१७३

महादेव उवाच

विश्वास-प्रस्तुतिः

दुर्गया सङ्गता यत्र देवि साभ्रमती नदी
सङ्गमः सागरेणाथ स्नानं तत्र समाचरेत् ॥ १ ॥

मूलम्

दुर्गया सङ्गता यत्र देवि साभ्रमती नदी
सङ्गमः सागरेणाथ स्नानं तत्र समाचरेत् ॥ १ ॥

विश्वास-प्रस्तुतिः

वीतदोषा भविष्यन्ति कलौ वै नात्र संशयः
तत्र श्राद्धं प्रकर्त्तव्यं दुर्गया सङ्गमे तथा ॥ २ ॥

मूलम्

वीतदोषा भविष्यन्ति कलौ वै नात्र संशयः
तत्र श्राद्धं प्रकर्त्तव्यं दुर्गया सङ्गमे तथा ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम्
दानं गोमहिषीणां च कर्तव्यं विधिपूर्वकम् ॥ ३ ॥

मूलम्

तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम्
दानं गोमहिषीणां च कर्तव्यं विधिपूर्वकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

इयं धन्या धन्यतमा पवित्रा पापनाशिनी
यां दृष्ट्वा चापि भो देवि मुच्यते पातकैर्नरः ॥ ४ ॥

मूलम्

इयं धन्या धन्यतमा पवित्रा पापनाशिनी
यां दृष्ट्वा चापि भो देवि मुच्यते पातकैर्नरः ॥ ४ ॥

विश्वास-प्रस्तुतिः

यथा गङ्गा तथा चेयं ज्ञेया साभ्रमती नदी
कलौ देवि विशेषेण बहुकालफलप्रदा ॥ ५ ॥

मूलम्

यथा गङ्गा तथा चेयं ज्ञेया साभ्रमती नदी
कलौ देवि विशेषेण बहुकालफलप्रदा ॥ ५ ॥

विश्वास-प्रस्तुतिः

यदि चेच्छतशो जिह्वा मुखे वै मामके सति
तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन ॥ ६ ॥

मूलम्

यदि चेच्छतशो जिह्वा मुखे वै मामके सति
तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन ॥ ६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्यन्नाम त्रिसप्तत्यधिकशततमोऽध्यायः १७३