पार्वत्युवाच
विश्वास-प्रस्तुतिः
भगवन्सर्वतत्वज्ञ श्रीविष्णोस्त्वत्प्रसादतः
श्रुता नानाविधा धर्मा लोकनिस्तारहेतवः ॥ १ ॥
मूलम्
भगवन्सर्वतत्वज्ञ श्रीविष्णोस्त्वत्प्रसादतः
श्रुता नानाविधा धर्मा लोकनिस्तारहेतवः ॥ १ ॥
विश्वास-प्रस्तुतिः
अधुना श्रोतुमिच्छमि गीतामाहात्म्यमप्यहम्
श्रुतेन येन देवेश हरौ भक्तिर्विवर्द्धते
तद्वदस्वाधुना देव यद्यहं तव वल्लभा ॥ २ ॥
मूलम्
अधुना श्रोतुमिच्छमि गीतामाहात्म्यमप्यहम्
श्रुतेन येन देवेश हरौ भक्तिर्विवर्द्धते
तद्वदस्वाधुना देव यद्यहं तव वल्लभा ॥ २ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
अतसीपुष्पसङ्काशं खगेन्द्रासनमच्युतम्
शयानं शेषशय्यायां महाविष्णुमुपास्महे ॥ ३ ॥
मूलम्
ईश्वर उवाच
अतसीपुष्पसङ्काशं खगेन्द्रासनमच्युतम्
शयानं शेषशय्यायां महाविष्णुमुपास्महे ॥ ३ ॥
विश्वास-प्रस्तुतिः
कदाचिदासने रम्ये सुखासीनं मुरद्विषम्
आनन्दयित्री लोकानां लक्ष्मीः पप्रच्छ सादरात् ॥ ४ ॥
मूलम्
कदाचिदासने रम्ये सुखासीनं मुरद्विषम्
आनन्दयित्री लोकानां लक्ष्मीः पप्रच्छ सादरात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
श्रीरुवाच
शयालुरसि दुग्धाब्धौ भगवन्केन हेतुना
उदासीन इवैश्वर्यं जगन्ति स्थापयन्निव ॥ ५ ॥
मूलम्
श्रीरुवाच
शयालुरसि दुग्धाब्धौ भगवन्केन हेतुना
उदासीन इवैश्वर्यं जगन्ति स्थापयन्निव ॥ ५ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
इति देव्या वचः श्रुत्वा मुरभिज्ज्ञानगर्वितम्
उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः ॥ ६ ॥
मूलम्
ईश्वर उवाच
इति देव्या वचः श्रुत्वा मुरभिज्ज्ञानगर्वितम्
उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
नाहं सुमुखि निद्रालुर्निजं माहेश्वरं वपुः
दृशा तत्वानुवर्त्तिन्या पश्याम्यन्तर्निमग्नया ॥ ७ ॥
मूलम्
श्रीभगवानुवाच
नाहं सुमुखि निद्रालुर्निजं माहेश्वरं वपुः
दृशा तत्वानुवर्त्तिन्या पश्याम्यन्तर्निमग्नया ॥ ७ ॥
विश्वास-प्रस्तुतिः
कुशाग्रया धिया देवि यदन्तर्योगिनो हृदि
पश्यन्ति यच्च वेदानां सारं मीमांसते भृशम् ॥ ८ ॥
मूलम्
कुशाग्रया धिया देवि यदन्तर्योगिनो हृदि
पश्यन्ति यच्च वेदानां सारं मीमांसते भृशम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तदेवमक्षरं ज्योतिरात्मरूपमनामयम्
अखण्डानन्द सन्दोह निष्पादि द्वैतवर्जितम् ॥ ९ ॥
मूलम्
तदेवमक्षरं ज्योतिरात्मरूपमनामयम्
अखण्डानन्द सन्दोह निष्पादि द्वैतवर्जितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
यदाश्रया जगद्वृत्तिर्यन्मया चानुभूयते
न येन रहितं किञ्चिज्जगत्तत्वं चराचरम् ॥ १० ॥
मूलम्
यदाश्रया जगद्वृत्तिर्यन्मया चानुभूयते
न येन रहितं किञ्चिज्जगत्तत्वं चराचरम् ॥ १० ॥
विश्वास-प्रस्तुतिः
निर्मथ्य बहुधालोक्य वेदशास्त्राम्बुधिं सुधीः
द्वैपायनो यदासाद्य गीताशास्त्रं निसृष्टवान् ॥ ११ ॥
मूलम्
निर्मथ्य बहुधालोक्य वेदशास्त्राम्बुधिं सुधीः
द्वैपायनो यदासाद्य गीताशास्त्रं निसृष्टवान् ॥ ११ ॥
विश्वास-प्रस्तुतिः
यदास्थाय महानन्दमानन्दीकृतमानसः
निद्रालुरिव देवेशि दुग्धाब्धौ प्रतिभामि वै ॥ १२ ॥
मूलम्
यदास्थाय महानन्दमानन्दीकृतमानसः
निद्रालुरिव देवेशि दुग्धाब्धौ प्रतिभामि वै ॥ १२ ॥
विश्वास-प्रस्तुतिः
इति तस्य मुरारातेर्मितमानन्दवद्वचः
सा हर्षोत्फुल्ललोलाक्षी लक्ष्मी श्रुत्वा विसिस्मिरे ॥ १३ ॥
मूलम्
इति तस्य मुरारातेर्मितमानन्दवद्वचः
सा हर्षोत्फुल्ललोलाक्षी लक्ष्मी श्रुत्वा विसिस्मिरे ॥ १३ ॥
विश्वास-प्रस्तुतिः
श्रीरुवाच
भवानेव हृषीकेश ध्येयोऽसि यमिनां सदा
तस्मात्त्वत्तः परं यत्तच्छ्रोतुं कौतूहलं हि मे ॥ १४ ॥
मूलम्
श्रीरुवाच
भवानेव हृषीकेश ध्येयोऽसि यमिनां सदा
तस्मात्त्वत्तः परं यत्तच्छ्रोतुं कौतूहलं हि मे ॥ १४ ॥
विश्वास-प्रस्तुतिः
चराचराणां लोकानां कर्त्ता हर्त्ता स्वयं प्रभुः
यथास्थितस्ततोऽन्यत्वं यदि मां बोधयाच्युत ॥ १५ ॥
मूलम्
चराचराणां लोकानां कर्त्ता हर्त्ता स्वयं प्रभुः
यथास्थितस्ततोऽन्यत्वं यदि मां बोधयाच्युत ॥ १५ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
मायामयमिदं देवि वपुर्मे न तु तात्विकम्
सृष्टिस्थित्योपसंहारक्रियाजालोपबृंहितम् ॥ १६ ॥
मूलम्
श्रीभगवानुवाच
मायामयमिदं देवि वपुर्मे न तु तात्विकम्
सृष्टिस्थित्योपसंहारक्रियाजालोपबृंहितम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अतोऽन्यदात्मनोरूपं द्वैताद्वैतविवर्जितम्
भावाभावविनिर्मुक्तमाद्यन्तरहितं प्रिये ॥ १७ ॥
मूलम्
अतोऽन्यदात्मनोरूपं द्वैताद्वैतविवर्जितम्
भावाभावविनिर्मुक्तमाद्यन्तरहितं प्रिये ॥ १७ ॥
विश्वास-प्रस्तुतिः
शुद्धसंवित्प्रभालाभं परानन्दैकसुन्दरम्
रूपमैश्वरमात्मैक्यगम्यं गीतासु कीर्तितम् ॥ १८ ॥
मूलम्
शुद्धसंवित्प्रभालाभं परानन्दैकसुन्दरम्
रूपमैश्वरमात्मैक्यगम्यं गीतासु कीर्तितम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
इत्याकर्ण्य वचो देवि देवस्यामिततेजसः
शङ्कमाना ह वाक्येषु परस्परविरोधिषु ॥ १९ ॥
मूलम्
इत्याकर्ण्य वचो देवि देवस्यामिततेजसः
शङ्कमाना ह वाक्येषु परस्परविरोधिषु ॥ १९ ॥
विश्वास-प्रस्तुतिः
स्वयं चेत्परमानन्दमवाङ्मनसगोचरम्
कथं गीता बोधयति इति मे च्छिन्धि संशयम् ॥ २० ॥
मूलम्
स्वयं चेत्परमानन्दमवाङ्मनसगोचरम्
कथं गीता बोधयति इति मे च्छिन्धि संशयम् ॥ २० ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
श्रियः श्रुत्वा वचोयुक्तमितिहासपुरःसरम्
आत्मानुगामिनीं दृष्टिं गीतां बोधितवान्प्रभुः ॥ २० ॥
मूलम्
ईश्वर उवाच
श्रियः श्रुत्वा वचोयुक्तमितिहासपुरःसरम्
आत्मानुगामिनीं दृष्टिं गीतां बोधितवान्प्रभुः ॥ २० ॥
विश्वास-प्रस्तुतिः
अहमात्मा परेशानि परापरविभेदतः
द्विधा ततः परः साक्षी निर्गुणो निष्कलः शिवः ॥ २१ ॥
मूलम्
अहमात्मा परेशानि परापरविभेदतः
द्विधा ततः परः साक्षी निर्गुणो निष्कलः शिवः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अपरः पञ्चवक्त्रोऽहं द्विधा तस्यापि संस्थितिः
शब्दार्थभेदतो वाच्यो यथात्माहं महेश्वरः ॥ २२ ॥
मूलम्
अपरः पञ्चवक्त्रोऽहं द्विधा तस्यापि संस्थितिः
शब्दार्थभेदतो वाच्यो यथात्माहं महेश्वरः ॥ २२ ॥
विश्वास-प्रस्तुतिः
गीतानां वाक्यरूपेण यन्निरुच्छिद्यते दृढः
मदीयपाशबन्धोऽयं संसारविषयात्मकः ॥ २३ ॥
मूलम्
गीतानां वाक्यरूपेण यन्निरुच्छिद्यते दृढः
मदीयपाशबन्धोऽयं संसारविषयात्मकः ॥ २३ ॥
विश्वास-प्रस्तुतिः
यदाभ्यासपराधीनौ पञ्चवक्त्रमहेश्वरौ
इति तस्य वचः श्रुत्वा गीतासारमहोदधेः ॥ २४ ॥
मूलम्
यदाभ्यासपराधीनौ पञ्चवक्त्रमहेश्वरौ
इति तस्य वचः श्रुत्वा गीतासारमहोदधेः ॥ २४ ॥
विश्वास-प्रस्तुतिः
इदं परविभेदेन बुध्यते भवभीरुभिः
तमपृच्छदिदं लक्ष्मीरङ्गप्रत्यङ्गसंस्थितम् ॥ २५ ॥
मूलम्
इदं परविभेदेन बुध्यते भवभीरुभिः
तमपृच्छदिदं लक्ष्मीरङ्गप्रत्यङ्गसंस्थितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
माहात्म्यं सेतिहासं च सर्वं तस्यै न्यवेदयत्
श्रीभगवानुवाच
शृणु सुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः ॥ २६ ॥
मूलम्
माहात्म्यं सेतिहासं च सर्वं तस्यै न्यवेदयत्
श्रीभगवानुवाच
शृणु सुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः ॥ २६ ॥
विश्वास-प्रस्तुतिः
वक्त्राणि पञ्च जानीहि पञ्चाध्यायाननुक्रमात्
दशाध्याया भुजाश्चैक उदरं द्वौ पदाम्बुजे ॥ २७ ॥
मूलम्
वक्त्राणि पञ्च जानीहि पञ्चाध्यायाननुक्रमात्
दशाध्याया भुजाश्चैक उदरं द्वौ पदाम्बुजे ॥ २७ ॥
विश्वास-प्रस्तुतिः
एवमष्टादशाध्याया वाङ्मयी मूर्तिरैश्वरी
विज्ञेया ज्ञानमात्रेण महापातकनाशिनी ॥ २८ ॥
मूलम्
एवमष्टादशाध्याया वाङ्मयी मूर्तिरैश्वरी
विज्ञेया ज्ञानमात्रेण महापातकनाशिनी ॥ २८ ॥
विश्वास-प्रस्तुतिः
अतोध्यायं तदर्धं वा श्लोकमर्द्धं तदर्धकम्
अभ्यस्यति सुमेधा यः सुशर्मेव समुच्यते ॥ २९ ॥
मूलम्
अतोध्यायं तदर्धं वा श्लोकमर्द्धं तदर्धकम्
अभ्यस्यति सुमेधा यः सुशर्मेव समुच्यते ॥ २९ ॥
विश्वास-प्रस्तुतिः
श्रीरुवाच
सुशर्मा नाम को देव किं जातीयः किमात्मकः
कुतस्तस्य च वै मुक्तिः केनाजायत हेतुना ॥ ३० ॥
मूलम्
श्रीरुवाच
सुशर्मा नाम को देव किं जातीयः किमात्मकः
कुतस्तस्य च वै मुक्तिः केनाजायत हेतुना ॥ ३० ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
सुशर्मा नाम दुर्मेधाः सीमा पापात्मनामभूत्
जातो नात्मविदां वंशे विप्राणां क्रूरकर्मणाम् ॥ ३१ ॥
मूलम्
श्रीभगवानुवाच
सुशर्मा नाम दुर्मेधाः सीमा पापात्मनामभूत्
जातो नात्मविदां वंशे विप्राणां क्रूरकर्मणाम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
न ध्यानं न जपो होमो न चैवातिथिपूजनम्
केवलं विषयेष्वेव बलाढ्येनाभिवर्त्तते ॥ ३२ ॥
मूलम्
न ध्यानं न जपो होमो न चैवातिथिपूजनम्
केवलं विषयेष्वेव बलाढ्येनाभिवर्त्तते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कृषिकर्मरतो नित्यं पर्णजीवी सुराप्रियः
मांसोपहारी सुचिरं कालमेवं निनाय सः ॥ ३३ ॥
मूलम्
कृषिकर्मरतो नित्यं पर्णजीवी सुराप्रियः
मांसोपहारी सुचिरं कालमेवं निनाय सः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
आनेतुकामः पर्णानि पर्यटनृषिवाटिकाम्
ततः स तत्र दष्टोऽभूत्कालसर्पेण मूढधीः ॥ ३४ ॥
मूलम्
आनेतुकामः पर्णानि पर्यटनृषिवाटिकाम्
ततः स तत्र दष्टोऽभूत्कालसर्पेण मूढधीः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
कालधर्मं समासाद्य गत्वा च निरयान्बहून्
पुनरागत्य मर्त्येषु बलीवर्दत्वमीयिवान् ॥ ३५ ॥
मूलम्
कालधर्मं समासाद्य गत्वा च निरयान्बहून्
पुनरागत्य मर्त्येषु बलीवर्दत्वमीयिवान् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
पङ्गुना केन विक्रीतः स स्वजीवनहेतवे
नयन्पृष्ठेन शरदः सप्ताष्टौ कष्टतोनयत्॥ ३६ ॥
मूलम्
पङ्गुना केन विक्रीतः स स्वजीवनहेतवे
नयन्पृष्ठेन शरदः सप्ताष्टौ कष्टतोनयत्॥ ३६ ॥
विश्वास-प्रस्तुतिः
कदाचित्पङ्गुनासोऽपि चिरमावर्तितो जवात्
पपात तरसा भूमौ मूर्च्छां च प्रतिपेदिवान्॥ ३७ ॥
मूलम्
कदाचित्पङ्गुनासोऽपि चिरमावर्तितो जवात्
पपात तरसा भूमौ मूर्च्छां च प्रतिपेदिवान्॥ ३७ ॥
विश्वास-प्रस्तुतिः
विकलाङ्गो विवृत्ताक्षः फेनसन्ततिमुद्गिरन्
न जीवति न मृत्युं वा प्रतिपेदे स्वकर्मणा ॥ ३८ ॥
मूलम्
विकलाङ्गो विवृत्ताक्षः फेनसन्ततिमुद्गिरन्
न जीवति न मृत्युं वा प्रतिपेदे स्वकर्मणा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कौतुकाकृष्टलोकेऽस्मिंस्तस्मिन्जनसमागमे
श्रेयसे तस्य सुकृती कश्चित्पुण्यं वितीर्णवान् ॥ ३९ ॥
मूलम्
कौतुकाकृष्टलोकेऽस्मिंस्तस्मिन्जनसमागमे
श्रेयसे तस्य सुकृती कश्चित्पुण्यं वितीर्णवान् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचन
गणिका कापि तत्रस्था लोकयात्रानुवर्तिनी ॥ ४० ॥
मूलम्
कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचन
गणिका कापि तत्रस्था लोकयात्रानुवर्तिनी ॥ ४० ॥
विश्वास-प्रस्तुतिः
अज्ञात निजपुण्या सा किञ्चिदुत्सृष्टवत्यभूत्
परेतनगरीमादौ स नीतः कालकिङ्करैः ॥ ४१ ॥
मूलम्
अज्ञात निजपुण्या सा किञ्चिदुत्सृष्टवत्यभूत्
परेतनगरीमादौ स नीतः कालकिङ्करैः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
गणिकादत्तपुण्येन पुण्यवानिति मोचितः
पुनरागत्य भूर्लोकं कुलशीलवतां गृहे ॥ ४२ ॥
मूलम्
गणिकादत्तपुण्येन पुण्यवानिति मोचितः
पुनरागत्य भूर्लोकं कुलशीलवतां गृहे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
द्विजन्मनामसौ जज्ञे जातिं स्वामनुसंस्मरन्
काले महति जिज्ञासुः श्रेयः स्वाज्ञाननोदनम् ॥ ४३ ॥
मूलम्
द्विजन्मनामसौ जज्ञे जातिं स्वामनुसंस्मरन्
काले महति जिज्ञासुः श्रेयः स्वाज्ञाननोदनम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान्
आचष्ट मां शुको नित्यं पञ्जरस्थः पठत्यसौ ॥ ४४ ॥
मूलम्
उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान्
आचष्ट मां शुको नित्यं पञ्जरस्थः पठत्यसौ ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तेन पूतान्तरात्माहं तत्पुण्यं पर्यकल्पयम्
ताभ्यां शुकस्तु पृष्टोऽसौ व्याख्यातुमुपचक्रमे ॥ ४५ ॥
मूलम्
तेन पूतान्तरात्माहं तत्पुण्यं पर्यकल्पयम्
ताभ्यां शुकस्तु पृष्टोऽसौ व्याख्यातुमुपचक्रमे ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आख्यायिकां पुरावृत्तां स्मृत्वा जातिं निजामपि
शुक उवाच
पुरा विद्वानहं भूत्वा वैदुष्य स्मयमोहितः ॥ ४६ ॥
मूलम्
आख्यायिकां पुरावृत्तां स्मृत्वा जातिं निजामपि
शुक उवाच
पुरा विद्वानहं भूत्वा वैदुष्य स्मयमोहितः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरी
कालेनाहं ततः प्रेत्य प्राप्य लोकाञ्जुगुप्सितान् ॥ ४७ ॥
मूलम्
रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरी
कालेनाहं ततः प्रेत्य प्राप्य लोकाञ्जुगुप्सितान् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सोऽहं कीरकुलेऽभूवं सद्गुरावतिनिन्दकः
काले धर्मणि दुष्कर्मा पितृभ्यां च वियोजितः ॥ ४८ ॥
मूलम्
सोऽहं कीरकुलेऽभूवं सद्गुरावतिनिन्दकः
काले धर्मणि दुष्कर्मा पितृभ्यां च वियोजितः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
निदाघेऽध्वनिसन्तप्ते आनीतो ऋषिपुङ्गवैः
पातितः पञ्जरस्थोऽहं माश्रमे महदाश्रये ॥ ४९ ॥
मूलम्
निदाघेऽध्वनिसन्तप्ते आनीतो ऋषिपुङ्गवैः
पातितः पञ्जरस्थोऽहं माश्रमे महदाश्रये ॥ ४९ ॥
विश्वास-प्रस्तुतिः
आवर्तयद्भ्यो गीतानामाद्यमध्यायमादरात्
श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः 6.175.॥ ५० ॥
मूलम्
आवर्तयद्भ्यो गीतानामाद्यमध्यायमादरात्
श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः 6.175.॥ ५० ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे कश्चिद्वागुरिश्चौरकर्मकृत्
मामाहृत्य तदाक्रीणादिति वृत्तमुदाहृतम् ॥ ५१ ॥
मूलम्
एतस्मिन्नन्तरे कश्चिद्वागुरिश्चौरकर्मकृत्
मामाहृत्य तदाक्रीणादिति वृत्तमुदाहृतम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
अध्यायोऽयं पुराम्नातो येन पापमनोदयम्
पूतान्तरात्मा येनासौ मोचितश्च द्विजोत्तमः ॥ ५२ ॥
मूलम्
श्रीभगवानुवाच
अध्यायोऽयं पुराम्नातो येन पापमनोदयम्
पूतान्तरात्मा येनासौ मोचितश्च द्विजोत्तमः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य च
ते जपन्तोनिशं धीरा मुक्तिं गेहे प्रपेदिरे॥ ५३ ॥
मूलम्
एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य च
ते जपन्तोनिशं धीरा मुक्तिं गेहे प्रपेदिरे॥ ५३ ॥
तस्मादध्यायमाद्यं यः पठते शृणुते स्मरेत्
अभ्यसेत्तस्य न भवेद्भवाम्भोधिर्दुरुत्तरः५४