श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
आदिमस्यैवमाख्यानमुदीरितमनुत्तमम्
शृणु माहात्म्यमन्येषामध्यायानामपीन्दिरे ॥ १ ॥
मूलम्
आदिमस्यैवमाख्यानमुदीरितमनुत्तमम्
शृणु माहात्म्यमन्येषामध्यायानामपीन्दिरे ॥ १ ॥
विश्वास-प्रस्तुतिः
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम्
पुरे पुरन्दराह्वाने देवशर्मेति विश्रुतः ॥ २ ॥
मूलम्
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम्
पुरे पुरन्दराह्वाने देवशर्मेति विश्रुतः ॥ २ ॥
विश्वास-प्रस्तुतिः
अर्चितातिथिराम्नातो वेदशास्त्रविशारदः
आहर्ता क्रतुसङ्घानां तापसानां प्रियः सदा ॥ ३ ॥
मूलम्
अर्चितातिथिराम्नातो वेदशास्त्रविशारदः
आहर्ता क्रतुसङ्घानां तापसानां प्रियः सदा ॥ ३ ॥
विश्वास-प्रस्तुतिः
देवान्सन्तर्पयामास हव्यैर्हुतवहं चिरम्
न चोपलेभे धर्मात्मा शान्तिमेकान्तिकीं ततः ॥ ४ ॥
मूलम्
देवान्सन्तर्पयामास हव्यैर्हुतवहं चिरम्
न चोपलेभे धर्मात्मा शान्तिमेकान्तिकीं ततः ॥ ४ ॥
विश्वास-प्रस्तुतिः
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम्
सिषेवे सत्यसङ्कल्पाननल्पैरेव कल्पकैः ॥ ५ ॥
मूलम्
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम्
सिषेवे सत्यसङ्कल्पाननल्पैरेव कल्पकैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
एवमाचरतस्तस्य काले महति गच्छति
मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि ॥ ६ ॥
मूलम्
एवमाचरतस्तस्य काले महति गच्छति
मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि ॥ ६ ॥
विश्वास-प्रस्तुतिः
अनुभूतनिराकाङ्क्षी नासाग्रन्यस्तलोचनः
शान्तचेताः परं ब्रह्म ध्यायन्नानन्दनिर्भरः ॥ ७ ॥
मूलम्
अनुभूतनिराकाङ्क्षी नासाग्रन्यस्तलोचनः
शान्तचेताः परं ब्रह्म ध्यायन्नानन्दनिर्भरः ॥ ७ ॥
विश्वास-प्रस्तुतिः
पादौ तस्योपसङ्गृह्य प्रणतेनान्तरात्मना
चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम् ॥ ८ ॥
मूलम्
पादौ तस्योपसङ्गृह्य प्रणतेनान्तरात्मना
चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तं च शुद्धेन भावेन परितुष्टं तपस्विनम्
प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ॥ ९ ॥
मूलम्
तं च शुद्धेन भावेन परितुष्टं तपस्विनम्
प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
स तस्मै कथयामास पुरेऽसौ पुरनामनि
मित्रवन्तमजापालमुपदेष्टारमात्मवित् ॥ १० ॥
मूलम्
स तस्मै कथयामास पुरेऽसौ पुरनामनि
मित्रवन्तमजापालमुपदेष्टारमात्मवित् ॥ १० ॥
विश्वास-प्रस्तुतिः
स चाभिवन्द्य तत्पादावेत्यसौ पुरमूर्जितम्
तस्योत्तरदिशोभागे ददर्श विपुलं वनम् ॥ ११ ॥
मूलम्
स चाभिवन्द्य तत्पादावेत्यसौ पुरमूर्जितम्
तस्योत्तरदिशोभागे ददर्श विपुलं वनम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
मारुतान्दोलितानेक कुसुमामोदसुन्दरम्
उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम् ॥ १२ ॥
मूलम्
मारुतान्दोलितानेक कुसुमामोदसुन्दरम्
उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
तस्मिन्वने सरित्तीरे निषीदन्तं शिलातले
मित्रवन्तं ददर्शाथ सानन्दस्तिमितेक्षणम् ॥ १३ ॥
मूलम्
तस्मिन्वने सरित्तीरे निषीदन्तं शिलातले
मित्रवन्तं ददर्शाथ सानन्दस्तिमितेक्षणम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिः
सत्वैरावृतमुद्याने मन्दस्यन्दनभास्वति ॥ १४ ॥
मूलम्
अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिः
सत्वैरावृतमुद्याने मन्दस्यन्दनभास्वति ॥ १४ ॥
विश्वास-प्रस्तुतिः
शान्तेषु मृगयूथेषु दशानन्दमनोज्ञया
कृपानुविद्धया भूमिं निषिञ्चन्तमिवामृतम् ॥ १५ ॥
मूलम्
शान्तेषु मृगयूथेषु दशानन्दमनोज्ञया
कृपानुविद्धया भूमिं निषिञ्चन्तमिवामृतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः
किञ्चिदानम्रशिरसा तेनापि स तु सत्कृतः ॥ १६ ॥
मूलम्
उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः
किञ्चिदानम्रशिरसा तेनापि स तु सत्कृतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
उपतस्थे ततो विद्वान्मित्रवन्तमनन्यधीः
समाप्तध्यानकालं स पर्यपृच्छत्समाहितः ॥ १७ ॥
मूलम्
उपतस्थे ततो विद्वान्मित्रवन्तमनन्यधीः
समाप्तध्यानकालं स पर्यपृच्छत्समाहितः ॥ १७ ॥
विश्वास-प्रस्तुतिः
देवशर्मोवाच
आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे
लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि ॥ १८ ॥
मूलम्
देवशर्मोवाच
आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे
लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि ॥ १८ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
परामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत्
मित्रवानुवाच
विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया ॥ १९ ॥
मूलम्
श्रीभगवानुवाच
परामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत्
मित्रवानुवाच
विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया ॥ १९ ॥
विश्वास-प्रस्तुतिः
अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम्
तत्र दुर्दमनामासीदन्वये च मनीषिणाम् ॥ २० ॥
मूलम्
अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम्
तत्र दुर्दमनामासीदन्वये च मनीषिणाम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः
दानानि प्रत्यहं गृह्णन्वर्त्तते उदरम्भरः ॥ २१ ॥
मूलम्
तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः
दानानि प्रत्यहं गृह्णन्वर्त्तते उदरम्भरः ॥ २१ ॥
विश्वास-प्रस्तुतिः
कालेन कालपाशेन बद्धानीतो यमालयम्
निरयेषु समग्रेषु यातना अनुभूय च ॥ २२ ॥
मूलम्
कालेन कालपाशेन बद्धानीतो यमालयम्
निरयेषु समग्रेषु यातना अनुभूय च ॥ २२ ॥
विश्वास-प्रस्तुतिः
कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम्
भवान्तरानुवर्तिन्या विद्यया स पुरस्कृतः ॥ २३ ॥
मूलम्
कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम्
भवान्तरानुवर्तिन्या विद्यया स पुरस्कृतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
उपयेमे दुराधर्षां कन्यकामधमे कुले
कालेन सा वयो हित्वा शैशवं यौवनं ययौ ॥ २४ ॥
मूलम्
उपयेमे दुराधर्षां कन्यकामधमे कुले
कालेन सा वयो हित्वा शैशवं यौवनं ययौ ॥ २४ ॥
विश्वास-प्रस्तुतिः
पीनस्तनी च सुश्रोणी मदविह्वललोचना
पतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान् ॥ २५ ॥
मूलम्
पीनस्तनी च सुश्रोणी मदविह्वललोचना
पतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान् ॥ २५ ॥
विश्वास-प्रस्तुतिः
वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिः
सङ्गता कामुकेनासौ चिरं चाण्डालजन्मना ॥ २६ ॥
मूलम्
वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिः
सङ्गता कामुकेनासौ चिरं चाण्डालजन्मना ॥ २६ ॥
विश्वास-प्रस्तुतिः
दधे गर्भमसौ तस्मात्सा च कन्योपपद्यते
सैव भार्यापि तस्यासीत्पूर्वपापप्रसङ्गतः ॥ २७ ॥
मूलम्
दधे गर्भमसौ तस्मात्सा च कन्योपपद्यते
सैव भार्यापि तस्यासीत्पूर्वपापप्रसङ्गतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
सैव वृद्धा ततः काले डाकिनी समजायत
कुसङ्गात्कुमतिर्जाता दुष्टनारीप्रसङ्गतः ॥ २८ ॥
मूलम्
सैव वृद्धा ततः काले डाकिनी समजायत
कुसङ्गात्कुमतिर्जाता दुष्टनारीप्रसङ्गतः ॥ २८ ॥
विश्वास-प्रस्तुतिः
चखाद व्याधितं व्याधमसृगास्वादलालसा
भ्रमन्ती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता ॥ २९ ॥
मूलम्
चखाद व्याधितं व्याधमसृगास्वादलालसा
भ्रमन्ती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता ॥ २९ ॥
विश्वास-प्रस्तुतिः
परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्तत
नरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः ॥ ३० ॥
मूलम्
परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्तत
नरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः ॥ ३० ॥
विश्वास-प्रस्तुतिः
सापि कालेन दुष्टात्मा मृत्युवेगमुपागता
निरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे ॥ ३१ ॥
मूलम्
सापि कालेन दुष्टात्मा मृत्युवेगमुपागता
निरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तामन्या अप्यहं विद्वन्पालयन्काननान्तरे
अपश्यन्द्वीपिनं घोरं जिघांसन्तमिवाखिलम् ॥ ३२ ॥
मूलम्
तामन्या अप्यहं विद्वन्पालयन्काननान्तरे
अपश्यन्द्वीपिनं घोरं जिघांसन्तमिवाखिलम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
समालोक्य तमायान्तं भयेन प्रपलायितम्
अजायूथं परित्यज्य मया मरणभीरुणा ॥ ३३ ॥
मूलम्
समालोक्य तमायान्तं भयेन प्रपलायितम्
अजायूथं परित्यज्य मया मरणभीरुणा ॥ ३३ ॥
विश्वास-प्रस्तुतिः
उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन्
अजा तु तत्समीपेऽगात्सत्वरं सरिदन्तिके ॥ ३४ ॥
मूलम्
उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन्
अजा तु तत्समीपेऽगात्सत्वरं सरिदन्तिके ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला
अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः ॥ ३५ ॥
मूलम्
तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला
अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तं तथाविधमालोक्य सा वक्तुमुपचक्रमे
द्वीपिन्नभीप्सितं भुङ्क्ष्व मांसमुद्धृत्य सादरः ॥ ३६ ॥
मूलम्
तं तथाविधमालोक्य सा वक्तुमुपचक्रमे
द्वीपिन्नभीप्सितं भुङ्क्ष्व मांसमुद्धृत्य सादरः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजः
इत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः ॥ ३७ ॥
मूलम्
नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजः
इत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ
न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् ॥ ३८ ॥
मूलम्
स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ
न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम्
किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ॥ ३९ ॥
मूलम्
सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम्
किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम्
पुरोगतमिमं प्रष्टुं महान्तमिति निर्गतौ ॥ ४० ॥
मूलम्
एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम्
पुरोगतमिमं प्रष्टुं महान्तमिति निर्गतौ ॥ ४० ॥
विश्वास-प्रस्तुतिः
ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः
अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ॥ ४१ ॥
मूलम्
ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः
अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिः
शृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् ॥ ४२ ॥
मूलम्
मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिः
शृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इदमायतनं पश्य पुरोवनगतं महत्
अत्र त्र्यम्बकलिङ्गं हि द्रुहिणेन प्रतिष्ठितम् ॥ ४३ ॥
मूलम्
इदमायतनं पश्य पुरोवनगतं महत्
अत्र त्र्यम्बकलिङ्गं हि द्रुहिणेन प्रतिष्ठितम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन्
वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् ॥ ४४ ॥
मूलम्
सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन्
वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
संस्नाप्य सरिदम्भोभिः केवलं कर्मणा वसन्
काले महति तस्यागादतिथिः कश्चिदन्तिकम् ॥ ४५ ॥
मूलम्
संस्नाप्य सरिदम्भोभिः केवलं कर्मणा वसन्
काले महति तस्यागादतिथिः कश्चिदन्तिकम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत्
तेनातिथ्येन सम्प्रीतः सुकर्माणमभाषत ॥ ४६ ॥
मूलम्
उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत्
तेनातिथ्येन सम्प्रीतः सुकर्माणमभाषत ॥ ४६ ॥
विश्वास-प्रस्तुतिः
किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि
गतानुगतया वृत्त्या किं वा केवलमीहसे ॥ ४७ ॥
मूलम्
किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि
गतानुगतया वृत्त्या किं वा केवलमीहसे ॥ ४७ ॥
विश्वास-प्रस्तुतिः
स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदा
प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम् ॥ ४८ ॥
मूलम्
स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदा
प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणः
बुभुत्सया परः शम्भुः सेव्यते केवलं यया ॥ ४९ ॥
मूलम्
विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणः
बुभुत्सया परः शम्भुः सेव्यते केवलं यया ॥ ४९ ॥
विश्वास-प्रस्तुतिः
फलमेतस्य सेवायाः परिपाकं कपर्दिनः
यन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् 6.176.॥ ५० ॥
मूलम्
फलमेतस्य सेवायाः परिपाकं कपर्दिनः
यन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् 6.176.॥ ५० ॥
विश्वास-प्रस्तुतिः
तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः
द्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले ॥ ५१ ॥
मूलम्
तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः
द्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले ॥ ५१ ॥
विश्वास-प्रस्तुतिः
आदिदेशाशु तं विप्रं पठनाभ्यसनाय च
फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः ॥ ५२ ॥
मूलम्
आदिदेशाशु तं विप्रं पठनाभ्यसनाय च
फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वान्तर्दधे धीमान्पुरतस्तस्य पश्यतः
विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम् ॥ ५३ ॥
मूलम्
इत्युक्त्वान्तर्दधे धीमान्पुरतस्तस्य पश्यतः
विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ततः कालेन महता भावितात्मा प्रसन्नधीः
यत्रयत्र चचारासौ शान्तं तत्तत्तपोवनम् ॥ ५४ ॥
मूलम्
ततः कालेन महता भावितात्मा प्रसन्नधीः
यत्रयत्र चचारासौ शान्तं तत्तत्तपोवनम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
न द्वन्द्वबाधा नैव क्षुत्पिपासा न च वा भयम्
तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ॥ ५५ ॥
मूलम्
न द्वन्द्वबाधा नैव क्षुत्पिपासा न च वा भयम्
तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
मित्रवानुवाच
एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम्
अनुज्ञातप्रसन्नेन च्छागीव्याघ्रयुतोगमम् ॥ ५६ ॥
मूलम्
मित्रवानुवाच
एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम्
अनुज्ञातप्रसन्नेन च्छागीव्याघ्रयुतोगमम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत्
तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम् ॥ ५७ ॥
मूलम्
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत्
तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि
अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ॥ ५८ ॥
मूलम्
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि
अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ॥ ५८ ॥
विश्वास-प्रस्तुतिः
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम्
अभ्यर्च्य प्रणतो भूत्वा पुरन्दरपुरं ययौ ॥ ५९ ॥
मूलम्
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम्
अभ्यर्च्य प्रणतो भूत्वा पुरन्दरपुरं ययौ ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तत्रात्मविदमासाद्य देवतायतने क्वचित्
वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः ॥ ६० ॥
मूलम्
तत्रात्मविदमासाद्य देवतायतने क्वचित्
वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः ॥ ६० ॥
विश्वास-प्रस्तुतिः
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात्
द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ॥ ६१ ॥
मूलम्
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात्
द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
द्वितीयस्येदमाख्यानं कथितं शृणु साम्प्रतम्
तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेन्दिरे ॥ ६२ ॥
मूलम्
द्वितीयस्येदमाख्यानं कथितं शृणु साम्प्रतम्
तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेन्दिरे ॥ ६२ ॥
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गीता
माहात्म्ये सतीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः १७६