श्रीमहादेव उवाच
विश्वास-प्रस्तुतिः
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात्
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके ॥ १ ॥
मूलम्
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात्
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके ॥ १ ॥
विश्वास-प्रस्तुतिः
अस्ति माहिष्मतीनाम नगरी नर्मदातटे
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः ॥ २ ॥
मूलम्
अस्ति माहिष्मतीनाम नगरी नर्मदातटे
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः ॥ २ ॥
विश्वास-प्रस्तुतिः
वेदवेदाङ्गतत्वज्ञः कालेकालेऽतिथिप्रियः
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ॥ ३ ॥
मूलम्
वेदवेदाङ्गतत्वज्ञः कालेकालेऽतिथिप्रियः
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ॥ ३ ॥
विश्वास-प्रस्तुतिः
महान्तमध्वरं कर्तुं समारेभे कदाचन
आलम्भनार्थमानीतश्छागः पूजितविग्रहः ॥ ४ ॥
मूलम्
महान्तमध्वरं कर्तुं समारेभे कदाचन
आलम्भनार्थमानीतश्छागः पूजितविग्रहः ॥ ४ ॥
विश्वास-प्रस्तुतिः
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ॥ ५ ॥
मूलम्
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ॥ ५ ॥
विश्वास-प्रस्तुतिः
विनश्वरफलैर्जन्म जरामरणहेतुभिः
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ॥ ६ ॥
मूलम्
विनश्वरफलैर्जन्म जरामरणहेतुभिः
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ॥ ६ ॥
विश्वास-प्रस्तुतिः
छागस्यैवं वचोतीव कुतूहलपरं जनाः
निशम्यविस्मयं याताः कृतमण्डपवासिनः ॥ ७ ॥
मूलम्
छागस्यैवं वचोतीव कुतूहलपरं जनाः
निशम्यविस्मयं याताः कृतमण्डपवासिनः ॥ ७ ॥
विश्वास-प्रस्तुतिः
ततो बद्धाञ्जलिपुटो द्विजातिस्तिमितेक्षणः
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ॥ ८ ॥
मूलम्
ततो बद्धाञ्जलिपुटो द्विजातिस्तिमितेक्षणः
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ॥ ८ ॥
विश्वास-प्रस्तुतिः
द्विज उवाच
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ॥ ९ ॥
मूलम्
द्विज उवाच
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
छाग उवाच
आसं पुरा द्विजातीनामन्वये चातिनिर्मले
आहर्ता क्रतुसङ्घानां वेदविद्याविशारदः ॥ १० ॥
मूलम्
छाग उवाच
आसं पुरा द्विजातीनामन्वये चातिनिर्मले
आहर्ता क्रतुसङ्घानां वेदविद्याविशारदः ॥ १० ॥
विश्वास-प्रस्तुतिः
एकदा मम गेहिन्या पुत्ररोगप्रशान्तये
छागः प्रयाचितो मत्तः चण्डिकाभक्तिनम्रया ॥ ११ ॥
मूलम्
एकदा मम गेहिन्या पुत्ररोगप्रशान्तये
छागः प्रयाचितो मत्तः चण्डिकाभक्तिनम्रया ॥ ११ ॥
विश्वास-प्रस्तुतिः
ततो निहन्यमानस्य चण्डिकामण्डपस्थले
छागस्य जननी मां तु शशाप ब्रह्मवादिनी ॥ १२ ॥
मूलम्
ततो निहन्यमानस्य चण्डिकामण्डपस्थले
छागस्य जननी मां तु शशाप ब्रह्मवादिनी ॥ १२ ॥
विश्वास-प्रस्तुतिः
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि ॥ १३ ॥
मूलम्
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि ॥ १३ ॥
विश्वास-प्रस्तुतिः
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम
निस्तीर्य चानेकविधा योनिसन्तापयातनाः ॥ १४ ॥
मूलम्
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम
निस्तीर्य चानेकविधा योनिसन्तापयातनाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
विप्र उवाच
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् ॥ १५ ॥
मूलम्
विप्र उवाच
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
छाग उवाच
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम्
कदाचिन्मर्कटो भूवमाहितुण्डिकशिक्षया ॥ १६ ॥
मूलम्
छाग उवाच
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम्
कदाचिन्मर्कटो भूवमाहितुण्डिकशिक्षया ॥ १६ ॥
विश्वास-प्रस्तुतिः
क्रीडद्भिर्वीक्षितो डिम्भैर्नृत्यन्प्रतिगृहाङ्गणे
उदारानात्मनो दारान्विलोक्य तनयानपि ॥ १७ ॥
मूलम्
क्रीडद्भिर्वीक्षितो डिम्भैर्नृत्यन्प्रतिगृहाङ्गणे
उदारानात्मनो दारान्विलोक्य तनयानपि ॥ १७ ॥
विश्वास-प्रस्तुतिः
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसम्भ्रमः
ततो वर्तुलदण्डैश्च दुःसहैराहितुण्डिकः ॥ १८ ॥
मूलम्
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसम्भ्रमः
ततो वर्तुलदण्डैश्च दुःसहैराहितुण्डिकः ॥ १८ ॥
विश्वास-प्रस्तुतिः
मामुच्चैस्ताडयाञ्चक्रे रुषा लोहितलोचनः
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसन्ततिः ॥ १९ ॥
मूलम्
मामुच्चैस्ताडयाञ्चक्रे रुषा लोहितलोचनः
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसन्ततिः ॥ १९ ॥
विश्वास-प्रस्तुतिः
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम्
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे ॥ २० ॥
मूलम्
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम्
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे ॥ २० ॥
विश्वास-प्रस्तुतिः
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः
कदाचिदाविशं स्वान्तरात्मवेश्ममहानसम् ॥ २१ ॥
मूलम्
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः
कदाचिदाविशं स्वान्तरात्मवेश्ममहानसम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम्
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् ॥ २२ ॥
मूलम्
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम्
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् ॥ २२ ॥
विश्वास-प्रस्तुतिः
शङ्कमानो जनरवात्पार्श्वे च विलिहन्निव
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः ॥ २३ ॥
मूलम्
शङ्कमानो जनरवात्पार्श्वे च विलिहन्निव
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः ॥ २३ ॥
विश्वास-प्रस्तुतिः
जायया च जरत्याहं ताडितो लकुटादिभिः
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन् ॥ २४ ॥
मूलम्
जायया च जरत्याहं ताडितो लकुटादिभिः
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन् ॥ २४ ॥
विश्वास-प्रस्तुतिः
निर्जगाम बहिर्गेहात्कथञ्चिन्मूर्च्छयाकुलः
अङ्गेषु पूतिगन्धेषु क्रिमिगर्भेषु कालतः ॥ २५ ॥
मूलम्
निर्जगाम बहिर्गेहात्कथञ्चिन्मूर्च्छयाकुलः
अङ्गेषु पूतिगन्धेषु क्रिमिगर्भेषु कालतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ततः कदश्वतां प्राप्तः शौण्डिकस्य च वेश्मनि
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह ॥ २६ ॥
मूलम्
ततः कदश्वतां प्राप्तः शौण्डिकस्य च वेश्मनि
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह ॥ २६ ॥
विश्वास-प्रस्तुतिः
कदाचिच्चत्वरे तेन समानीतो जनाकुले
विक्रयाय जरालीढ पतयालुरदावलि ॥ २७ ॥
मूलम्
कदाचिच्चत्वरे तेन समानीतो जनाकुले
विक्रयाय जरालीढ पतयालुरदावलि ॥ २७ ॥
विश्वास-प्रस्तुतिः
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत्
मौल्येनाल्पीयसा क्रेतुं तुरङ्गं चेष्टमानया ॥ २८ ॥
मूलम्
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत्
मौल्येनाल्पीयसा क्रेतुं तुरङ्गं चेष्टमानया ॥ २८ ॥
विश्वास-प्रस्तुतिः
जगृहेहं तया दाम्ना अल्पेन वसुना जरन्
गन्तुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम् ॥ २९ ॥
मूलम्
जगृहेहं तया दाम्ना अल्पेन वसुना जरन्
गन्तुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे ॥ ३० ॥
मूलम्
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे ॥ ३० ॥
विश्वास-प्रस्तुतिः
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् ॥ ३१ ॥
मूलम्
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम् ॥ ३२ ॥
मूलम्
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ततः सम्प्रेत्य बहुना कालेन छागतां गतः
निस्तीर्णानेकहीनोच्च योनिसन्तापयातनः ॥ ३३ ॥
मूलम्
ततः सम्प्रेत्य बहुना कालेन छागतां गतः
निस्तीर्णानेकहीनोच्च योनिसन्तापयातनः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
द्विज उवाच
किमनेन महाछाग दुःखजातेन नित्यशः
यथावदञ्जसा मह्यं सुखमात्यन्तिकं भवेत् ॥ ३४ ॥
मूलम्
द्विज उवाच
किमनेन महाछाग दुःखजातेन नित्यशः
यथावदञ्जसा मह्यं सुखमात्यन्तिकं भवेत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
छाग उवाच
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम् ॥ ३५ ॥
मूलम्
छाग उवाच
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम्
सूर्यवंशोऽभवत्तत्र चन्द्रशर्मा महीपतिः ॥ ३६ ॥
मूलम्
अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम्
सूर्यवंशोऽभवत्तत्र चन्द्रशर्मा महीपतिः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सूर्योपरागसमये श्रद्धया परयान्वितः
दानं स कालपुरुषं दातुं समुपचक्रमे ॥ ३७ ॥
मूलम्
सूर्योपरागसमये श्रद्धया परयान्वितः
दानं स कालपुरुषं दातुं समुपचक्रमे ॥ ३७ ॥
विश्वास-प्रस्तुतिः
समाहूय द्विजन्मानं वेदवेदाङ्गपारगम्
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा ॥ ३८ ॥
मूलम्
समाहूय द्विजन्मानं वेदवेदाङ्गपारगम्
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव
अन्येनैव प्रगृह्णन्ति क्षेत्रे चाण्वपि किञ्चन ॥ ३९ ॥
मूलम्
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव
अन्येनैव प्रगृह्णन्ति क्षेत्रे चाण्वपि किञ्चन ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले
दानं च कालपुरुषं जिघृक्षसि कथं द्विज ॥ ४० ॥
मूलम्
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले
दानं च कालपुरुषं जिघृक्षसि कथं द्विज ॥ ४० ॥
विश्वास-प्रस्तुतिः
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम्
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ॥ ४१ ॥
मूलम्
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम्
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ॥ ४१ ॥
विश्वास-प्रस्तुतिः
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम्
किमनेन महादानभयेनेत्यवदद्द्विजः ॥ ४२ ॥
मूलम्
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम्
किमनेन महादानभयेनेत्यवदद्द्विजः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एवंविध महादान पातकागाधवारिधिम्
जानामि तरितुं सम्यगुपायमहमेव हि ॥ ४३ ॥
मूलम्
एवंविध महादान पातकागाधवारिधिम्
जानामि तरितुं सम्यगुपायमहमेव हि ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ततः स्नात्वा महीपालः परिधाय च वाससी
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ॥ ४४ ॥
मूलम्
ततः स्नात्वा महीपालः परिधाय च वाससी
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अवलम्ब्य कराम्भोजं पार्श्ववर्तिपुरोधसः
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः ॥ ४५ ॥
मूलम्
अवलम्ब्य कराम्भोजं पार्श्ववर्तिपुरोधसः
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
समागत्य च भूपालः सम्प्रादात्कालपूरुषम्
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ॥ ४६ ॥
मूलम्
समागत्य च भूपालः सम्प्रादात्कालपूरुषम्
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ॥ ४६ ॥
विश्वास-प्रस्तुतिः
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः
पापात्मा निर्ययौ कश्चिच्चाण्डालो रक्तलोचनः ॥ ४७ ॥
मूलम्
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः
पापात्मा निर्ययौ कश्चिच्चाण्डालो रक्तलोचनः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
किञ्च प्रापितकालस्य परनिन्दारसोत्सवे
निन्दा चाण्डालिका देहपार्श्वमागाद्द्विजन्मनः ॥ ४८ ॥
मूलम्
किञ्च प्रापितकालस्य परनिन्दारसोत्सवे
निन्दा चाण्डालिका देहपार्श्वमागाद्द्विजन्मनः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
एतच्चाण्डालयुगलं निर्गत्यारुणलोचनम्
ततः सञ्चरितं चक्रे प्रसह्याङ्गे द्विजन्मनः ॥ ४९ ॥
मूलम्
एतच्चाण्डालयुगलं निर्गत्यारुणलोचनम्
ततः सञ्चरितं चक्रे प्रसह्याङ्गे द्विजन्मनः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः
कम्पमानं द्विजं किञ्चित्तूष्णीं पश्यति भूपतौ 6.183.॥ ५० ॥
मूलम्
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः
कम्पमानं द्विजं किञ्चित्तूष्णीं पश्यति भूपतौ 6.183.॥ ५० ॥
विश्वास-प्रस्तुतिः
अन्तर्निद्राणगोविन्दं कम्पमानमिवाम्बुधिम्
मरुदान्दोलनैर्विद्वान्द्विजन्मा पापसंश्रयम् ॥ ५१ ॥
मूलम्
अन्तर्निद्राणगोविन्दं कम्पमानमिवाम्बुधिम्
मरुदान्दोलनैर्विद्वान्द्विजन्मा पापसंश्रयम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम्
पलायमानं चाण्डालयुगलं निष्फलोद्यमम् ॥ ५२ ॥
मूलम्
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम्
पलायमानं चाण्डालयुगलं निष्फलोद्यमम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत्
शरीरे वर्त्तमानं च परनिन्दारसोत्सवे ॥ ५३ ॥
मूलम्
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत्
शरीरे वर्त्तमानं च परनिन्दारसोत्सवे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
इत्थं कलितवृत्तान्तः प्रत्यक्षं क्षितिवल्लभः
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः ॥ ५४ ॥
मूलम्
इत्थं कलितवृत्तान्तः प्रत्यक्षं क्षितिवल्लभः
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कथमापदियं घोरा निस्तीर्णा महती त्वया
कं मन्त्रं जपता विप्र कं वासं स्मरतासुरम् ॥ ५५ ॥
मूलम्
कथमापदियं घोरा निस्तीर्णा महती त्वया
कं मन्त्रं जपता विप्र कं वासं स्मरतासुरम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ
कथं च शान्तिमापन्नावित्युदीरय मे द्विज ॥ ५६ ॥
मूलम्
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ
कथं च शान्तिमापन्नावित्युदीरय मे द्विज ॥ ५६ ॥
विश्वास-प्रस्तुतिः
द्विज उवाच
चाण्डालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम्
योषिन्मूर्त्तिमयीं निन्दाद्वयमेतदवैम्यहम् ॥ ५७ ॥
मूलम्
द्विज उवाच
चाण्डालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम्
योषिन्मूर्त्तिमयीं निन्दाद्वयमेतदवैम्यहम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
गीताया नवमाध्यायमन्त्रमाला मया स्मृता
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते ॥ ५८ ॥
मूलम्
गीताया नवमाध्यायमन्त्रमाला मया स्मृता
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते ॥ ५८ ॥
विश्वास-प्रस्तुतिः
गीताया नवमाध्यायं जपामि प्रत्यहं नृप
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसम्भवाः ॥ ५९ ॥
मूलम्
गीताया नवमाध्यायं जपामि प्रत्यहं नृप
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसम्भवाः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम् ॥ ६० ॥
मूलम्
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम् ॥ ६० ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः १८३