श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु
बदरीत्वं समुत्सृज्य येन कन्ये दिवं गते ॥ १ ॥
मूलम्
चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु
बदरीत्वं समुत्सृज्य येन कन्ये दिवं गते ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीरुवाच
कथं कन्ये दिवं याते बदरीत्वं विसृज्य वै
ते कचास्तां पुरा देव कथं प्राप्ते तु मुख्यताम् ॥ २ ॥
मूलम्
श्रीरुवाच
कथं कन्ये दिवं याते बदरीत्वं विसृज्य वै
ते कचास्तां पुरा देव कथं प्राप्ते तु मुख्यताम् ॥ २ ॥
विश्वास-प्रस्तुतिः
एतद्वेदितुमिच्छामि नाथ वक्तुं त्वमर्हसि
न तु तृप्यामि शृण्वन्ती परमां च कथामिमाम् ॥ ३ ॥
मूलम्
एतद्वेदितुमिच्छामि नाथ वक्तुं त्वमर्हसि
न तु तृप्यामि शृण्वन्ती परमां च कथामिमाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
अस्ति भागीरथी तीरे नाम्ना वाराणसी पुरी
भरतो नाम युक्तात्मा तत्र विश्वेश्वरालये ॥ ४ ॥
मूलम्
श्रीभगवानुवाच
अस्ति भागीरथी तीरे नाम्ना वाराणसी पुरी
भरतो नाम युक्तात्मा तत्र विश्वेश्वरालये ॥ ४ ॥
विश्वास-प्रस्तुतिः
नित्यमात्मरतस्तुर्यं जपत्यध्यायमादरात्
तदभ्यासाददुष्टात्मा न द्वन्द्वैरभिभूयते ॥ ५ ॥
मूलम्
नित्यमात्मरतस्तुर्यं जपत्यध्यायमादरात्
तदभ्यासाददुष्टात्मा न द्वन्द्वैरभिभूयते ॥ ५ ॥
विश्वास-प्रस्तुतिः
काले कदाचन क्रीडन्ययौ स नगराद्बहिः
उपान्त्यवर्तिनो देवान्दिदृक्षुः स तपोधनः ॥ ६ ॥
मूलम्
काले कदाचन क्रीडन्ययौ स नगराद्बहिः
उपान्त्यवर्तिनो देवान्दिदृक्षुः स तपोधनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
विशश्राम तयोर्मूले बदर्योर्न्यपतत्फले
उपधाय तयोरेकामन्यामालम्ब्य चाङ्घ्रिणा ॥ ७ ॥
मूलम्
विशश्राम तयोर्मूले बदर्योर्न्यपतत्फले
उपधाय तयोरेकामन्यामालम्ब्य चाङ्घ्रिणा ॥ ७ ॥
विश्वास-प्रस्तुतिः
तपस्विनि ततो याते बदर्योश्च तथार्द्वयम्
शुष्कं निष्पत्रशाखं च दिवसैः पञ्चषैरभूत् ॥ ८ ॥
मूलम्
तपस्विनि ततो याते बदर्योश्च तथार्द्वयम्
शुष्कं निष्पत्रशाखं च दिवसैः पञ्चषैरभूत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
गृहे क्वचन विप्राणां जज्ञाते कन्यके ततः
वर्द्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः ॥ ९ ॥
मूलम्
गृहे क्वचन विप्राणां जज्ञाते कन्यके ततः
वर्द्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः ॥ ९ ॥
विश्वास-प्रस्तुतिः
विहृत्य दूरदेशेभ्यो यतिमायान्त मैक्ष्यत
गृहीत्वा चरणौ तस्य वचः सूनृतमब्रवीत् ॥ १० ॥
मूलम्
विहृत्य दूरदेशेभ्यो यतिमायान्त मैक्ष्यत
गृहीत्वा चरणौ तस्य वचः सूनृतमब्रवीत् ॥ १० ॥
विश्वास-प्रस्तुतिः
त्वत्प्रसादादेव मुने मोचितं द्वन्द्वमावयोः
उत्सृज्य बदरीभावं मानुष्यं प्रतिपद्यते ॥ ११ ॥
मूलम्
त्वत्प्रसादादेव मुने मोचितं द्वन्द्वमावयोः
उत्सृज्य बदरीभावं मानुष्यं प्रतिपद्यते ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवमुक्तो मुनिस्ताभ्यां विस्मृतः प्रत्युवाच सः
कदा वत्से युवां केन हेतुना मोचिते मया ॥ १२ ॥
मूलम्
एवमुक्तो मुनिस्ताभ्यां विस्मृतः प्रत्युवाच सः
कदा वत्से युवां केन हेतुना मोचिते मया ॥ १२ ॥
विश्वास-प्रस्तुतिः
युवयोर्बदरीत्वे च हेतुं ब्रूतां न वेद्म्यहम्
ऊचतुः कन्यके तस्मै बादर्ये हेतुमात्मनः ॥ १३ ॥
मूलम्
युवयोर्बदरीत्वे च हेतुं ब्रूतां न वेद्म्यहम्
ऊचतुः कन्यके तस्मै बादर्ये हेतुमात्मनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
आदौ विमोचने तस्माद्दुस्त्यजादपि कारणम्
अस्ति गोदावरी तीरे तीर्थं पुण्यप्रदं नृणाम् ॥ १४ ॥
मूलम्
आदौ विमोचने तस्माद्दुस्त्यजादपि कारणम्
अस्ति गोदावरी तीरे तीर्थं पुण्यप्रदं नृणाम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
च्छिन्नपापमिति ख्यातं परां कोटिमवापयत्
तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् ॥ १५ ॥
मूलम्
च्छिन्नपापमिति ख्यातं परां कोटिमवापयत्
तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
ग्रीष्मे महति दीप्तानां मध्यगो जातवेदसाम्
वर्षासु जलधाराभिर्नित्यमासिक्तमूर्द्धजः ॥ १६ ॥
मूलम्
ग्रीष्मे महति दीप्तानां मध्यगो जातवेदसाम्
वर्षासु जलधाराभिर्नित्यमासिक्तमूर्द्धजः ॥ १६ ॥
विश्वास-प्रस्तुतिः
शिशिरे च वसन्नप्सु बिभ्रत्कण्टकितां तनुम्
विशुद्धः सततं काले तपस्तप्त्वा स संयमी ॥ १७ ॥
मूलम्
शिशिरे च वसन्नप्सु बिभ्रत्कण्टकितां तनुम्
विशुद्धः सततं काले तपस्तप्त्वा स संयमी ॥ १७ ॥
विश्वास-प्रस्तुतिः
आत्मन्येव मतिं चक्रे परां प्राप्य सुनिर्वृतिम्
सदा फलानि बिभ्रत्सु सान्द्रच्छायेषु शाखिषु ॥ १८ ॥
मूलम्
आत्मन्येव मतिं चक्रे परां प्राप्य सुनिर्वृतिम्
सदा फलानि बिभ्रत्सु सान्द्रच्छायेषु शाखिषु ॥ १८ ॥
विश्वास-प्रस्तुतिः
निर्मत्सरेषु सत्वेषु बध्वा प्रीतिपरामपि
तपःफलानुसन्धाने वैदुष्येनोपपादितम् ॥ १९ ॥
मूलम्
निर्मत्सरेषु सत्वेषु बध्वा प्रीतिपरामपि
तपःफलानुसन्धाने वैदुष्येनोपपादितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
ब्रह्माप्येनं स्वयं पृच्छन्नुपतस्थे तमन्वहम्
तेन सङ्कोचहीनत्वाद्ब्रह्यण्यनुगतेन्वहम् ॥ २० ॥
मूलम्
ब्रह्माप्येनं स्वयं पृच्छन्नुपतस्थे तमन्वहम्
तेन सङ्कोचहीनत्वाद्ब्रह्यण्यनुगतेन्वहम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तद्ध्यानानुगतव्यक्ति ववृधे तस्य तत्तपः
विमुक्तकल्पं मन्वानः समृद्धादात्मनः पदात् ॥ २१ ॥
मूलम्
तद्ध्यानानुगतव्यक्ति ववृधे तस्य तत्तपः
विमुक्तकल्पं मन्वानः समृद्धादात्मनः पदात् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अन्तरायशतं चक्रे ततो भीतः पुरन्दरः
आहूयाप्सरसां मध्यादावां तुल्यं समादिशत् ॥ २२ ॥
मूलम्
अन्तरायशतं चक्रे ततो भीतः पुरन्दरः
आहूयाप्सरसां मध्यादावां तुल्यं समादिशत् ॥ २२ ॥
विश्वास-प्रस्तुतिः
कुरुतं तत्तपोविघ्नमनेनाचरितं युवाम्
यो मां पदादवष्टभ्य स्वराज्यं भोक्तुमिच्छति ॥ २३ ॥
मूलम्
कुरुतं तत्तपोविघ्नमनेनाचरितं युवाम्
यो मां पदादवष्टभ्य स्वराज्यं भोक्तुमिच्छति ॥ २३ ॥
विश्वास-प्रस्तुतिः
इति सन्देशमापन्ने पुरस्ताच्च बिडौजसः
गोदावरीमगच्छावः स मुनिर्यत्र वर्तते ॥ २४ ॥
मूलम्
इति सन्देशमापन्ने पुरस्ताच्च बिडौजसः
गोदावरीमगच्छावः स मुनिर्यत्र वर्तते ॥ २४ ॥
विश्वास-प्रस्तुतिः
मृदङ्गैर्मन्दगम्भीरैर्वेणुभिः कलवादिभिः
कलं गीतं समारब्धं तन्वङ्गीभिः समन्वितम् ॥ २५ ॥
मूलम्
मृदङ्गैर्मन्दगम्भीरैर्वेणुभिः कलवादिभिः
कलं गीतं समारब्धं तन्वङ्गीभिः समन्वितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
उद्वहन्त्यौ पृथुश्रोणीं घनपीनपयोधरे
स्मयस्मेरमुखाम्भोजे किञ्चिदाकुञ्चितालके ॥ २६ ॥
मूलम्
उद्वहन्त्यौ पृथुश्रोणीं घनपीनपयोधरे
स्मयस्मेरमुखाम्भोजे किञ्चिदाकुञ्चितालके ॥ २६ ॥
विश्वास-प्रस्तुतिः
मणिकुण्डलदृष्टांसे पुण्डरीकोज्ज्वलेक्षणे
तनुमध्ये सुवृत्तोरु वहन्त्यौ च समे पदे ॥ २७ ॥
मूलम्
मणिकुण्डलदृष्टांसे पुण्डरीकोज्ज्वलेक्षणे
तनुमध्ये सुवृत्तोरु वहन्त्यौ च समे पदे ॥ २७ ॥
विश्वास-प्रस्तुतिः
आनर्तां यो वनस्यार्थे स्वरताललयानुगाम्
दर्शयन्त्यौ स्वतः कृत्स्नां गतिं भावानुगामिनीम् ॥ २८ ॥
मूलम्
आनर्तां यो वनस्यार्थे स्वरताललयानुगाम्
दर्शयन्त्यौ स्वतः कृत्स्नां गतिं भावानुगामिनीम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
मृदूपक्रममुत्पन्नं मन्दं मन्दं विवर्द्धनम्
गर्जयामास दिक्चक्रं तत्तयोर्नृत्यमानयोः ॥ २९ ॥
मूलम्
मृदूपक्रममुत्पन्नं मन्दं मन्दं विवर्द्धनम्
गर्जयामास दिक्चक्रं तत्तयोर्नृत्यमानयोः ॥ २९ ॥
विश्वास-प्रस्तुतिः
ततोङ्गहारवेगेन वायुर्वासः सुशीतलः
ईषदुच्छ्वसिते चैले दर्शयन्त्यौ पयोधरौ ॥ ३० ॥
मूलम्
ततोङ्गहारवेगेन वायुर्वासः सुशीतलः
ईषदुच्छ्वसिते चैले दर्शयन्त्यौ पयोधरौ ॥ ३० ॥
विश्वास-प्रस्तुतिः
उद्वर्धयन्ती कन्दर्प्पमुल्बणा गतिरावयोः
कोपमुत्पादयामासु मुने रविकृतात्मनः ॥ ३१ ॥
मूलम्
उद्वर्धयन्ती कन्दर्प्पमुल्बणा गतिरावयोः
कोपमुत्पादयामासु मुने रविकृतात्मनः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ततः शापं ददौ कोपाज्जलमुत्सृज्य पाणिना
बदरीत्वं प्रपद्येथां जाह्नवी रोधसीति नौ ॥ ३२ ॥
मूलम्
ततः शापं ददौ कोपाज्जलमुत्सृज्य पाणिना
बदरीत्वं प्रपद्येथां जाह्नवी रोधसीति नौ ॥ ३२ ॥
विश्वास-प्रस्तुतिः
आवाभ्यां पारतन्त्र्येण यद्दुश्चरितमास्थितम्
तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात्प्रसादितः ॥ ३३ ॥
मूलम्
आवाभ्यां पारतन्त्र्येण यद्दुश्चरितमास्थितम्
तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात्प्रसादितः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततः शापविमोक्षं नौ कल्पयामास पुण्यधीः
भरतागमनान्तोयमिति सत्यतया मुनिः ॥ ३४ ॥
मूलम्
ततः शापविमोक्षं नौ कल्पयामास पुण्यधीः
भरतागमनान्तोयमिति सत्यतया मुनिः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मर्त्येषु जन्मलाभश्च स्मृतिश्चातीतजन्मनाम्
आवयोरन्तिकं गत्वा बदरीभूतयोस्ततः ॥ ३५ ॥
मूलम्
मर्त्येषु जन्मलाभश्च स्मृतिश्चातीतजन्मनाम्
आवयोरन्तिकं गत्वा बदरीभूतयोस्ततः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स्मरता तुर्यमध्यायं भवता निष्कृतिः कृता
तत्तावत्प्रणमावस्त्वां शापादेव न केवलात ॥ ३६ ॥
मूलम्
स्मरता तुर्यमध्यायं भवता निष्कृतिः कृता
तत्तावत्प्रणमावस्त्वां शापादेव न केवलात ॥ ३६ ॥
विश्वास-प्रस्तुतिः
घोरादेव तु संसारात्त्वयैतेन विमोचिते
श्रीभगवानुवाच
एवमुक्तो मुनिस्ताभ्यामतिप्रीतमनास्ततः ॥ ३७ ॥
मूलम्
घोरादेव तु संसारात्त्वयैतेन विमोचिते
श्रीभगवानुवाच
एवमुक्तो मुनिस्ताभ्यामतिप्रीतमनास्ततः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
पूजितस्ते समामन्त्र्य यथागतमसौ ययौ
कन्ये चतुर्थमध्यायं जपेतां नित्यमादरात् ॥ ३८ ॥
मूलम्
पूजितस्ते समामन्त्र्य यथागतमसौ ययौ
कन्ये चतुर्थमध्यायं जपेतां नित्यमादरात् ॥ ३८ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीतामाहात्म्ये अष्टसप्तत्यधिकशततमोऽध्यायः १७८