१६४

महादेव उवाच

विश्वास-प्रस्तुतिः

अत्र तीर्थं महच्चान्यत्कश्यपाख्यं सुरेश्वरि
यत्र ह्रदो महानासीन्नगदेव विनिर्मितः ॥ १ ॥

मूलम्

अत्र तीर्थं महच्चान्यत्कश्यपाख्यं सुरेश्वरि
यत्र ह्रदो महानासीन्नगदेव विनिर्मितः ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्र कुशेश्वरो नाम देवो यत्र विराजते
यत्र कुण्डं तथा रम्यं कश्यपेन विनिर्मितम् ॥ २ ॥

मूलम्

तत्र कुशेश्वरो नाम देवो यत्र विराजते
यत्र कुण्डं तथा रम्यं कश्यपेन विनिर्मितम् ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेत्
अग्निहोत्रकरा विप्रा नित्यं वेदपरायणाः ॥ ३ ॥

मूलम्

तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेत्
अग्निहोत्रकरा विप्रा नित्यं वेदपरायणाः ॥ ३ ॥

विश्वास-प्रस्तुतिः

निवसन्ति महदेवि काश्यपायां बहुश्रुताः
यथा काशी तथा चेयं नगरी ऋषिनिर्मिता ॥ ४ ॥

मूलम्

निवसन्ति महदेवि काश्यपायां बहुश्रुताः
यथा काशी तथा चेयं नगरी ऋषिनिर्मिता ॥ ४ ॥

विश्वास-प्रस्तुतिः

काश्यपेन यतश्चात्र तप्तं बहुतरं तपः
गङ्गा वै तपसा येन आनीतेशजटोद्भवा ॥ ५ ॥

मूलम्

काश्यपेन यतश्चात्र तप्तं बहुतरं तपः
गङ्गा वै तपसा येन आनीतेशजटोद्भवा ॥ ५ ॥

विश्वास-प्रस्तुतिः

सा गङ्गा काश्यपी देवि महापातकनाशिनी
यस्या दर्शनमात्रेण मुच्यन्ते दुष्टकिल्बिषात् ॥ ६ ॥

मूलम्

सा गङ्गा काश्यपी देवि महापातकनाशिनी
यस्या दर्शनमात्रेण मुच्यन्ते दुष्टकिल्बिषात् ॥ ६ ॥

विश्वास-प्रस्तुतिः

गोदानं च प्रशंसन्ति रथदानं तथैव च
श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नतः ॥ ७ ॥

मूलम्

गोदानं च प्रशंसन्ति रथदानं तथैव च
श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नतः ॥ ७ ॥

विश्वास-प्रस्तुतिः

कलौ युगे तथा घोरे महापातकनाशनम्
कश्यपाख्यं समं तीर्थं न भूतं न भविष्यति ॥ ८ ॥

मूलम्

कलौ युगे तथा घोरे महापातकनाशनम्
कश्यपाख्यं समं तीर्थं न भूतं न भविष्यति ॥ ८ ॥

यत्र वै देवताः सर्वा ऋषयो वीतकल्मषाः
नित्यं तिष्ठन्ति देवेशि तीर्थराजप्रसादतः ९