श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
पञ्चमस्याधुना देवि माहात्म्यं लोकपूजितम्
कथयामि समासेन सावधाना शृणु प्रिये ॥ १ ॥
मूलम्
पञ्चमस्याधुना देवि माहात्म्यं लोकपूजितम्
कथयामि समासेन सावधाना शृणु प्रिये ॥ १ ॥
विश्वास-प्रस्तुतिः
पिङ्गलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः
अवदाते कुले जातो विश्रुते वेदवादिनाम् ॥ २ ॥
मूलम्
पिङ्गलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः
अवदाते कुले जातो विश्रुते वेदवादिनाम् ॥ २ ॥
विश्वास-प्रस्तुतिः
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ॥ ३ ॥
मूलम्
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ॥ ४ ॥
मूलम्
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ॥ ४ ॥
विश्वास-प्रस्तुतिः
समातस्थे स तेनासौ पुरा भूमिभुजा सह
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ॥ ५ ॥
मूलम्
समातस्थे स तेनासौ पुरा भूमिभुजा सह
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ॥ ५ ॥
विश्वास-प्रस्तुतिः
तत उत्सिक्तगर्वोऽयं सूचमानो निरङ्कुशः
परच्छिद्राणि चामुष्मै विविक्ते स निरन्तरम् ॥ ६ ॥
मूलम्
तत उत्सिक्तगर्वोऽयं सूचमानो निरङ्कुशः
परच्छिद्राणि चामुष्मै विविक्ते स निरन्तरम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ॥ ७ ॥
मूलम्
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ॥ ७ ॥
विश्वास-प्रस्तुतिः
भ्रमत्यन्वेषयन्ती सा कामुकेन विहारिणी
तमन्तरायं मन्वाना निशीथिन्यां निजालये ॥ ८ ॥
मूलम्
भ्रमत्यन्वेषयन्ती सा कामुकेन विहारिणी
तमन्तरायं मन्वाना निशीथिन्यां निजालये ॥ ८ ॥
विश्वास-प्रस्तुतिः
निजघान शिरश्छित्त्वा निचखान महीतले
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ॥ ९ ॥
मूलम्
निजघान शिरश्छित्त्वा निचखान महीतले
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
दुर्जयान्नरकान्भुङ्क्त्वा गृध्रोऽभूद्विजने वने
भगन्दरेण रोगेण सापि हित्वा वरां तनुम् ॥ १० ॥
मूलम्
दुर्जयान्नरकान्भुङ्क्त्वा गृध्रोऽभूद्विजने वने
भगन्दरेण रोगेण सापि हित्वा वरां तनुम् ॥ १० ॥
विश्वास-प्रस्तुतिः
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी
कणानादातुकामां तां सञ्चरन्तीमितस्ततः ॥ ११ ॥
मूलम्
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी
कणानादातुकामां तां सञ्चरन्तीमितस्ततः ॥ ११ ॥
विश्वास-प्रस्तुतिः
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन्
नृकपाले पयः पूर्णे निपतन्तीं ततः शुकीम् ॥ १२ ॥
मूलम्
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन्
नृकपाले पयः पूर्णे निपतन्तीं ततः शुकीम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः
पत्नीवियोजिता प्राणैर्नृकपालजले ततः ॥ १३ ॥
मूलम्
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः
पत्नीवियोजिता प्राणैर्नृकपालजले ततः ॥ १३ ॥
विश्वास-प्रस्तुतिः
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः
पितृलोकं प्रपेदाते नीतौ तौ यमकिङ्करैः
प्राक्कृतं दुष्कृतं कर्म स्मरन्तौ भयभागिनौ ॥ १४ ॥
मूलम्
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः
पितृलोकं प्रपेदाते नीतौ तौ यमकिङ्करैः
प्राक्कृतं दुष्कृतं कर्म स्मरन्तौ भयभागिनौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम्
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् ॥ १५ ॥
मूलम्
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम्
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अनुजज्ञे ततो लोकमीप्सितं गन्तुमेतयोः
महापातकसङ्घातैरपि दुर्द्धर्षमानसौ ॥ १६ ॥
मूलम्
अनुजज्ञे ततो लोकमीप्सितं गन्तुमेतयोः
महापातकसङ्घातैरपि दुर्द्धर्षमानसौ ॥ १६ ॥
विश्वास-प्रस्तुतिः
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम्
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् ॥ १७ ॥
मूलम्
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम्
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
सञ्चितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम्
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ ॥ १८ ॥
मूलम्
सञ्चितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम्
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ ॥ १८ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः
आसीद्गङ्गातटे नाम्ना बुद्ध्वा ब्रह्म सनातनम् ॥ १९ ॥
मूलम्
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः
आसीद्गङ्गातटे नाम्ना बुद्ध्वा ब्रह्म सनातनम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
एकाकी निर्ममः शान्तो वीतरागो विमत्सरः
गीतानां पञ्चमाध्यायमावर्त्तयति सर्वदा ॥ २० ॥
मूलम्
एकाकी निर्ममः शान्तो वीतरागो विमत्सरः
गीतानां पञ्चमाध्यायमावर्त्तयति सर्वदा ॥ २० ॥
विश्वास-प्रस्तुतिः
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम्
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ ॥ २१ ॥
मूलम्
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम्
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् ॥ २२ ॥
मूलम्
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान्
गीतानां पञ्चमाध्यायमाहात्म्येन पवित्रितौ ॥ २३ ॥
मूलम्
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान्
गीतानां पञ्चमाध्यायमाहात्म्येन पवित्रितौ ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवं तौ बोधितौ तेन मुदितौ समवर्तिना
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् ॥ २४ ॥
मूलम्
एवं तौ बोधितौ तेन मुदितौ समवर्तिना
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् ॥ २४ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीता
माहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः १७९