महादेव उवाच
विश्वास-प्रस्तुतिः
तस्मात्तीर्थात्परं तीर्थं नीलकण्ठेति विश्रुतम्
तस्य वै दर्शनं कार्यं मुक्तिं चैवेच्छता सदा ॥ १ ॥
मूलम्

बिल्वपत्रैस्तथा धूपैर्दीपैर्वाथ सुरेश्वरि
वाञ्छितं लभते मर्त्यो नीलकण्ठस्य दर्शनात् ॥ २ ॥

उपवासपरो देवि निर्जनेसौ स्थितः सदा
यद्यद्वाञ्च्छन्ति ये लोकास्तेषां तत्तद्ददाति च ॥ ३ ॥

कलौ सा तु महादेवि विख्याता काश्यपीति वै ॥ ४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तर
खण्डे नीलकण्ठमाहात्म्यन्नाम द्विसप्तत्यधिकशततमोऽध्यायः १७२