महादेव उवाच
विश्वास-प्रस्तुतिः
वैद्यनाथात्परं तीर्थं सर्वसिद्धिप्रदायकम्
तीर्थानामुत्तमं तीर्थं देवतीर्थमनुश्रुतम् ॥ १ ॥
मूलम्

विभीषणाद्राक्षसेन्द्राद्गृहीत्वा करमोजसा
प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रतुः ॥ २ ॥

दिग्जये दक्षिणे जाते नकुलेन हि पाण्डुना
साभ्रमत्यास्तटे देवि पाण्डुरार्येति विश्रुता ॥ ३ ॥

स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी
स्नातः साभ्रमतीतोये पाण्डुरार्यां नमस्य च ॥ ४ ॥

अणिमाद्या सिद्धयोऽष्टौ तथा मेधां महीयसीम्
नरः प्राप्नोति वै नूनं नात्र कार्या विचारणा ॥ ५ ॥

पाण्डुरार्यां नमस्कृत्य शुद्धभावेन मानवः
संवत्सरकृता पूजा दातव्या तत्त्वबुद्धिभिः ॥ ६ ॥

तत्र तीर्थे तनुं त्यक्त्वा पाण्डुरार्यासमीपतः
कैलासशिखरं प्राप्य चण्डेश्वरगणो भवेत् ॥ ७ ॥

पुरा हनूमता तत्र तपस्तप्तं सुदुष्करम्
समुद्रप्लवने शक्तिर्जाता तीर्थप्रभावतः ॥ ८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे पाण्डुरार्यातीर्थन्नाम षट्षष्ट्यधिकशततमोऽध्यायः १६६