१६२

महादेव उवाच

विश्वास-प्रस्तुतिः

ततो गच्छेत्तथा देवि तीर्थं कापोतिकं पुनः
यत्र साभ्रमती तोयं प्राचीनं सम्प्रवर्त्तते ॥ १ ॥

मूलम्

पिण्डं ददाति यस्तत्र पितृतर्पणपूर्वकम्
वन्यैः फलैस्तथा पुष्पैः सदा पर्वणि पर्वणि ॥ २ ॥

काकादिभ्यश्च श्वादिभ्यो बलिं सन्ददते तु यः
यमस्य पन्थानं सोऽपि ससुखं निस्तरेन्नरः ॥ ३ ॥

तत्र तीर्थे नरः स्नात्वा वैशाख्यां गौरसर्षपैः
पूजयेद्देवमीशानं प्राचीनेश्वरमुत्तमम् ॥ ४ ॥

आत्मानं तारयेत्सोऽथ पितॄनथ पितामहान्
कपोतो यत्र चात्मानं दत्त्वा चातिथये मुदा ॥ ५ ॥

स्तुतो देवगणैः सर्वैर्विमानेन दिवं गतैः
तदा प्रभृति तत्तीर्थं कापोतमिति विश्रुतम् ॥ ६ ॥

तत्र स्नात्वा नरः पीत्वा ब्रह्महत्यां व्यपोहति
पार्वत्युवाच
कपोतेन कथं दत्तं शरीरं च वद प्रभो
निमित्तं किं तथा देव नाहं वेद्मि सुरेश्वर ॥ ७ ॥

अत्र तीर्थेति देवेशि वटो वै परमो महान्
तस्य शाखा ह्यनन्ताश्च दृश्यन्ते विपुला भुवि ॥ ८ ॥

तत्र जीवा वसन्तीह पक्षिणो बहवस्तथा
कपोतेन गृहं तत्र कारितं तु सुरेश्वरि ॥ ९ ॥

तत्र तिष्ठति पक्षीशो नित्यं विष्णुपरायणः
कुटुम्बेन समायुक्तो शाखायां वसति ध्रुवम् ॥ १० ॥

एकस्मिन्वासरे देवि द्वादश्यां विष्णुवासरे
श्येनस्तत्र समायातो ह्यतिथित्वेन भामिनि ॥ ११ ॥

कपोत भो देहि मांसं तव शारीरकं मम
नोचेच्छापं प्रदास्यामि इत्युक्तं नगनन्दिनि ॥ १२ ॥

अद्य वै वासरे विष्णोः क्षुधार्तोऽहं समागतः
तस्माद्देयं हि मांसं तत्क्षुधार्ताय मम प्रभो ॥ १३ ॥

श्येनोक्तं तत्तु वै श्रुत्वा कपोतो वैष्णवो महान्
तेन दत्तं तदा देवि शरीरं नात्र संशयः ॥ १४ ॥

तेन दानप्रभावेन तीर्थं जातं सुरोत्तमे
कापोतकं महत्तीर्थं पावनानां च पावनम् ॥ १५ ॥

अत्र तीर्थे नरः स्नात्वा कृत्वा वै शिवपूजनम्
ददाति चातिथिभ्यश्च मिष्टमन्नं सुरोत्तमे ॥ १६ ॥

इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम्
दत्त्वा वै स्वशरीरं तु कपोतोऽथ महात्मने ॥ १७ ॥

स गतो वैष्णवं तत्र यावच्चन्द्र दिवाकरौ
अतो गत्वा तु भो देवि अतिथिं पूजयेत्सदा
पूजिते चातिथौ तत्र सर्वं च लभते ध्रुवम् १८