महेश उवाच
विश्वास-प्रस्तुतिः
ततःपरं देवनदी वार्त्रघ्नी सङ्गमात्किल
प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम् ॥ १ ॥
मूलम्

समुद्रोऽपि तया तावदागम्य प्रियकाम्यया
साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम् ॥ २ ॥

भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा
सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी ॥ ३ ॥

तयोस्तुसङ्गमः पुण्यः सागरस्योत्तरे तटे
तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः ॥ ४ ॥

नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात्
प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम् ॥ ५ ॥

जित्वा वै दानवान्सर्वान्देवानां परिपन्थिनः
देवो यज्ञवराहश्च सङ्क्षोभ्य मकरालयम्
क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ ॥ ६ ॥

पार्वत्युवाच
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम्
निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात् ॥ ७ ॥

महादेव उवाच
अन्तर्भू क्रीडितमिदं वराहस्य हरेः पुरा
तत्सर्वं कथयिष्यामि शृणु त्वं नगनन्दिनि ॥ ८ ॥

योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः
देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः ॥ ९ ॥

धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम्
तत्र तीर्थं महज्जातं वराहाख्यं तु सुन्दरि ॥ १० ॥

तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः
अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे
विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत् ॥ ११ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तर
खण्डे वाराहतीर्थन्नामैकोनसप्तत्यधिकशततमोऽध्यायः १६९