श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी
हित्वा जात्युचितं धर्मं वणिग्वृत्त्यां मनो दधे ॥ १ ॥
मूलम्
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी
हित्वा जात्युचितं धर्मं वणिग्वृत्त्यां मनो दधे ॥ १ ॥
विश्वास-प्रस्तुतिः
व्यसनी परदारेषु दीव्यन्नक्षैः पिबन्मधु
मृगया निरतो नित्यं कालमेवं निनाय सः ॥ २ ॥
मूलम्
व्यसनी परदारेषु दीव्यन्नक्षैः पिबन्मधु
मृगया निरतो नित्यं कालमेवं निनाय सः ॥ २ ॥
विश्वास-प्रस्तुतिः
क्षीणे वित्ते ततो रात्रौ चौर्यामारब्धवांस्ततः
प्रतिपेदे धनं तेन यज्वनां यष्टुमर्थिनाम् ॥ ३ ॥
मूलम्
क्षीणे वित्ते ततो रात्रौ चौर्यामारब्धवांस्ततः
प्रतिपेदे धनं तेन यज्वनां यष्टुमर्थिनाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
स दूरमगमत्तेन वाणिज्यायोत्तरां दिशम्
कस्तूरिमगुरुं कृष्णं चामरांश्चन्द्रिकोज्ज्वलान् ॥ ४ ॥
मूलम्
स दूरमगमत्तेन वाणिज्यायोत्तरां दिशम्
कस्तूरिमगुरुं कृष्णं चामरांश्चन्द्रिकोज्ज्वलान् ॥ ४ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा वृत्य चानिन्ये पञ्चषादध्वयोजनात्
अथापरस्मिन्नहनि प्रियादर्शनदोहनि ॥ ५ ॥
मूलम्
गृहीत्वा वृत्य चानिन्ये पञ्चषादध्वयोजनात्
अथापरस्मिन्नहनि प्रियादर्शनदोहनि ॥ ५ ॥
विश्वास-प्रस्तुतिः
दूरमध्वानमुल्लङ्घ्य रवावस्तमिते सति
ध्वान्ते प्रसर्पति स्वैरं दिशो दश तरोस्तले ॥ ६ ॥
मूलम्
दूरमध्वानमुल्लङ्घ्य रवावस्तमिते सति
ध्वान्ते प्रसर्पति स्वैरं दिशो दश तरोस्तले ॥ ६ ॥
विश्वास-प्रस्तुतिः
गतो वशं सदस्यूनां निजघ्ने तैश्च सत्वरम्
धर्मलोपादसौ जज्ञे घोरश्चोग्रतरो ग्रहः ॥ ७ ॥
मूलम्
गतो वशं सदस्यूनां निजघ्ने तैश्च सत्वरम्
धर्मलोपादसौ जज्ञे घोरश्चोग्रतरो ग्रहः ॥ ७ ॥
विश्वास-प्रस्तुतिः
पिपासितो बुभुक्षार्तो लेलिहानश्च सृक्किणी
उर्ध्वकेशोऽतिजङ्घालुः पृष्टलग्नोदरो महत् ॥ ८ ॥
मूलम्
पिपासितो बुभुक्षार्तो लेलिहानश्च सृक्किणी
उर्ध्वकेशोऽतिजङ्घालुः पृष्टलग्नोदरो महत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अस्थिमात्रशरीरोऽभूद्दुर्वृत्तनयनो भृशम्
अत्रान्तरे सुतस्तस्य धर्मात्मा वेदकोविदः ॥ ९ ॥
मूलम्
अस्थिमात्रशरीरोऽभूद्दुर्वृत्तनयनो भृशम्
अत्रान्तरे सुतस्तस्य धर्मात्मा वेदकोविदः ॥ ९ ॥
विश्वास-प्रस्तुतिः
पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमत्
नित्यमन्वेषयन्वार्त्तां पान्थेभ्यो नोपलब्धवान् ॥ १० ॥
मूलम्
पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमत्
नित्यमन्वेषयन्वार्त्तां पान्थेभ्यो नोपलब्धवान् ॥ १० ॥
विश्वास-प्रस्तुतिः
ततः कदाचिदायाते सहायिनि च मानवे
तस्माद्विदितवृत्तान्तः शुशोच पितरं बहु ॥ ११ ॥
मूलम्
ततः कदाचिदायाते सहायिनि च मानवे
तस्माद्विदितवृत्तान्तः शुशोच पितरं बहु ॥ ११ ॥
विश्वास-प्रस्तुतिः
ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम्
वाराणसीं ससम्भारः स गन्तुमुपचक्रमे ॥ १२ ॥
मूलम्
ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम्
वाराणसीं ससम्भारः स गन्तुमुपचक्रमे ॥ १२ ॥
विश्वास-प्रस्तुतिः
मार्गे निवासान्सप्ताष्टौ नीत्वा तस्य तरोस्तले
सन्ध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता ॥ १३ ॥
मूलम्
मार्गे निवासान्सप्ताष्टौ नीत्वा तस्य तरोस्तले
सन्ध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता ॥ १३ ॥
विश्वास-प्रस्तुतिः
तत्राध्यायं स गीतानां तृतीयं सञ्जजाप ह
ततो घोरस्वरस्तत्र व्योममध्ये परामृशत् ॥ १४ ॥
मूलम्
तत्राध्यायं स गीतानां तृतीयं सञ्जजाप ह
ततो घोरस्वरस्तत्र व्योममध्ये परामृशत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
ददर्श घोरमाकाशात्पतन्तं पितरं ततः
विस्मयेन भयेनापि विकलीकृतचेतनः ॥ १५ ॥
मूलम्
ददर्श घोरमाकाशात्पतन्तं पितरं ततः
विस्मयेन भयेनापि विकलीकृतचेतनः ॥ १५ ॥
विश्वास-प्रस्तुतिः
तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे
किङ्किणीकोटिसङ्कीर्णं तेजसा व्याप्तदिङ्मुखम् ॥ १६ ॥
मूलम्
तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे
किङ्किणीकोटिसङ्कीर्णं तेजसा व्याप्तदिङ्मुखम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
विमानमग्रतोऽपश्यद्दिव्यमध्यग्रचेतनः
तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम् ॥ १७ ॥
मूलम्
विमानमग्रतोऽपश्यद्दिव्यमध्यग्रचेतनः
तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
संस्तूयमानं मुनिभिः पितरं पीतवाससम्
प्रणतस्तं समालोक्य युयुजे तेन चाशिषा ॥ १८ ॥
मूलम्
संस्तूयमानं मुनिभिः पितरं पीतवाससम्
प्रणतस्तं समालोक्य युयुजे तेन चाशिषा ॥ १८ ॥
विश्वास-प्रस्तुतिः
ततोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत्
दुस्त्यजात्कर्मणो वत्स वपुषो पुण्यकारणात् ॥ १९ ॥
मूलम्
ततोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत्
दुस्त्यजात्कर्मणो वत्स वपुषो पुण्यकारणात् ॥ १९ ॥
विश्वास-प्रस्तुतिः
मोचितोऽस्मि त्वया दैवादध्यायं जपतान्तिके
तन्निवर्त्तस्व जपतः साम्प्रतं त्वामुपस्थितम् ॥ २० ॥
मूलम्
मोचितोऽस्मि त्वया दैवादध्यायं जपतान्तिके
तन्निवर्त्तस्व जपतः साम्प्रतं त्वामुपस्थितम् ॥ २० ॥
विश्वास-प्रस्तुतिः
वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः
श्रीभगवानुवाच
एवमुक्तः स च प्राह पितरं दीप्ततेजसम् ॥ २१ ॥
मूलम्
वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः
श्रीभगवानुवाच
एवमुक्तः स च प्राह पितरं दीप्ततेजसम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
सुत उवाच
हितं ममानुशाधि त्वं कार्यमन्यन्मयानु किम्
श्रीभगवानुवाच
ततः प्राह पिता पुत्रं कार्यमेतत्त्वयानघ ॥ २२ ॥
मूलम्
सुत उवाच
हितं ममानुशाधि त्वं कार्यमन्यन्मयानु किम्
श्रीभगवानुवाच
ततः प्राह पिता पुत्रं कार्यमेतत्त्वयानघ ॥ २२ ॥
विश्वास-प्रस्तुतिः
यन्मयाचरितं कर्म भ्रात्रा मम तु तत्कृतम्
स यातो नरकं घोरं तं मोचयितुमर्हसि ॥ २३ ॥
मूलम्
यन्मयाचरितं कर्म भ्रात्रा मम तु तत्कृतम्
स यातो नरकं घोरं तं मोचयितुमर्हसि ॥ २३ ॥
विश्वास-प्रस्तुतिः
अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे
ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः ॥ २४ ॥
मूलम्
अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे
ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः ॥ २४ ॥
विश्वास-प्रस्तुतिः
इत्येवमुक्तः पुत्रस्तं पुनः प्राह कृताञ्जलि
कर्मणा केन तान्सर्वान्मोचयामि तदादिश ॥ २५ ॥
मूलम्
इत्येवमुक्तः पुत्रस्तं पुनः प्राह कृताञ्जलि
कर्मणा केन तान्सर्वान्मोचयामि तदादिश ॥ २५ ॥
विश्वास-प्रस्तुतिः
एवं निवेदितो वाक्यं पिता सुतमुवाच ह
पितोवाच
येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि ॥ २६ ॥
मूलम्
एवं निवेदितो वाक्यं पिता सुतमुवाच ह
पितोवाच
येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि ॥ २६ ॥
विश्वास-प्रस्तुतिः
अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्सृज
ततोऽहमिव ते सर्वे पूर्वे सन्त्यज्य यातनाम् ॥ २७ ॥
मूलम्
अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्सृज
ततोऽहमिव ते सर्वे पूर्वे सन्त्यज्य यातनाम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
गमिष्यन्त्यचिरेणैव तद्विष्णोः परमं पदम्
स सन्दिष्टोवदत्पुत्रो यद्येवं तात नारकान् ॥ २८ ॥
मूलम्
गमिष्यन्त्यचिरेणैव तद्विष्णोः परमं पदम्
स सन्दिष्टोवदत्पुत्रो यद्येवं तात नारकान् ॥ २८ ॥
विश्वास-प्रस्तुतिः
सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः
एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम् ॥ २९ ॥
मूलम्
सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः
एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदम्
सोऽपि तस्मात्परावृत्त्य जनस्थानं प्रपद्य च ॥ ३० ॥
मूलम्
इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदम्
सोऽपि तस्मात्परावृत्त्य जनस्थानं प्रपद्य च ॥ ३० ॥
विश्वास-प्रस्तुतिः
सुन्दरस्य पुरः शौरेश्चालये कालमभ्यगात्
स कुर्वाणोःसमादीनि पित्रा च यदुदीरितम् ॥ ३१ ॥
मूलम्
सुन्दरस्य पुरः शौरेश्चालये कालमभ्यगात्
स कुर्वाणोःसमादीनि पित्रा च यदुदीरितम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान्
अत्रान्तरे पदे विष्णोर्यातनापदमीयुषः ॥ ३२ ॥
मूलम्
उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान्
अत्रान्तरे पदे विष्णोर्यातनापदमीयुषः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
नारकान्मोचयिष्यन्तः किङ्करा यममभ्ययुः
तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा ॥ ३३ ॥
मूलम्
नारकान्मोचयिष्यन्तः किङ्करा यममभ्ययुः
तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कुशलं परिपृष्टास्ते सर्वतः सुखमूचिरे
एमं सत्कृत्य मेधावी पितृलोक महेश्वरः ॥ ३४ ॥
मूलम्
कुशलं परिपृष्टास्ते सर्वतः सुखमूचिरे
एमं सत्कृत्य मेधावी पितृलोक महेश्वरः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
हेतुमागमने पृच्छत्ते च तस्मै न्यवेदयन्
विद्धि कीनाशनाथ त्वं शेषपर्यङ्कशायिना ॥ ३५ ॥
मूलम्
हेतुमागमने पृच्छत्ते च तस्मै न्यवेदयन्
विद्धि कीनाशनाथ त्वं शेषपर्यङ्कशायिना ॥ ३५ ॥
विश्वास-प्रस्तुतिः
शौरिणा प्रहितानस्मान्समादेष्टुं त्वदन्तिके
अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति ॥ ३६ ॥
मूलम्
शौरिणा प्रहितानस्मान्समादेष्टुं त्वदन्तिके
अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नारकान्प्राणिनः सर्वान्विमोक्तुं च नियच्छति
इत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः ॥ ३७ ॥
मूलम्
नारकान्प्राणिनः सर्वान्विमोक्तुं च नियच्छति
इत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
न तेन मूर्ध्ना सम्भाव्य दध्यौ किञ्चन चेतसा
विमुक्तान्निरयात्सर्वांस्तान्विलोक्य मदोत्कटान् ॥ ३८ ॥
मूलम्
न तेन मूर्ध्ना सम्भाव्य दध्यौ किञ्चन चेतसा
विमुक्तान्निरयात्सर्वांस्तान्विलोक्य मदोत्कटान् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
स तैरनुगतः सर्वैर्विष्णोरायतनं ततः
ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः ॥ ३९ ॥
मूलम्
स तैरनुगतः सर्वैर्विष्णोरायतनं ततः
ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तदन्त उदितानेकसूर्यकोटिसमप्रभम्
इन्दीवरदलश्याममालुलोक जगद्गुरुम् ॥ ४० ॥
मूलम्
तदन्त उदितानेकसूर्यकोटिसमप्रभम्
इन्दीवरदलश्याममालुलोक जगद्गुरुम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
शय्याफणिफणारत्नमरीच्यामिश्रतेजसम्
विलोक्यमानमानन्दनिर्भरं प्रीतमानसम् ॥ ४१ ॥
मूलम्
शय्याफणिफणारत्नमरीच्यामिश्रतेजसम्
विलोक्यमानमानन्दनिर्भरं प्रीतमानसम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षितं मुहुः
योगिभिः परितो जुष्टं ध्याननिष्पन्दतारकैः ॥ ४२ ॥
मूलम्
भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षितं मुहुः
योगिभिः परितो जुष्टं ध्याननिष्पन्दतारकैः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
स्तूयमानं महेन्द्रेण पराजेतुं विरोधिनः
आम्नायवचसामन्ते ब्रह्मणो निःसृतैर्मुखात् ॥ ४३ ॥
मूलम्
स्तूयमानं महेन्द्रेण पराजेतुं विरोधिनः
आम्नायवचसामन्ते ब्रह्मणो निःसृतैर्मुखात् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
मूर्तिमद्भिर्वचोभिश्च गीयमानं गुणोत्करम्
सम्प्रीतं चाप्युदासीनमपि सर्वासु योनिषु ॥ ४४ ॥
मूलम्
मूर्तिमद्भिर्वचोभिश्च गीयमानं गुणोत्करम्
सम्प्रीतं चाप्युदासीनमपि सर्वासु योनिषु ॥ ४४ ॥
विश्वास-प्रस्तुतिः
योगसञ्चितपुण्यानां यौगपद्येन जन्तुषु
विलोकमानमात्मानमखिलं सचराचरम् ॥ ४५ ॥
मूलम्
योगसञ्चितपुण्यानां यौगपद्येन जन्तुषु
विलोकमानमात्मानमखिलं सचराचरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः
आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्विषा ॥ ४६ ॥
मूलम्
आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः
आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्विषा ॥ ४६ ॥
विश्वास-प्रस्तुतिः
इन्दीवरदलश्यामं ज्योत्स्नयेव नभस्तलम्
विलोक्य तं स तुष्टाव धिया बहुलयानतः ॥ ४७ ॥
मूलम्
इन्दीवरदलश्यामं ज्योत्स्नयेव नभस्तलम्
विलोक्य तं स तुष्टाव धिया बहुलयानतः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यम उवाच
नमः समस्तनिर्माणनिर्मलीभूतचेतसे
वद नोद्गीर्णवेदाय विश्वरूपाय वेधसे ॥ ४८ ॥
मूलम्
यम उवाच
नमः समस्तनिर्माणनिर्मलीभूतचेतसे
वद नोद्गीर्णवेदाय विश्वरूपाय वेधसे ॥ ४८ ॥
विश्वास-प्रस्तुतिः
बलवेगसुदुर्द्धर्ष दानवेन्द्र मदद्रुहे
नमः स्थितौ च सत्वाय विश्वाधाराय विष्णवे ॥ ४९ ॥
मूलम्
बलवेगसुदुर्द्धर्ष दानवेन्द्र मदद्रुहे
नमः स्थितौ च सत्वाय विश्वाधाराय विष्णवे ॥ ४९ ॥
विश्वास-प्रस्तुतिः
नमः पातकसङ्घात जिष्णवेऽखिलदेहिनाम्
ईषदुन्मीलल्लालाटनेत्राग्निप्रभवार्चिषे 6.177.॥ ५० ॥
मूलम्
नमः पातकसङ्घात जिष्णवेऽखिलदेहिनाम्
ईषदुन्मीलल्लालाटनेत्राग्निप्रभवार्चिषे 6.177.॥ ५० ॥
विश्वास-प्रस्तुतिः
त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः
विसृज्य वैष्णवान्सर्वानतस्त्वमनुकम्पसे ॥ ५१ ॥
मूलम्
त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः
विसृज्य वैष्णवान्सर्वानतस्त्वमनुकम्पसे ॥ ५१ ॥
विश्वास-प्रस्तुतिः
व्यापयन्नखिलं लोकं मायया परिबृंहितम्
न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ॥ ५२ ॥
मूलम्
व्यापयन्नखिलं लोकं मायया परिबृंहितम्
न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अन्तरावर्तमानोऽपि न ताभ्यामभिभूयसे
दृशा विषयवर्तिन्या निग्रहीतमना अपि ॥ ५३ ॥
मूलम्
अन्तरावर्तमानोऽपि न ताभ्यामभिभूयसे
दृशा विषयवर्तिन्या निग्रहीतमना अपि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तया फलाभिगामिन्या आत्मन्येवाभिलीयसे
न तवास्ति महिम्नोन्तो यथा निरवधिः स्वयम् ॥ ५४ ॥
मूलम्
तया फलाभिगामिन्या आत्मन्येवाभिलीयसे
न तवास्ति महिम्नोन्तो यथा निरवधिः स्वयम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
मौनमेवात्रयुक्तं मे विषयोऽसि कथं गिराम्
इति स्तुत्वा ततो वाक्यमिदमाह कृताञ्जलि ॥ ५५ ॥
मूलम्
मौनमेवात्रयुक्तं मे विषयोऽसि कथं गिराम्
इति स्तुत्वा ततो वाक्यमिदमाह कृताञ्जलि ॥ ५५ ॥
विश्वास-प्रस्तुतिः
विनियोगादमी युक्ता देहिनो निर्गुणा मया
समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो ॥ ५६ ॥
मूलम्
विनियोगादमी युक्ता देहिनो निर्गुणा मया
समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो ॥ ५६ ॥
विश्वास-प्रस्तुतिः
इति विज्ञापितस्तेन तमाह मधुसूदनः
मेघगम्भीरया वाचा सिञ्चन्निव सुधारसैः ॥ ५७ ॥
मूलम्
इति विज्ञापितस्तेन तमाह मधुसूदनः
मेघगम्भीरया वाचा सिञ्चन्निव सुधारसैः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पापादुद्धार्य ते लोको मया समयवर्तिना
त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ॥ ५८ ॥
मूलम्
पापादुद्धार्य ते लोको मया समयवर्तिना
त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तदाचर निजं कर्म प्रयाहि स्वं निकेतनम्
श्रीभगवानुवाच
इत्युक्त्वान्तर्दधे देवः सोऽपि स्वपुरमाययौ ॥ ५९ ॥
मूलम्
तदाचर निजं कर्म प्रयाहि स्वं निकेतनम्
श्रीभगवानुवाच
इत्युक्त्वान्तर्दधे देवः सोऽपि स्वपुरमाययौ ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सोऽपि स्वजातिजान्सर्वान्निरयस्थाननेकशः
उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ॥ ६० ॥
मूलम्
सोऽपि स्वजातिजान्सर्वान्निरयस्थाननेकशः
उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ॥ ६० ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीतामाहात्म्ये सप्तसप्तत्यधिकशततमोऽध्यायः १७७