महादेव उवाच
विश्वास-प्रस्तुतिः
भूतालयं ततो गच्छेत्तीर्थं पापहरं पदम्
भूतालयो वटो यत्र यत्र प्राची तु चन्दना ॥ १ ॥
मूलम्

भूतालये नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
यस्तु कृष्णतिलान्दद्यान्न स प्रेतोऽभिजायते ॥ २ ॥

पितॄनुद्दिश्य यो दद्यादुदकुम्भं तिलैः सह
पूर्वजान्प्रेतभावात्स मोचयेन्नात्र संशयः ॥ ३ ॥

यस्य नाम्ना नरः स्नाति प्रेतत्वात्स विमुच्यते
चतुर्दश्यामथाष्टम्यां प्रभाते विमलोदके ॥ ४ ॥

तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटम्
भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् ॥ ५ ॥

इति श्रीभूतेश्वरतीर्थम्
अतस्तीर्थात्परं तीर्थं घटेश्वरमिति स्मृतम्
यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम् ॥ ६ ॥

यत्र साभ्रमती तीर्थं घटो वै परमो महान्
दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः ॥ ७ ॥

तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः
मनसाभीप्सितान्कामाँल्लभते मानवो भुवि ॥ ८ ॥

इति घटेश्वरतीर्थम्
ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम्
तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः ॥ ९ ॥

पितॄन्सन्तर्प्य विधिना सर्वयज्ञफलं लभेत्
विजयो देवसम्भूतः सर्वपापक्षयङ्करः
यं दृष्ट्वा विविधान्कामान्प्राप्नुयुस्ते नराः सदा 6.165.॥ १० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे विजयीतीर्थमाहात्म्यन्नाम पञ्चषष्ट्यधिकशततमोऽध्यायः १६५