१६३

महादेव उवाच

विश्वास-प्रस्तुतिः

तीर्थानां प्रवरं तीर्थं महापातकनाशनम्
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः ॥ १ ॥

मूलम्

तीर्थानां प्रवरं तीर्थं महापातकनाशनम्
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः ॥ १ ॥

विश्वास-प्रस्तुतिः

यानि कानि च पापानि ब्रह्महत्या समानि च
गोतीर्थे तु ततः स्नात्वा नश्यन्ते नात्र संशयः ॥ २ ॥

मूलम्

यानि कानि च पापानि ब्रह्महत्या समानि च
गोतीर्थे तु ततः स्नात्वा नश्यन्ते नात्र संशयः ॥ २ ॥

विश्वास-प्रस्तुतिः

गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ॥ ३ ॥

मूलम्

गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम्
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ॥ ४ ॥

मूलम्

तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम्
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ॥ ४ ॥

गोतीर्थे तु नरो गत्वा स्नात्वा गां तु पयस्विनीम्
ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम् ५