महादेव उवाच
विश्वास-प्रस्तुतिः
शृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम्
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥ १ ॥
मूलम्

उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवे
तिथिर्वापि समासो वै सञ्जातः पुण्यकारकः ॥ २ ॥

यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम्
स एव परमात्मा च कारणानां च कारणम् ॥ ३ ॥

विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः
द्वादशार्का धृता येन नृसिंहेन महात्मना
स एव प्रकटीजातो भक्तानां शमभीप्सया ॥ ४ ॥

पार्वत्युवाच
अवतारा ह्यसङ्ख्याताः कथिताः सुरसत्तम
नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो
येन विज्ञानमात्रेण सुख लोकमवाप्नुयात् ॥ ५ ॥

हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम्
सुखासीनं तदुत्सङ्गे स्थितो वचनमब्रवीत् ॥ ६ ॥

प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहन्तारमुत्तमम् ॥ ७ ॥

प्रह्लाद उवाच
नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे
त्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः ॥ ८ ॥

स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा
कथं तेऽहं प्रियो जातः कारणं वद मे प्रभो ॥ ९ ॥

नृसिंह उवाच
कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः
भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः ॥ १० ॥

पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान्
नाम्ना तु वसुदेवो हि वेश्यायामति लम्पटः ॥ ११ ॥

तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत्
भुक्त्वा मधु घृतं चैव वेश्यासङ्गमलालसः ॥ १२ ॥

मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघ
प्रह्लादोवाच
विस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम् ॥ १३ ॥

वेश्यायां वर्तमानेन कथञ्चिद्धि कृतं मया
ममोपरि कृपां कृत्वा सर्वं कथय साम्प्रतम् ॥ १४ ॥

सृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम्
मद्व्रतस्य प्रभावेन निर्मितं सचराचरम् ॥ १५ ॥

ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यच
व्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः ॥ १६ ॥

अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः
राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् ॥ १७ ॥

व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुः
मम ते वै प्रिया जाता दिवि भोगाननेकशः ॥ १८ ॥

भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम्
कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः ॥ १९ ॥

न तेषां पुनरावृत्तिर्महाकल्पशतैरपि
दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी ॥ २० ॥

ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम्
आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि ॥ २१ ॥

अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथा
धनधान्यकरं चैव तथाशोकविनाशनम् ॥ २२ ॥

स्त्रियो वा पुरुषा वापि कुर्वन्ति व्रतमुत्तमम्
तेभ्यो ददाम्यहं सौख्यं भुक्ति मुक्ति फलं तथा ॥ २३ ॥

बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि
मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शङ्करः ॥ २४ ॥
मूलम्
बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि
मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शङ्करः ॥ २४ ॥
विश्वास-प्रस्तुतिः
प्रह्लाद उवाच
भगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम्
व्रतस्यास्य फलं श्रोतुं त्वयि मे भक्ति कारणम् ॥ २५ ॥

अधुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम्
कस्मिन्मासे भवेदेव कस्मिंश्चिद्वासरे प्रभो ॥ २६ ॥

एतद्विस्तरतो देव वक्तुमर्हसि साम्प्रतम्
विधिना येन वै स्वामिन्समग्रफलभाग्भवेत् ॥ २७ ॥

प्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम्
वैशाखेसित पक्षे तु चतुर्दश्यां समाचरेत् ॥ २८ ॥

ममाविर्भावसंयुक्तं मम सन्तुष्टिकारणम्
शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे ॥ २९ ॥

पश्चिमायां दिशायां च सञ्जातं कारणान्तरात्
मौलिस्तानमिदं क्षेत्रं पवित्रं पापनाशनम् ॥ ३० ॥

तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगः
हारीत इति नाम्ना च ज्ञानध्यानपरायणः ॥ ३१ ॥

तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभो
लीलावती तु नाम्ना च भर्तुर्वशपरा सदा ॥ ३२ ॥

ताभ्यां तपो महत्तप्तं कालं बहुतरं सुत
एकविंशयुगाश्चैव यातास्तत्र न संशयः
तस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो वाभवत्तदा ॥ ३३ ॥

यं यं वाञ्छयसे ब्रह्मंस्तं ददामि न संशयः
ताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम ॥ ३४ ॥

त्वादृशो मम पुत्रस्तु ह्यधुनैव भवत्विति
मयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः ॥ ३५ ॥

विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परः
उदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः ॥ ३६ ॥

हारीतेन तदा चोक्तं भवत्वेवं न संशयः
तदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात् ॥ ३७ ॥

अत्रागत्य प्रकुर्वीत दर्शनं भक्तसत्तमः
तस्याहं सकलां बाधां नाशयामि निरन्तरम् ॥ ३८ ॥

एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम्
ये कुर्वन्ति नरश्रेष्ठा न तेषां विद्यते भयम् ॥ ३९ ॥

बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतः
पूजनं कुरुते रात्रौ स वै नारायणो भवेत् ॥ ४० ॥

चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम्
सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम्
सिंहवच्च मुखं यस्य नरवच्चाङ्गसंयुतम् ॥ ४१ ॥

श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदा
एवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत् ॥ ४२ ॥

व्रतं पवित्रं परमं श्रीकदम्ब प्रदं महत्
अन्ते मुक्तिप्रदं चैव भक्तानां च न संशयः ॥ ४३ ॥

येन वै क्रियमाणेन सहस्रद्वादशी फलम्
स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम् ॥ ४४ ॥

सिद्धियोगस्य संयोगे वणिजे करणे तथा
योगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम् ॥ ४५ ॥

एतदन्यतरैर्योगे मद्दिनं पापनाशनम्
विज्ञाय मद्दिनं यस्तु लङ्घयेत्स तु पापकृत् ॥ ४६ ॥

अकर्त्ता नरकं याति यावच्चन्द्र दिवाकरौ
प्राप्ते मम दिने वत्स दन्तधावनपूर्वकम् ॥ ४७ ॥

ममाग्रे व्रतसङ्कल्पं मद्भक्तो विजितेन्द्रियः
अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ॥ ४८ ॥

व्रतस्थेन न कर्त्तव्यं दुष्टसम्भाषणादिकम्
ततो मध्याह्नसमये नद्यादौ विमले जले ॥ ४९ ॥

गृहे वा देवखाते वा तडागे वाथ शोभने
वैदिकेन तु मन्त्रेण स्नानं कुर्याद्विचक्षणः 6.174.॥ ५० ॥

मृत्तिका गोमयेनैव तथा धात्रीफलेन च
तिलैश्च विधिवत्स्नायात्सर्वपापौघ शान्तये ॥ ५१ ॥

परिधाय शुभे वस्त्रे नित्यकर्म समारभेत्
ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम् ॥ ५२ ॥

कलशं तत्र संस्थाप्य ताम्रन्त्रसमन्वितम्
तस्योपरि न्यसेत्पात्रं तण्डुलैः परिपूरितम् ॥ ५३ ॥

हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम्
निर्माय शक्त्या स्वर्णेन स्नाप्य पञ्चामृतैस्ततः ॥ ५४ ॥

ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम्
शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत् ॥ ५५ ॥

मण्डपं कारयेत्तत्र पुष्पस्तबक शोभितम्
ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि ॥ ५६ ॥

उपचारैः षोडशभिर्मन्त्रैर्नियमैश्च यः
ततः पौराणिकैर्मन्त्रैः पूजनीयो विशेषतः ॥ ५७ ॥

चन्दनं च सकर्पूरं घनकुङ्कुममिश्रितम्
कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च ॥ ५८ ॥

श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः
कृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम् ॥ ५९ ॥

हरये गुरवे दद्यात्सर्वकामार्थसिद्धये
महादीपः प्रकर्त्तव्यो ह्यज्ञानध्वान्त नाशनः
महानीराजनं कुर्याद्घण्टानाद पुरःसरम् ॥ ६० ॥

नैवेद्यं शर्करां चापि भक्ष्यभौज्यसमन्वितम्
ददामि ते रमाकान्त सर्वपापक्षयं कुरु ॥ ६१ ॥

नैवेद्य मन्त्र
नृसिंहाच्युत देवेश तव जन्मदिने शुभे
उपवासं करिष्यामि सर्वभोगविवर्जितः ॥ ६२ ॥

तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरु
रात्रौ जागरणं कार्यं गीतवादित्र निःस्वनैः ॥ ६३ ॥

पुराणपठनं नित्यं श्रीनृसिङ्कथाश्रयम्
ततः प्रभातसमये स्नानं कृत्वा ह्यनन्तरम् ॥ ६४ ॥

पूर्वोक्तेन विधानेन पूजयेन्मां प्रतर्पयन्
वैष्णवं कारयेच्छ्राद्धं मदग्रे स्वस्थमानसः ॥ ६५ ॥

ततो दानानि देयानि वक्ष्यमाणानि यान्युत
पात्रेभ्यः स द्विजेभ्यो हि लोकद्वय जिगीषया ॥ ६६ ॥

सहस्वर्णमयो देवो मम सन्तोषकारकः
गोभूतिलहिरण्यादि प्रददाति द्विजातये ॥ ६७ ॥

शय्या सतूलिका देया सप्तधान्यसमन्विता
अन्यानि च यथाशक्त्या देयानि निजशक्तितः ॥ ६८ ॥

वित्तशाठ्यं न कुर्वीत यथोक्तफलकाङ्क्षया
ब्राह्मणान्भोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम् ॥ ६९ ॥

निर्धनैरपि कर्त्तव्यं देयं शक्त्यनुसारतः
सर्वेषामेव वर्णानामधिकारोऽस्ति मद्व्रते
मद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः ॥ ७० ॥

ततः प्रार्थना मन्त्रः
मद्वंशे येन राजा ता ये भविष्याश्च मानवाः
तानुद्धरस्व देवेश दुःखदाद्भवसागरात् ॥ ७१ ॥

पातकार्णवमग्नस्य व्याधिभिश्चाम्बुचारिभिः
जीवैस्तु परिभूतस्य महादुःखगतस्य मे ॥ ७२ ॥

करावलम्बनं देहि शेषशायी जगत्पते
व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव ॥ ७३ ॥

एवं प्रार्थ्य ततो देवं विसृज्य च यथाविधि
उपहारादिकं सर्वे आचार्याय निवेदयेत् ॥ ७४ ॥

दक्षिणाभिश्च सन्तोष्या ब्राह्मणांश्च विसर्जयेत्
मम ध्यान समायुक्तो भुञ्जीत सह बन्धुभिः ॥ ७५ ॥

अकिञ्चनोपि नियतमुपोष्यति चतुर्दशीम्
सप्त जन्म कृतात्पापान्मुच्यते नात्र संशयः ॥ ७६ ॥

य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम्
तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ॥ ७७ ॥

पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः
सर्वकामानवाप्नोति व्रतस्यास्य फलं सदा ॥ ७८ ॥

य इदं कुरुते शक्त्या काले मध्याह्न सञ्ज्ञके
लीलावत्या सह ऋषिं श्रीनृसिंह प्रसादतः ॥ ७९ ॥

पूजयेत्परया भक्त्या मुक्तिं प्राप्नोति शाश्वतीम्
तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत् ॥ ८० ॥

वाञ्च्छितं लभते नित्यं श्रीनृसिंह प्रसादतः
श्रीनृसिंह महद्रूप कालकोटिदुरासद ॥ ८१ ॥

भैरवेश हरार्तिघ्न बालरूप नमोस्तु ते
श्रीनृसिंहाय रूपाय बालाय बालरूपिणे ॥ ८२ ॥

व्यापकाय सुनन्दाय स्वात्मप्रकट रूपिणे
सर्वजीवात्मकायैव विश्वेशाय स्वरात्मने ॥ ८३ ॥

मार्तण्ड मण्डलस्थाय दयासिन्धो नमोस्तु ते
चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे ॥ ८४ ॥

जगदेकस्वरूपाय नृसिंहाय नमोस्तु ते
भाले दधार यो देवो नृसिंहो वीरभद्र जित् ॥ ८५ ॥

द्वादशादित्यबिम्बानि सुतप्तानि प्रमाणतः
तत्र सिन्धु महापुण्या नदी रम्या विशेषतः ॥ ८६ ॥

तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुन्दरि
मौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम् ॥ ८७ ॥

वसतिर्वर्त्तते तत्र हारीतस्य महात्मनः
लीलावती तु तत्रैव तिष्ठते नात्र संशयः ॥ ८८ ॥

प्रतिशब्दो भवेत्तत्र सिन्धुनद्याः समीपतः
कलौ युगे तु सम्प्राप्ते म्लेच्छा वै पापचारिणः ॥ ८९ ॥

निवसन्ति तु तत्रैव बहवो नात्र संशयः
नृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः ॥ ९० ॥

नृसिंहेति नृसिंहेति य उच्चैर्नदते नरः
तादृशः प्रतिशब्दो वै जायते नगनन्दिनि ॥ ९१ ॥

ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः
सिन्धौ गत्वा विशेषेण स्नानं कुर्वन्ति ये जनाः ॥ ९२ ॥

मुच्यते नात्र सन्देहः श्रीनृसिंह प्रसादतः
दशारात्रिप्रमाणेन मानवा ये वसन्ति हि ॥ ९३ ॥

ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः
निवसन्ति कलौ तत्र वर्णा ये द्विजपूर्वकाः ॥ ९४ ॥

म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैः
मांसं खादन्ति ते तत्र मद्यपानं पपुः सदा ॥ ९५ ॥

अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयः
सन्ध्याहीना यथा विप्रा वेदबाह्यास्तथैव च ॥ ९६ ॥

निवसन्ति पुरे तस्मिन्पश्चिमायां सुरेश्वरि
एकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम्
यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः ॥ ९७ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे नृसिंहोत्पत्ति
र्नाम चतुःसप्तत्यधिकशततमोऽध्यायः १७४