अत्र तीर्थात्परं तीर्थं चण्डेश इति विश्रुतम्
विश्वास-प्रस्तुतिः
यत्र चण्डेश्वरो देवो नित्यं तिष्ठति भूतिदः ॥ १ ॥
मूलम्

यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृतात्
सर्वाभिर्देवताभिश्च मिलित्वा नगरं कृतम्
चण्डेश इति विख्यातं नाम्ना चैव महेश्वरि ॥ २ ॥

इति चण्डेशतीर्थम्
अत्र तीर्थात्परं तीर्थं गाणपत्यं ततो भुवि
साभ्रमत्यां समीपे तु विख्यातं देवि निर्मितम् ॥ ३ ॥

तत्र स्नात्वा नरो देवि मुच्यते नात्र संशयः
मन्ये साभ्रमती तीरे जनानां हितकाम्यया ॥ ४ ॥

पृथिव्यां यानि तीर्थानि सागरान्तानि यानि च
तानि सर्वाणि सन्त्यज्य तीर्थे वै परमाद्भुते ॥ ५ ॥

श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेन्द्रियः
फलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवम् ॥ ६ ॥

पितॄनुदिश्य यत्किञ्चिद्गणतीर्थे प्रदीयते
तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः ॥ ७ ॥

तस्मिंस्तीर्थे नरः स्नात्वा वृषं विप्राय दापयेत्
सर्वलोकानतिक्रम्य स गच्छेत्परमां गतिम् ॥ ८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे गणतीर्थन्नाम सप्तषष्ट्यधिकशततमोऽध्यायः १६७