेन दिव्यधीराह राक्षसः
एवं चतुर्भुजं विद्धि तमालश्यामलद्युतिम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
माणिक्यमुकुटं दिव्यमणिकुण्डलमण्डितम्
हारहारिमहास्कन्धं स्वर्णकेयूरभूषितम् ॥ ९८ ॥
मूलम्
माणिक्यमुकुटं दिव्यमणिकुण्डलमण्डितम्
हारहारिमहास्कन्धं स्वर्णकेयूरभूषितम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहम्
दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम् ॥ ९९ ॥
मूलम्
राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहम्
दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम् ॥ ९९ ॥
इति तस्य वचः श्रुत्वा सुतं दृष्ट्वा च तादृशम्
स्वगेहं नेतुमारेभे जहास स सुतस्ततः 6.185.१००
कति वाराणि जातोऽसि त्वं पुत्रो मम रक्षक
पूर्वपुत्रस्त्वदीयोऽस्मि अधुना विबुधोऽस्म्यहम् १०१
यास्यामि वैष्णवं धाम ब्राह्मणस्य प्रसादतः
निशाचरोऽपि प्राप्तोऽयं पश्य देहं चतुर्भजम् १०२
एकादशस्य माहात्म्याद्याति स्वर्गं समं जनैः
विप्रादस्मात्तमध्यायमधीष्व त्वं जपानिशम् १०३
भविष्यति न सन्देहस्तवापि गतिरीदृशी
तात तस्मात्सतां सङ्गं दुर्लभं सर्वथा जनैः १०४
सोप्यद्य ते समुत्पन्नो ह्यात्मनः साधयेप्सितम्
किं धनैर्भोगदानैर्वा किं यज्ञैस्तपसा नु किम् १०५
किं पूर्तैर्वापरं श्रेयो विश्वरूपस्य पाठतः
तद्विष्णोः परमं रूपमध्यायस्य श्रुतेन च १०६
यत्पूर्णानन्दसन्दोह कृष्णब्रह्मास्यनिर्गतम्
कुरुक्षेत्रेऽर्जुने मित्रे तत्कैवल्यरसायनम् १०७
नृणां च भवभीतानामाधिव्याधिभयापहम्
अनेकजन्मदुःखघ्नं नान्यत्पश्यामि तत्स्मर
शिव उवाच
इत्युक्त्वा सह तैः सर्वैर्ययौ विष्णोः परं पदम् १०८
तमध्यायं ततो विप्राद्ग्रामपालः पपाठ सः
तावुभौ तस्य माहात्म्याज्जग्मतुर्वैष्णवं पदम् १०९
इत्येकादशमाहात्म्य कथा तुभ्यं निरूपिता
यस्याः श्रवणमात्रेण महापातकसङ्क्षयः ११०
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीतामाहात्म्ये सतीश्वरसंवादे पञ्चाशीत्यधिकशततमोऽध्यायः १८५