१८२

शिव उवाच

विश्वास-प्रस्तुतिः

अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि ॥ १ ॥

मूलम्

अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि ॥ १ ॥

विश्वास-प्रस्तुतिः

आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः ॥ २ ॥

मूलम्

आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः ॥ २ ॥

विश्वास-प्रस्तुतिः

खादन्मांसं पिबन्मद्यं चोरयन्साधुसम्पदः
रममाणः परस्त्रीभिराखेटक कुतूहली ॥ ३ ॥

मूलम्

खादन्मांसं पिबन्मद्यं चोरयन्साधुसम्पदः
रममाणः परस्त्रीभिराखेटक कुतूहली ॥ ३ ॥

विश्वास-प्रस्तुतिः

अत्यवाहयदत्युग्रो गरीयांसं मनोरथम्
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ॥ ४ ॥

मूलम्

अत्यवाहयदत्युग्रो गरीयांसं मनोरथम्
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

निपीय कण्ठपर्यन्तमजीर्णेनातिपीडितः
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ॥ ५ ॥

मूलम्

निपीय कण्ठपर्यन्तमजीर्णेनातिपीडितः
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ॥ ५ ॥

विश्वास-प्रस्तुतिः

तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम्
अभूतां दम्पती कौचिद्ब्रह्मराक्षसतां गतौ ॥ ६ ॥

मूलम्

तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम्
अभूतां दम्पती कौचिद्ब्रह्मराक्षसतां गतौ ॥ ६ ॥

विश्वास-प्रस्तुतिः

देव्युवाच
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ॥ ७ ॥

मूलम्

देव्युवाच
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ॥ ७ ॥

विश्वास-प्रस्तुतिः

शिव उवाच
वेदवेदाङ्गतत्वज्ञः सर्वशास्त्रार्थकोविदः
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ॥ ८ ॥

मूलम्

शिव उवाच
वेदवेदाङ्गतत्वज्ञः सर्वशास्त्रार्थकोविदः
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ॥ ८ ॥

विश्वास-प्रस्तुतिः

जाया च तस्य कुमति नामधेया दुराशया
स सभार्यो महादानान्याददानोऽतिलोभवान् ॥ ९ ॥

मूलम्

जाया च तस्य कुमति नामधेया दुराशया
स सभार्यो महादानान्याददानोऽतिलोभवान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

महिषीं कालपुरुषं हयादीननुवासरम्
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् ॥ १० ॥

मूलम्

महिषीं कालपुरुषं हयादीननुवासरम्
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् ॥ १० ॥

विश्वास-प्रस्तुतिः

कालेन दम्पती प्रेतौ ब्रह्मराक्षसरूपिणौ
पर्यटन्तौ महीमेतां क्षुत्तृषाकुलविग्रहौ ॥ ११ ॥

मूलम्

कालेन दम्पती प्रेतौ ब्रह्मराक्षसरूपिणौ
पर्यटन्तौ महीमेतां क्षुत्तृषाकुलविग्रहौ ॥ ११ ॥

विश्वास-प्रस्तुतिः

विशश्रमतुरागत्य मूलं तालीतरोस्ततः
कथमेतन्महादुःखमावयोरपगच्छति ॥ १२ ॥

मूलम्

विशश्रमतुरागत्य मूलं तालीतरोस्ततः
कथमेतन्महादुःखमावयोरपगच्छति ॥ १२ ॥

विश्वास-प्रस्तुतिः

कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत ॥ १३ ॥

मूलम्

कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत ॥ १३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात्
विनाकर्मविधिज्ञानात्कथं मुच्येत सङ्कटात् ॥ १४ ॥

मूलम्

ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात्
विनाकर्मविधिज्ञानात्कथं मुच्येत सङ्कटात् ॥ १४ ॥

विश्वास-प्रस्तुतिः

भार्योवाच
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु ॥ १५ ॥

मूलम्

भार्योवाच
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु ॥ १५ ॥

विश्वास-प्रस्तुतिः

अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा
विहाय तालीरूपं तद्बभूव द्विजसत्तमः ॥ १६ ॥

मूलम्

अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा
विहाय तालीरूपं तद्बभूव द्विजसत्तमः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सद्योज्ञानविधूतात्मा विमुक्तः पापकञ्चुकात्
तन्माहात्म्याद्विनिर्मुक्तौ दम्पती तौ बभूवतुः ॥ १७ ॥

मूलम्

सद्योज्ञानविधूतात्मा विमुक्तः पापकञ्चुकात्
तन्माहात्म्याद्विनिर्मुक्तौ दम्पती तौ बभूवतुः ॥ १७ ॥

विश्वास-प्रस्तुतिः

एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात्
ततोन्तरिक्षादायान्तं क्वणत्किङ्किणिकं शुभम् ॥ १८ ॥

मूलम्

एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात्
ततोन्तरिक्षादायान्तं क्वणत्किङ्किणिकं शुभम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

दिवि दिव्याङ्गनावक्त्रचन्द्रमण्डलमण्डितम्
अप्सरोवदनाम्भोज भ्राम्यद्भ्रमरसङ्कुलम् ॥ १९ ॥

मूलम्

दिवि दिव्याङ्गनावक्त्रचन्द्रमण्डलमण्डितम्
अप्सरोवदनाम्भोज भ्राम्यद्भ्रमरसङ्कुलम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

निर्मथ्यमानदुग्धाब्धि वेलाडिण्डिरपाण्डुरैः
गङ्गातरङ्गसुभगैश्चामरैरुपशोभितम् ॥ २० ॥

मूलम्

निर्मथ्यमानदुग्धाब्धि वेलाडिण्डिरपाण्डुरैः
गङ्गातरङ्गसुभगैश्चामरैरुपशोभितम् ॥ २० ॥

विश्वास-प्रस्तुतिः

गायद्गन्धर्वसुभगं नृत्यत्सुरवधूशतम्
दिव्यं विमानमारूढौ दम्पती जग्मतुर्दिवम् ॥ २१ ॥

मूलम्

गायद्गन्धर्वसुभगं नृत्यत्सुरवधूशतम्
दिव्यं विमानमारूढौ दम्पती जग्मतुर्दिवम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम्
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् ॥ २२ ॥

मूलम्

अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम्
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् ॥ २२ ॥

विश्वास-प्रस्तुतिः

ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम्
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् ॥ २३ ॥

मूलम्

ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम्
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

स तत्र कर्तुमारेभे तपः परमुदारधीः
अत्रान्तरे जगन्नाथो देवदेवो जनार्दनः ॥ २४ ॥

मूलम्

स तत्र कर्तुमारेभे तपः परमुदारधीः
अत्रान्तरे जगन्नाथो देवदेवो जनार्दनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

पृष्टो दुग्धाब्धिसुतया संयोज्य करसम्पुटम्
निद्रापथं विहायैव स्थीयते कथ्यतामिति ॥ २५ ॥

मूलम्

पृष्टो दुग्धाब्धिसुतया संयोज्य करसम्पुटम्
निद्रापथं विहायैव स्थीयते कथ्यतामिति ॥ २५ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः
भावशर्माति मेधावी मद्भक्तिरसपूरितः ॥ २६ ॥

मूलम्

श्रीभगवानुवाच
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः
भावशर्माति मेधावी मद्भक्तिरसपूरितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेन्द्रियः
सन्तुष्टवानहं देवि तदीयतपसा भृशम् ॥ २७ ॥

मूलम्

जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेन्द्रियः
सन्तुष्टवानहं देवि तदीयतपसा भृशम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

चिरं विचारयन्नेव तत्तपः सदृशं फलम्
दातुमुत्कण्ठितमना वर्तेयं साम्प्रतं प्रिये ॥ २८ ॥

मूलम्

चिरं विचारयन्नेव तत्तपः सदृशं फलम्
दातुमुत्कण्ठितमना वर्तेयं साम्प्रतं प्रिये ॥ २८ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच
हरिः प्रसन्नभूतोऽपि चिन्तां प्राप यदि प्रभो
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः ॥ २९ ॥

मूलम्

पार्वत्युवाच
हरिः प्रसन्नभूतोऽपि चिन्तां प्राप यदि प्रभो
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः ॥ २९ ॥

विश्वास-प्रस्तुतिः

श्रीमहादेव उवाच
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः
सुखमात्यन्तिकं प्राप भावशर्मा द्विजोत्तमः
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ॥ ३० ॥

मूलम्

श्रीमहादेव उवाच
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः
सुखमात्यन्तिकं प्राप भावशर्मा द्विजोत्तमः
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तत्कर्मवशतो ये वै सम्प्राप्ता यातनां पुरा
एतदेवाष्टमाध्यायमाहात्म्यं किञ्चिदेव ते ॥ ३१ ॥

मूलम्

तत्कर्मवशतो ये वै सम्प्राप्ता यातनां पुरा
एतदेवाष्टमाध्यायमाहात्म्यं किञ्चिदेव ते ॥ ३१ ॥

कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च ३२