महादेव उवाच
विश्वास-प्रस्तुतिः
ततोगच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्यया
शक्रश्चैव तया साध्व्या सङ्गमं यत्र लब्धवान् ॥ १ ॥
मूलम्

तत्र स्नानं प्रकुर्वन्ति नरा नियतमानसाः
दशानामश्वमेधानां यत्फलं स्नानकृल्लभेत् ॥ २ ॥

तत्र यः कुरुते श्राद्धं पिण्डान्वै तिलचूर्णजान्
पुनाति पुरुषो वंशान्सप्तसप्तपरावरान् ॥ ३ ॥

सम्पूज्य विधिवत्स्नात्वा सङ्गमे गणनायकम्
न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते ॥ ४ ॥

पार्वत्युवाच
कस्मिन्कार्यसमारम्भे समायातः पुरन्दरः
स्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि ॥ ५ ॥

वार्त्रघ्नी च नदी केन निरुक्तेन निगद्यते
पुरन्दरपुरं देव ब्रह्मघोषनिनादितम्
सम्भावयति योऽजस्रं मम तत्सङ्गमं वद ॥ ६ ॥

अस्मिंश्चैव तु भूर्लोके प्रश्नोऽयं समभूत्पुरा
युधिष्ठिरेति विख्यातो राजा वै धार्मिको महान् ॥ ७ ॥

पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणे
तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः ॥ ८ ॥

दशवर्षसहस्राणि दशवर्षशतानि च
वृत्रवासवयोर्युद्धमभवल्लोमहर्षणम् ॥ ९ ॥
मूलम्
दशवर्षसहस्राणि दशवर्षशतानि च
वृत्रवासवयोर्युद्धमभवल्लोमहर्षणम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततः पराजितः शक्रः कृत्वा वृत्रेण संविधम्
अद्रोहे स रणं त्यक्त्वा जगाम शरणं मम ॥ १० ॥

वार्त्रघ्न्या सङ्गमे पुण्ये तोषयामास शङ्करम्
अथान्तरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा ॥ ११ ॥

ममगात्रात्तु यद्भस्म पतितं काश्यपी तटे
भस्मगात्रेति तत्पुण्यं लिङ्गं देवि विनिर्मितम् ॥ १२ ॥

भूतेश्वरं भस्मगात्रं ब्रह्मणा सम्प्रतिष्ठितम्
तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत् ॥ १३ ॥

मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु
तदहं सुप्रसन्नोऽभूदिन्द्राय सुमहात्मने ॥ १४ ॥

यद्यत्त्वं वाञ्छसे देव तत्सर्वं हि ददामि ते
अनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि ॥ १५ ॥

शक्र उवाच
भगवंस्त्वत्प्रसादेन दितिजं च दुरासदम्
वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम ॥ १६ ॥

एवमुक्त्वा तदा इन्द्रो गतवांश्चासुरं प्रति
तदा दुन्दुभयो नेदुर्देवसैन्ये विशेषतः ॥ १७ ॥

मृदङ्ग डिण्डिमाश्चैव भेरी तूर्याण्यनेकशः
असुराणां च सर्वेषां वृत्तिलोभो महानभूत ॥ १८ ॥

बलवान्मघवा चैव क्षणेन समजायत्
तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा ॥ १९ ॥

स्तुवन्ति शक्रमीशानं स्तुत्या जयजयेति च
गच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौ
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्भरम् ॥ २० ॥

वृत्रस्यसहसा देवि तदा सङ्ग्राममूर्द्धनि
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥ २१ ॥

ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परम्
गात्रकम्पश्च सुमहान्श्वासः सोष्मा व्यजायत् ॥ २२ ॥

रोमहर्षश्च तीव्रोऽभूच्छ्वासश्चैव महानभूत्
निष्पपात महाघोरा उल्काः पार्श्वं प्रपेदिरे ॥ २३ ॥

गृध्रा वटाः श्येन कङ्का वचो मुञ्चन्सुदारुणाः
वृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः ॥ २४ ॥

ततः स गजमास्थाय इन्द्रस्तत्र समागतः
वज्रोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत् ॥ २५ ॥

अमानुषमथो नादं स मुमोच सुरेश्वरः
वृत्रासुरस्य यततः शक्रो वज्रमपातयत् ॥ २६ ॥

स वज्रः सुमहातेजाः कालाग्निसदृशो महान्
समुद्रस्य तटे वृत्रं शक्रो दैत्यमपातयत् ॥ २७ ॥

ततो नादः समभवत्पुनरेव समन्ततः
वृत्रं विनिहतं दृष्ट्वा सर्वदेवभयङ्करम् ॥ २८ ॥

पुष्पवृष्टिस्तु महती इन्द्र मूर्ध्नि पपात ह
वृत्रं हत्वा स भगवान्दानवेशं भयङ्करम् ॥ २९ ॥

स्तूयमानोऽमरैः सार्द्धं देवदानीं तमाविशत्
अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम् ॥ ३० ॥

ब्रह्महत्यामहाघोरा रौद्र लोकभयङ्करी
करालवदना सा च विकृता कृष्णपिङ्गला ॥ ३१ ॥

कपालमालिनी चैव सुकृशा नगनन्दिनि
रुधिराक्ता च पापिष्ठा मीनगन्धातिभीषणा ॥ ३२ ॥

सानिष्क्रम्य महादेवि तादृग्रूपा भयावहा
इन्द्रमन्वेषयामास तदा वै सुरसत्तमे ॥ ३३ ॥

निर्धावती ततः सा तु दृष्ट्वा शक्रं महौजसम्
कण्ठे जग्राह देवेन्द्रं सुलग्ना साभवत्तदा ॥ ३४ ॥

स च तस्मिन्समुद्भ्रान्तो ब्रह्महत्याकृते भये
निलिल्य बिसमध्येऽसौ स्थितो वर्षगणान्बहून् ॥ ३५ ॥

तया गृहीतो भो देवि निश्चेष्टः समपद्यत
तस्या व्यपोहने शक्रः प्रयत्नं च चकार ह ॥ ३६ ॥

न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम्
तया गृहीतमात्रस्तु देवेन्द्रो निष्ठरूपधृक् ॥ ३७ ॥

पितामहमुपागम्य शिरसा प्रत्यपूजयत्
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ॥ ३८ ॥

ब्रह्मा सञ्चिन्तयामास तदा वै सुरसत्तमे
सा चिन्त्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः ॥ ३९ ॥

प्राप्तास्मि भगवन्देव त्वत्सकाशं हि मानद
यत्कर्त्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥ ४० ॥

तामुवाच महाभागे ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ सङ्क्षेपेण यथातथम् ॥ ४१ ॥

मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्यद्य कामं त्वं किमिहेच्छसि ॥ ४२ ॥

हत्योवाच
शक्रादपगमिष्यामि वचनात्ते नरोत्तम
देवदेव नमस्तेस्तु निवासं च ददस्व मे ॥ ४३ ॥

तथेति तां प्रतिज्ञाय हत्यां चापि पितामहः
उपायमथ शक्रस्य ब्रह्महत्यापनोदने ॥ ४४ ॥

ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत्
शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो ॥ ४५ ॥

अग्निरुवाच
मम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभो
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ॥ ४६ ॥

ब्रह्मोवाच
यस्त्वां ज्वलन्तमासाद्य न होष्यति नरः क्वचित्
बीजौषधितिलानग्रे फलमूलसमित्कुशान् ॥ ४७ ॥

तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति
ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ॥ ४८ ॥

ततः स परिजग्राह तद्वचो हव्यकव्यभुक्
पितामहश्च भगवान्तथा तदलभत्प्रियम् ॥ ४९ ॥

ततो वृक्षौषधितृणान्याहूय स पितामहः
इममर्थं महाभागे वक्तुं समुपचक्रमे 6.168.॥ ५० ॥

ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम्
व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन् ॥ ५१ ॥

अस्माकं ब्रह्महत्यायाः कथयन्तः पितामह
स्वभाव निहिता तस्मान्न पुनर्हन्तुमर्हसि ॥ ५२ ॥

वयमग्निं तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा छेदनभेदनम् ॥ ५३ ॥
मूलम्
वयमग्निं तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा छेदनभेदनम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
अकारणं नरो यस्तु युष्मच्छेदनभेदनम्
करिष्यति महामोहात्तमेषानु प्रयास्यति ॥ ५४ ॥
मूलम्
ब्रह्मोवाच
अकारणं नरो यस्तु युष्मच्छेदनभेदनम्
करिष्यति महामोहात्तमेषानु प्रयास्यति ॥ ५४ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
ततो महौषधितृणैरोमित्युक्तं महात्मभिः
ब्रह्माणमपि सम्पूज्य जग्मुश्चाथ यथागतम् ॥ ५५ ॥

आहूयाप्सरसो देवस्ततो लोकपितामहः
वाचा मधुरया प्राह सान्त्वयन्निव सत्तमे ॥ ५६ ॥

इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः
चतुर्थमस्या भागं च मयोक्तं सम्प्रतीच्छथ ॥ ५७ ॥

अप्सरा ऊचुः
ग्रहणे कृतबुद्धीनां देवेश तव शासनात्
सम्मोक्षसमयोऽस्माकं चिन्तनीयः पितामह ॥ ५८ ॥

पितामह उवाच
रजस्वलासु नारीषु यो वै मैथुनमाचरेत्
तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ॥ ५९ ॥

तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः
स्वानि स्थानानि सम्प्राप्य रेमिरे शैलजे तदा ॥ ६० ॥

ततश्च लोककृद्देवः पुनरेव पितामहः
आपः सञ्चिन्तयामास ततस्ताश्च समागमन् ॥ ६१ ॥

ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम्
इदमूचुर्वचो देवि प्रणिपत्य पितामहम् ॥ ६२ ॥

इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिन्दम
शासनात्तव देवेश समाज्ञापय तत्प्रभो ॥ ६३ ॥

इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका
ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ ॥ ६४ ॥

आप ऊचुः
एवं भवतु लोकेश यत्त्वं वदसि नः प्रभोः
मोक्षस्य समयं नस्त्वं सञ्चिन्तयितुमर्हसि ॥ ६५ ॥

त्वं हि देवेन्द्र सर्वस्य जगतः परमा गतिः
कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत् ॥ ६६ ॥

अल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः ॥ ६७ ॥

श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षति
तमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः ॥ ६८ ॥

ततो विमुच्य देवेन्द्रं ब्रह्महत्या सुरेश्वरि
गतातिहृष्टो देवेशो ह्यभवद्देवशासनात् ॥ ६९ ॥

एवं शक्रेण सम्प्राप्ता ब्रह्महत्या पुरा युगे
अस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ ॥ ७० ॥

अश्वमेधं ततः कृत्वा विपाप्मा समपद्यत
इति साभ्रमती तीर्थे वार्त्रघ्नीयं नगात्मजे ॥ ७१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
वार्त्रघ्नीमाहात्म्यन्नामाष्टषष्ट्यधिकशततमोऽध्यायः १६८