१७१

महादेव उवाच

विश्वास-प्रस्तुतिः

सङ्गमस्य समीपे तु सत्तीर्थं लोकविश्रुतम्
आदित्याख्यं परं तस्मान्न भूतं न भविष्यति ॥ १ ॥

मूलम्

यस्य वै दर्शनं कार्यं स्नानं वै पुष्करेण तु
पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः ॥ २ ॥

तत्र श्राद्धं च दानं च कुर्युर्वै मानवाः सदा
इदमादित्यकं तीर्थं पवित्रं पापनाशनम् ॥ ३ ॥

दर्शनात्पुण्यदं तीर्थं महापातकिनामपि ॥ ४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे सत्तीर्थमाहात्म्यन्नामैकसप्तत्यधिकशततमोऽध्यायः १७१