महादेव उवाच
विश्वास-प्रस्तुतिः
अत्र तीर्थात्परं तीर्थं सङ्गमाख्यमिति श्रुतम्
अत्र साभ्रमती गङ्गा मिलिता सागरेण तु ॥ १ ॥
मूलम्

तत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकम्
यत्र स्नात्वा तु मुच्यन्ते महापातकिनोऽपि ये ॥ २ ॥

तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता
यत्र वै तु कृते श्राद्धे पितृलोके वसेद्ध्रुवम् ॥ ३ ॥

यत्र वै सागरो देवो नित्यं मिलति गङ्गया
ब्रह्महा तत्र मुच्येत किमन्यैरितरैरघैः ॥ ४ ॥

यत्र तीर्थं न जानन्ति लोका वै मन्दबुद्धयः
तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम् ॥ ५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे सङ्गमतीर्थन्नाम सप्तत्यधिकशततमोऽध्यायः १७०