देव्युवाच
विश्वास-प्रस्तुतिः
सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो
धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया ॥ १ ॥
मूलम्
सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो
धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया ॥ १ ॥
विश्वास-प्रस्तुतिः
निरूपितमिदं पुण्यं नवमाध्यायवैभवम्
अनेकविस्मयस्वादु कथानकमयं मधु ॥ २ ॥
मूलम्
निरूपितमिदं पुण्यं नवमाध्यायवैभवम्
अनेकविस्मयस्वादु कथानकमयं मधु ॥ २ ॥
विश्वास-प्रस्तुतिः
शृण्वन्त्या मम देवेश न तृप्तिर्जातु जायते
अकुण्ठाश्रवणोत्कण्ठा वर्द्धते वृषभध्वज ॥ ३ ॥
मूलम्
शृण्वन्त्या मम देवेश न तृप्तिर्जातु जायते
अकुण्ठाश्रवणोत्कण्ठा वर्द्धते वृषभध्वज ॥ ३ ॥
विश्वास-प्रस्तुतिः
आसीन्ममहिमाम्भोधे गीतानां श्रुतिजीवितम्
तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः ॥ ४ ॥
मूलम्
आसीन्ममहिमाम्भोधे गीतानां श्रुतिजीवितम्
तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तमुद्दिश्य महाध्यायमभिधेहि कथानकम्
शिव उवाच
शृणु सुश्रोणि निश्रेणीं स्वर्गदुर्गस्य दुर्ल्लभाम् ॥ ५ ॥
मूलम्
तमुद्दिश्य महाध्यायमभिधेहि कथानकम्
शिव उवाच
शृणु सुश्रोणि निश्रेणीं स्वर्गदुर्गस्य दुर्ल्लभाम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
सीमामिव प्रभावानां पावनीं परमां कथाम्
आसीत्काशीपुरे विप्रः पुण्यकीर्त्तिपरायणः ॥ ६ ॥
मूलम्
सीमामिव प्रभावानां पावनीं परमां कथाम्
आसीत्काशीपुरे विप्रः पुण्यकीर्त्तिपरायणः ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्रशान्तचेता निर्मुक्त हिंसाकार्कश्यसाहसः
निवृत्तिनिरतो नित्यं जितेन्द्रियतया तथा ॥ ७ ॥
मूलम्
प्रशान्तचेता निर्मुक्त हिंसाकार्कश्यसाहसः
निवृत्तिनिरतो नित्यं जितेन्द्रियतया तथा ॥ ७ ॥
विश्वास-प्रस्तुतिः
धीरधीरिति विख्यातो नन्दीव मयि भक्तिमान्
निस्तीर्णनिगमाम्भोधिः सर्वशास्त्रार्थकोविदः ॥ ८ ॥
मूलम्
धीरधीरिति विख्यातो नन्दीव मयि भक्तिमान्
निस्तीर्णनिगमाम्भोधिः सर्वशास्त्रार्थकोविदः ॥ ८ ॥
विश्वास-प्रस्तुतिः
तस्य ध्यानपराधीन चेतसः प्रतिगच्छतः
अन्तरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः ॥ ९ ॥
मूलम्
तस्य ध्यानपराधीन चेतसः प्रतिगच्छतः
अन्तरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः ॥ ९ ॥
विश्वास-प्रस्तुतिः
करावलम्बनं तस्य धावन्प्रीत्या ददाम्यहम्
कदाचन चमत्कारकारकं विमना मुनिः ॥ १० ॥
मूलम्
करावलम्बनं तस्य धावन्प्रीत्या ददाम्यहम्
कदाचन चमत्कारकारकं विमना मुनिः ॥ १० ॥
विश्वास-प्रस्तुतिः
आचान्तः किञ्च नासाग्रपरमानन्दमेदुराम्
दृशमासाद्य निद्राणकरणोयमिवास्थितः ॥ ११ ॥
मूलम्
आचान्तः किञ्च नासाग्रपरमानन्दमेदुराम्
दृशमासाद्य निद्राणकरणोयमिवास्थितः ॥ ११ ॥
विश्वास-प्रस्तुतिः
उपाधास्य विशालाक्षि विशालां द्वारदेहलीम्
अशेत निशि निःशङ्कं तावल्लम्बेक्षणः क्षणम् ॥ १२ ॥
मूलम्
उपाधास्य विशालाक्षि विशालां द्वारदेहलीम्
अशेत निशि निःशङ्कं तावल्लम्बेक्षणः क्षणम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
मामपृच्छद्भृङ्गिरिटिः प्रणम्यपादपङ्कजम्
अनेन विधिना केन विहितं तव दर्शनम् ॥ १३ ॥
मूलम्
मामपृच्छद्भृङ्गिरिटिः प्रणम्यपादपङ्कजम्
अनेन विधिना केन विहितं तव दर्शनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तपस्तप्तं हुतं जप्तं किमनेन महात्मना
दत्ते प्रतिपदं देवो यस्य हस्तावलम्बनम् ॥ १४ ॥
मूलम्
तपस्तप्तं हुतं जप्तं किमनेन महात्मना
दत्ते प्रतिपदं देवो यस्य हस्तावलम्बनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
अयं न लभते गन्तुं कस्मादस्मात्पुराद्बहिः
यदृच्छया यदा काशी सीमामुल्लङ्घ्य गच्छति ॥ १५ ॥
मूलम्
अयं न लभते गन्तुं कस्मादस्मात्पुराद्बहिः
यदृच्छया यदा काशी सीमामुल्लङ्घ्य गच्छति ॥ १५ ॥
विश्वास-प्रस्तुतिः
न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः
अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषिताम् ॥ १६ ॥
मूलम्
न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः
अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषिताम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अनुग्राह्योस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय
भृङ्गिरिटेरिमं प्रश्नं समाकर्ण्याहमूचिवान् ॥ १७ ॥
मूलम्
अनुग्राह्योस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय
भृङ्गिरिटेरिमं प्रश्नं समाकर्ण्याहमूचिवान् ॥ १७ ॥
विश्वास-प्रस्तुतिः
कदाचिदासं कैलासं पार्श्वे पुन्नागकानने
रणत्खेचरसुश्रोणि पूर्णस्तबककानने ॥ १८ ॥
मूलम्
कदाचिदासं कैलासं पार्श्वे पुन्नागकानने
रणत्खेचरसुश्रोणि पूर्णस्तबककानने ॥ १८ ॥
विश्वास-प्रस्तुतिः
कलकण्ठकुलालाप कल्लोलितदिगन्तरे
गरुत्मदादिदात्यूह समूहस्वरसङ्कुले ॥ १९ ॥
मूलम्
कलकण्ठकुलालाप कल्लोलितदिगन्तरे
गरुत्मदादिदात्यूह समूहस्वरसङ्कुले ॥ १९ ॥
विश्वास-प्रस्तुतिः
भ्रमद्दारुघटीयन्त्र प्रोल्लसद्बिन्दुदन्तुरे
प्रबुद्धसारणिप्रान्त कदलीकन्दलालसे ॥ २० ॥
मूलम्
भ्रमद्दारुघटीयन्त्र प्रोल्लसद्बिन्दुदन्तुरे
प्रबुद्धसारणिप्रान्त कदलीकन्दलालसे ॥ २० ॥
विश्वास-प्रस्तुतिः
कस्तूरीहरिणोपेते किन्नरस्वरमोहिते
रोमन्थमन्थरापाङ्गैर्मृगैः क्वापि निषेविते ॥ २१ ॥
मूलम्
कस्तूरीहरिणोपेते किन्नरस्वरमोहिते
रोमन्थमन्थरापाङ्गैर्मृगैः क्वापि निषेविते ॥ २१ ॥
विश्वास-प्रस्तुतिः
हंसैः कीरेषु पाण्डित्यं कुर्वाणैः सङ्कुले शुकैः
निर्हृदिक्वणिनीरन्ध्र समीरणविलोडिते ॥ २२ ॥
मूलम्
हंसैः कीरेषु पाण्डित्यं कुर्वाणैः सङ्कुले शुकैः
निर्हृदिक्वणिनीरन्ध्र समीरणविलोडिते ॥ २२ ॥
विश्वास-प्रस्तुतिः
माधवीपुष्पनिर्यासशीधुक्षीबमधुव्रते
उन्मीलित्त्रिवलीपुष्पगुच्छसौरभनिर्भरे ॥ २३ ॥
मूलम्
माधवीपुष्पनिर्यासशीधुक्षीबमधुव्रते
उन्मीलित्त्रिवलीपुष्पगुच्छसौरभनिर्भरे ॥ २३ ॥
विश्वास-प्रस्तुतिः
प्रोत्फुल्लबकुलामोदमदमन्थरषट्पदे
सोमादुद्भूतपीयूषक्षालितक्षितिमण्डले ॥ २४ ॥
मूलम्
प्रोत्फुल्लबकुलामोदमदमन्थरषट्पदे
सोमादुद्भूतपीयूषक्षालितक्षितिमण्डले ॥ २४ ॥
विश्वास-प्रस्तुतिः
अध्यास्य वेदिकामेकामहं क्षणमवस्थितः
उद्दण्डशाखिसङ्घट्टस्फुटन्मन्थामुखोत्करैः ॥ २५ ॥
मूलम्
अध्यास्य वेदिकामेकामहं क्षणमवस्थितः
उद्दण्डशाखिसङ्घट्टस्फुटन्मन्थामुखोत्करैः ॥ २५ ॥
विश्वास-प्रस्तुतिः
प्रकम्पिता चलच्छायो ववौ चण्डसमीरणः
पश्चादभून्महाघोषो निर्घोषित दरीतटः ॥ २६ ॥
मूलम्
प्रकम्पिता चलच्छायो ववौ चण्डसमीरणः
पश्चादभून्महाघोषो निर्घोषित दरीतटः ॥ २६ ॥
विश्वास-प्रस्तुतिः
अवातरत्ततः कश्चित्पक्षी गगनगह्वरात्
शारदानरिदच्छायः कज्जलानामिवोच्चयः ॥ २७ ॥
मूलम्
अवातरत्ततः कश्चित्पक्षी गगनगह्वरात्
शारदानरिदच्छायः कज्जलानामिवोच्चयः ॥ २७ ॥
विश्वास-प्रस्तुतिः
तमसामिव सङ्घातः पक्षच्छेदीव पर्वतः
अवष्टभ्य क्षितिं पद्मां पक्षी मां प्रणनाम सः॥ २८ ॥
मूलम्
तमसामिव सङ्घातः पक्षच्छेदीव पर्वतः
अवष्टभ्य क्षितिं पद्मां पक्षी मां प्रणनाम सः॥ २८ ॥
विश्वास-प्रस्तुतिः
आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधात्
अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयत् ॥ २९ ॥
मूलम्
आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधात्
अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
जयदेव चिदानन्द सुधासिन्धो जगत्पते
सदा सद्भावना सङ्ग कल्लोलानन्तविग्रह ॥ ३० ॥
मूलम्
जयदेव चिदानन्द सुधासिन्धो जगत्पते
सदा सद्भावना सङ्ग कल्लोलानन्तविग्रह ॥ ३० ॥
विश्वास-प्रस्तुतिः
अद्वैतवासना मत्या मलत्रयविवर्जित
जितेन्द्रिय पराधीन समाधिप्राप्यविग्रह ॥ ३१ ॥
मूलम्
अद्वैतवासना मत्या मलत्रयविवर्जित
जितेन्द्रिय पराधीन समाधिप्राप्यविग्रह ॥ ३१ ॥
विश्वास-प्रस्तुतिः
निरुपाधिविनिर्मुक्त निराकार निरामय
निःसीम निरहङ्कार निरावरणनिर्गुण ॥ ३२ ॥
मूलम्
निरुपाधिविनिर्मुक्त निराकार निरामय
निःसीम निरहङ्कार निरावरणनिर्गुण ॥ ३२ ॥
विश्वास-प्रस्तुतिः
शरणागतसन्त्राण प्रवीण चरणाम्बुज
भीममाल महाव्याल ज्वालादग्धमनोभव ॥ ३३ ॥
मूलम्
शरणागतसन्त्राण प्रवीण चरणाम्बुज
भीममाल महाव्याल ज्वालादग्धमनोभव ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कुठारभिन्नदैत्येन्द्र गण्डूषित महाविभो
त्रिपुरप्रमदाभाल सिन्दूरोद्धूलिमार्जन ॥ ३४ ॥
मूलम्
कुठारभिन्नदैत्येन्द्र गण्डूषित महाविभो
त्रिपुरप्रमदाभाल सिन्दूरोद्धूलिमार्जन ॥ ३४ ॥
विश्वास-प्रस्तुतिः
कात्यायनीकुचाम्भोज वरकुङ्कुमचर्चित
नमः प्रमाणदूराय नमः प्रमतिरूपिणे ॥ ३५ ॥
मूलम्
कात्यायनीकुचाम्भोज वरकुङ्कुमचर्चित
नमः प्रमाणदूराय नमः प्रमतिरूपिणे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे
वन्दे तव पदाम्भोजं योगिप्रवरचुम्बितम् ॥ ३६ ॥
मूलम्
नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे
वन्दे तव पदाम्भोजं योगिप्रवरचुम्बितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अपारभवपाथोऽधि पारावतरणाद्भुतम्
वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ॥ ३७ ॥
मूलम्
अपारभवपाथोऽधि पारावतरणाद्भुतम्
वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सहस्रवदनस्यापि फणीन्द्रस्य न चातुरी
त्वद्वर्णने महादेव कोऽहम्मल्पमतिः खगः ॥ ३८ ॥
मूलम्
सहस्रवदनस्यापि फणीन्द्रस्य न चातुरी
त्वद्वर्णने महादेव कोऽहम्मल्पमतिः खगः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
स्तोत्रमेतत्समाकर्ण्य कृतं तेन पतत्रिणा
तमवोचमहं कोऽसि कुतस्त्योसि विहङ्गम ॥ ३९ ॥
मूलम्
स्तोत्रमेतत्समाकर्ण्य कृतं तेन पतत्रिणा
तमवोचमहं कोऽसि कुतस्त्योसि विहङ्गम ॥ ३९ ॥
विश्वास-प्रस्तुतिः
हंसेन सदृशः कायो वर्णः काकेन सन्निभः
प्रयोजनं कमुद्दिश्य प्राप्तोसीह तदुच्यताम् ॥ ४० ॥
मूलम्
हंसेन सदृशः कायो वर्णः काकेन सन्निभः
प्रयोजनं कमुद्दिश्य प्राप्तोसीह तदुच्यताम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
इति पक्षी मया पृष्टः प्रश्रयानतकन्धरः
जगाद श्लक्ष्णया वाचा पक्षीवाक्यविदांवरः ॥ ४१ ॥
मूलम्
इति पक्षी मया पृष्टः प्रश्रयानतकन्धरः
जगाद श्लक्ष्णया वाचा पक्षीवाक्यविदांवरः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
देवेश धूर्जटे विद्धि मां मरालं स्वयम्भुवः
कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो ॥ ४२ ॥
मूलम्
देवेश धूर्जटे विद्धि मां मरालं स्वयम्भुवः
कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तदाकर्णय सर्वज्ञ पृष्टं यदि तदुच्यते
मानसात्सरसः पृथ्वीं यातः प्राप्तोस्मि सङ्कटम् ॥ ४३ ॥
मूलम्
तदाकर्णय सर्वज्ञ पृष्टं यदि तदुच्यते
मानसात्सरसः पृथ्वीं यातः प्राप्तोस्मि सङ्कटम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सौराष्ट्रनगरादारात्सरसि स्फुटदम्बुजे
बालेन्दुखण्डधवलान्मृणालकवलानहम् ॥ ४४ ॥
मूलम्
सौराष्ट्रनगरादारात्सरसि स्फुटदम्बुजे
बालेन्दुखण्डधवलान्मृणालकवलानहम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
आदाय बलमाश्रित्य निरगां गगनं द्रुतम्
विहायसस्ततस्तस्मादकस्मादपतं भुवि ॥ ४५ ॥
मूलम्
आदाय बलमाश्रित्य निरगां गगनं द्रुतम्
विहायसस्ततस्तस्मादकस्मादपतं भुवि ॥ ४५ ॥
विश्वास-प्रस्तुतिः
अथ मोहपरीतात्मा सर्वथा विकलेन्द्रियः
वेपमानवपुर्मोहात्स्पृष्टः शीतैः समीरणैः ॥ ४६ ॥
मूलम्
अथ मोहपरीतात्मा सर्वथा विकलेन्द्रियः
वेपमानवपुर्मोहात्स्पृष्टः शीतैः समीरणैः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
प्रबुद्धः पतने हेतुमपश्यन्नात्मनस्तदा
अहो किमेतदापन्नमद्य पातः कथं मम ॥ ४७ ॥
मूलम्
प्रबुद्धः पतने हेतुमपश्यन्नात्मनस्तदा
अहो किमेतदापन्नमद्य पातः कथं मम ॥ ४७ ॥
विश्वास-प्रस्तुतिः
कालिमा येन कायेस्मिन्पक्वकर्पूरपाण्डुरे
इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणम् ॥ ४८ ॥
मूलम्
कालिमा येन कायेस्मिन्पक्वकर्पूरपाण्डुरे
इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तावदम्बुरुहाद्वाणीमश्रौषमहमीदृशीम्
उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ष्ण्ययोः ॥ ४९ ॥
मूलम्
तावदम्बुरुहाद्वाणीमश्रौषमहमीदृशीम्
उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ष्ण्ययोः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अथोत्थाय समागत्य मया मध्ये सरोवरे
दृष्टराजीविनीरम्या राजीवैः पञ्चभिर्युता 6.184.॥ ५० ॥
मूलम्
अथोत्थाय समागत्य मया मध्ये सरोवरे
दृष्टराजीविनीरम्या राजीवैः पञ्चभिर्युता 6.184.॥ ५० ॥
विश्वास-प्रस्तुतिः
कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च
अथ तत्र घनश्यामान्स्वर्णवर्णाम्बरावृतान् ॥ ५१ ॥
मूलम्
कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च
अथ तत्र घनश्यामान्स्वर्णवर्णाम्बरावृतान् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
चतुर्भुजान्गदाशङ्खचक्रपङ्केरुहायुधान्
किरीटहारकेयूरकुण्डलद्युतिचित्रितान् ॥ ५२ ॥
मूलम्
चतुर्भुजान्गदाशङ्खचक्रपङ्केरुहायुधान्
किरीटहारकेयूरकुण्डलद्युतिचित्रितान् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अद्राक्षमन्तरिक्षस्थान्पुरुषानयुतानि षट्
नत्वा प्रदक्षिणीकृत्य पञ्चपद्मां सरोजिनीम् ॥ ५३ ॥
मूलम्
अद्राक्षमन्तरिक्षस्थान्पुरुषानयुतानि षट्
नत्वा प्रदक्षिणीकृत्य पञ्चपद्मां सरोजिनीम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
आत्मीयं पातमारभ्य पृष्टं तदखिलं मया
पद्मिन्युवाच
कलहंस गतोऽसि त्वं मां विलङ्घ्य विहायसा ॥ ५४ ॥
मूलम्
आत्मीयं पातमारभ्य पृष्टं तदखिलं मया
पद्मिन्युवाच
कलहंस गतोऽसि त्वं मां विलङ्घ्य विहायसा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तेन पातकयोगेन पतितोऽसि महीतले
तेनैव कालिमा काये पक्षिसत्तम लक्ष्यते ॥ ५५ ॥
मूलम्
तेन पातकयोगेन पतितोऽसि महीतले
तेनैव कालिमा काये पक्षिसत्तम लक्ष्यते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
भवन्तं पतितं वीक्ष्य कृपापूर्णेन चेतसा
मध्यमेनामुनाब्जेन वदता जातसौरभम् ॥ ५६ ॥
मूलम्
भवन्तं पतितं वीक्ष्य कृपापूर्णेन चेतसा
मध्यमेनामुनाब्जेन वदता जातसौरभम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
आघ्राय षट्पदाः षष्टिसहस्राणि दिवं ययुः
एते ये भवतां दृष्टाः नीलोत्पलसमत्विषः ॥ ५७ ॥
मूलम्
आघ्राय षट्पदाः षष्टिसहस्राणि दिवं ययुः
एते ये भवतां दृष्टाः नीलोत्पलसमत्विषः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः
अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ॥ ५८ ॥
मूलम्
सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः
अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
कदाचित्कामिनी काचिच्चम्पकस्तबकस्तनी
चलापाङ्गकालाकान्ततरङ्गित रसालिनी ॥ ५९ ॥
मूलम्
कदाचित्कामिनी काचिच्चम्पकस्तबकस्तनी
चलापाङ्गकालाकान्ततरङ्गित रसालिनी ॥ ५९ ॥
विश्वास-प्रस्तुतिः
नासा मुक्ताफलज्योत्स्ना चुम्बितस्मित दीधितिः
वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ ॥ ६० ॥
मूलम्
नासा मुक्ताफलज्योत्स्ना चुम्बितस्मित दीधितिः
वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ ॥ ६० ॥
विश्वास-प्रस्तुतिः
गायन्त्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव
तां समागत्य ते सर्वे सममेव व्यलोकयन् ॥ ६१ ॥
मूलम्
गायन्त्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव
तां समागत्य ते सर्वे सममेव व्यलोकयन् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम्
मुष्टामुष्टि ततस्तेषां भ्रातॄणामभवद्रणः ॥ ६२ ॥
मूलम्
मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम्
मुष्टामुष्टि ततस्तेषां भ्रातॄणामभवद्रणः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अन्योन्यमुष्टिनिष्पिष्ट वक्षसस्त्यक्तजीविताः
ते भुक्त्वा निरयान्घोरान्बभूवुः सारसा भुवि ॥ ६३ ॥
मूलम्
अन्योन्यमुष्टिनिष्पिष्ट वक्षसस्त्यक्तजीविताः
ते भुक्त्वा निरयान्घोरान्बभूवुः सारसा भुवि ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तदा ते श्वापदान्जघ्नुर्दग्धावन्येन वह्निना
ततो मातङ्गतामेत्य पथिपान्थानघातयन् ॥ ६४ ॥
मूलम्
तदा ते श्वापदान्जघ्नुर्दग्धावन्येन वह्निना
ततो मातङ्गतामेत्य पथिपान्थानघातयन् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
वने विषोदकं पीत्वा ते ययुर्यममन्दिरम्
खरोष्ट्रकपिमार्जार जन्मान्यासाद्य च क्रमात् ॥ ६५ ॥
मूलम्
वने विषोदकं पीत्वा ते ययुर्यममन्दिरम्
खरोष्ट्रकपिमार्जार जन्मान्यासाद्य च क्रमात् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
ततो मधुव्रता जाता वर्तन्तेऽत्र सरोवरे
अद्य मे गन्धमाघ्राय प्रापुस्ते वैष्णवं पदम् ॥ ६६ ॥
मूलम्
ततो मधुव्रता जाता वर्तन्तेऽत्र सरोवरे
अद्य मे गन्धमाघ्राय प्रापुस्ते वैष्णवं पदम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
शृणु पक्षीन्द्र वक्ष्यामि येन मय्यस्ति वैभवम्
एतस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ ॥ ६७ ॥
मूलम्
शृणु पक्षीन्द्र वक्ष्यामि येन मय्यस्ति वैभवम्
एतस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ ॥ ६७ ॥
विश्वास-प्रस्तुतिः
सरोजवदनानाम द्विजातेः कन्यकाऽभवम्
पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता ॥ ६८ ॥
मूलम्
सरोजवदनानाम द्विजातेः कन्यकाऽभवम्
पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता ॥ ६८ ॥
विश्वास-प्रस्तुतिः
कदाचित्सारिकामेकां पाठयन्त्याविलम्बितम्
सारिका भव पापे त्वं पत्या शप्तास्मि कुप्यता ॥ ६९ ॥
मूलम्
कदाचित्सारिकामेकां पाठयन्त्याविलम्बितम्
सारिका भव पापे त्वं पत्या शप्तास्मि कुप्यता ॥ ६९ ॥
विश्वास-प्रस्तुतिः
प्रेत्य सारित्वमासाद्य पातिव्रत्यप्रसादतः
मुनीनामेव सदने कन्या काचित्पुपोष माम् ॥ ७० ॥
मूलम्
प्रेत्य सारित्वमासाद्य पातिव्रत्यप्रसादतः
मुनीनामेव सदने कन्या काचित्पुपोष माम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
गीतानां दशमाध्यायं विभूतिरिति विश्रुतम्
प्रातः पठति विप्रोसावश्रौषं तमघापहम् ॥ ७१ ॥
मूलम्
गीतानां दशमाध्यायं विभूतिरिति विश्रुतम्
प्रातः पठति विप्रोसावश्रौषं तमघापहम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
कालेन सारिकादेहमहं हित्वा विहङ्गम
दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि ॥ ७२ ॥
मूलम्
कालेन सारिकादेहमहं हित्वा विहङ्गम
दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि ॥ ७२ ॥
विश्वास-प्रस्तुतिः
पद्मावतीति विख्याता पद्माया दयिता सुखी
कदाचन मया यान्त्या विमानेन विहायसा ॥ ७३ ॥
मूलम्
पद्मावतीति विख्याता पद्माया दयिता सुखी
कदाचन मया यान्त्या विमानेन विहायसा ॥ ७३ ॥
विश्वास-प्रस्तुतिः
एतत्सरोवरं रम्यं विलोक्य विमलाम्बुजम्
अवतीर्य जलक्रीडायावदारभ्यते मया ॥ ७४ ॥
मूलम्
एतत्सरोवरं रम्यं विलोक्य विमलाम्बुजम्
अवतीर्य जलक्रीडायावदारभ्यते मया ॥ ७४ ॥
विश्वास-प्रस्तुतिः
दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता
तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् ॥ ७५ ॥
मूलम्
दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता
तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च
मुखेन पञ्चमाम्भोजमिति पञ्चाम्बुजास्म्यहम् ॥ ७६ ॥
मूलम्
पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च
मुखेन पञ्चमाम्भोजमिति पञ्चाम्बुजास्म्यहम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
दृष्टा तेन मुनीन्द्रेण कोपज्वलित चक्षुषा
अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः ॥ ७७ ॥
मूलम्
दृष्टा तेन मुनीन्द्रेण कोपज्वलित चक्षुषा
अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
इति शापं समुत्सृज्य स चैवान्तर्दधे क्षणात्
विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते ॥ ७८ ॥
मूलम्
इति शापं समुत्सृज्य स चैवान्तर्दधे क्षणात्
विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते ॥ ७८ ॥
विश्वास-प्रस्तुतिः
मद्विलङ्घनमात्रेण पतितोसि महीतले
अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम ॥ ७९ ॥
मूलम्
मद्विलङ्घनमात्रेण पतितोसि महीतले
अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम ॥ ७९ ॥
विश्वास-प्रस्तुतिः
निशामय मया गीयमानमध्यायमुत्तमम्
यस्याकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ॥ ८० ॥
मूलम्
निशामय मया गीयमानमध्यायमुत्तमम्
यस्याकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ॥ ८० ॥
विश्वास-प्रस्तुतिः
इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा
तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ॥ ८१ ॥
मूलम्
इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा
तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमम्
इत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ॥ ८२ ॥
मूलम्
मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमम्
इत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
भृङ्गिरिटिरुवाच
पुरातने भवे कोऽयं ब्रह्म हंसोऽभवत्कथं
तवाग्रतः कुतो हेतोरुत्ससर्ज कलेवरम् ॥ ८३ ॥
मूलम्
भृङ्गिरिटिरुवाच
पुरातने भवे कोऽयं ब्रह्म हंसोऽभवत्कथं
तवाग्रतः कुतो हेतोरुत्ससर्ज कलेवरम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
इति भृङ्गिरिटिर्वाक्यमाकर्ण्याहं तदाब्रुवम्
द्विजवेश्मनि पूर्वस्मिन्जन्मन्ययमजायत ॥ ८४ ॥
मूलम्
इति भृङ्गिरिटिर्वाक्यमाकर्ण्याहं तदाब्रुवम्
द्विजवेश्मनि पूर्वस्मिन्जन्मन्ययमजायत ॥ ८४ ॥
विश्वास-प्रस्तुतिः
सुतपा इति विख्यातो ब्रह्मचारी जितेन्द्रियः
वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ॥ ८५ ॥
मूलम्
सुतपा इति विख्यातो ब्रह्मचारी जितेन्द्रियः
वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
गुरुशुश्रूषणं सम्यग्विदधाति च भक्तितः
शयानस्य गुरोः शय्यां निद्रितः सपदा स्पृशत् ॥ ८६ ॥
मूलम्
गुरुशुश्रूषणं सम्यग्विदधाति च भक्तितः
शयानस्य गुरोः शय्यां निद्रितः सपदा स्पृशत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान्
पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ॥ ८७ ॥
मूलम्
तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान्
पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
अस्मिञ्जन्मन्यमुष्येह पुरास्मल्लोकनावधि
गीतानां दशमाध्यायं नलिन्या कथितं ततः ॥ ८८ ॥
मूलम्
अस्मिञ्जन्मन्यमुष्येह पुरास्मल्लोकनावधि
गीतानां दशमाध्यायं नलिन्या कथितं ततः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम्
सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ॥ ८९ ॥
मूलम्
आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम्
सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
जन्माभ्यासवशादस्य शिशोरपि मुखाम्बुजात्
गीतानां दशमाध्यायः समुल्लसति सर्वदा ॥ ९० ॥
मूलम्
जन्माभ्यासवशादस्य शिशोरपि मुखाम्बुजात्
गीतानां दशमाध्यायः समुल्लसति सर्वदा ॥ ९० ॥
विश्वास-प्रस्तुतिः
तदर्थपरिणामेन सर्वभूतेष्ववस्थितम्
शङ्खचक्रधरं देवमयं पश्यति सर्वदा ॥ ९१ ॥
मूलम्
तदर्थपरिणामेन सर्वभूतेष्ववस्थितम्
शङ्खचक्रधरं देवमयं पश्यति सर्वदा ॥ ९१ ॥
विश्वास-प्रस्तुतिः
यस्मिन्यस्मिन्यदैवास्य दृष्टिः स्निग्धा शरीरिणः
स स मुक्तो भवेत्सर्वः सुरापो ब्रह्महाऽपि वा ॥ ९२ ॥
मूलम्
यस्मिन्यस्मिन्यदैवास्य दृष्टिः स्निग्धा शरीरिणः
स स मुक्तो भवेत्सर्वः सुरापो ब्रह्महाऽपि वा ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा
इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः ॥ ९३ ॥
मूलम्
तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा
इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता
तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ॥ ९४ ॥
मूलम्
अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता
तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ॥ ९४ ॥
विश्वास-प्रस्तुतिः
न ददामि बहिर्गन्तुमहमस्य पुरा कृतम्
दशमाध्यायमहात्म्यात्तत्वज्ञानं सुदुर्लभम् ॥ ९५ ॥
मूलम्
न ददामि बहिर्गन्तुमहमस्य पुरा कृतम्
दशमाध्यायमहात्म्यात्तत्वज्ञानं सुदुर्लभम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा
तेनास्य चलतो हस्तं ददामि पथि गच्छतः ॥ ९६ ॥
मूलम्
लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा
तेनास्य चलतो हस्तं ददामि पथि गच्छतः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
दशमाध्यायमहिमा भृङ्गिरिटे महानयम्
इति भृङ्गिरिटेरग्रे कथितं यत्कथानकम् ॥ ९७ ॥
मूलम्
दशमाध्यायमहिमा भृङ्गिरिटे महानयम्
इति भृङ्गिरिटेरग्रे कथितं यत्कथानकम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
तवेदमत्र कथितं सर्वपापप्रणाशनम्
नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः ॥ ९८ ॥
मूलम्
तवेदमत्र कथितं सर्वपापप्रणाशनम्
नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ॥ ९९ ॥
मूलम्
अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ॥ ९९ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीतामाहात्म्ये चतुरशीत्यधिकशततमोध्यायः १८४