१६१

महादेव उवाच

विश्वास-प्रस्तुतिः

सोमतीर्थं ततो गच्छेद्गुप्तं साभ्रमतीतटे
पातालात्तत्र निर्गत्य कालाग्निरभवद्भवः ॥ १ ॥

मूलम्

सोमतीर्थं ततो गच्छेद्गुप्तं साभ्रमतीतटे
पातालात्तत्र निर्गत्य कालाग्निरभवद्भवः ॥ १ ॥

विश्वास-प्रस्तुतिः

सोमतीर्थे नरः स्नात्वा दृष्ट्वा सोमेश्वरं शिवम्
सोमपानफलं साक्षाद्भवतीति न संशयः ॥ २ ॥

मूलम्

सोमतीर्थे नरः स्नात्वा दृष्ट्वा सोमेश्वरं शिवम्
सोमपानफलं साक्षाद्भवतीति न संशयः ॥ २ ॥

विश्वास-प्रस्तुतिः

रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः
नरो भवति लोकेऽस्मिन्परत्र च शिवं व्रजेत् ॥ ३ ॥

मूलम्

रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः
नरो भवति लोकेऽस्मिन्परत्र च शिवं व्रजेत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

अत्रेतिहासं वक्ष्यामि शृणु सुन्दरि तत्वतः
यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपातकात् ॥ ४ ॥

मूलम्

अत्रेतिहासं वक्ष्यामि शृणु सुन्दरि तत्वतः
यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपातकात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

कौषीतकेन ऋषिणा तपस्तप्तं विशेषतः
निराहारी स वै जातः पर्णाशनरतः परम् ॥ ५ ॥

मूलम्

कौषीतकेन ऋषिणा तपस्तप्तं विशेषतः
निराहारी स वै जातः पर्णाशनरतः परम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

वायुभक्षस्ततः कुर्वन्नात्मध्यानपरायणः
एवं बहुयुगं तत्र तप्तं तेन महत्तपः ॥ ६ ॥

मूलम्

वायुभक्षस्ततः कुर्वन्नात्मध्यानपरायणः
एवं बहुयुगं तत्र तप्तं तेन महत्तपः ॥ ६ ॥

विश्वास-प्रस्तुतिः

कदाचिद्दैवयोगेन सुप्रसन्नो महेश्वरः
यं यं प्रार्थयसे विप्र तत्सर्वं प्रददाम्यहम् ॥ ७ ॥

मूलम्

कदाचिद्दैवयोगेन सुप्रसन्नो महेश्वरः
यं यं प्रार्थयसे विप्र तत्सर्वं प्रददाम्यहम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

कौषीतक उवाच
तव प्रसादाद्देवेश अत्र लिङ्गं प्रजायताम्
अत्र सोमेश्वर इति ख्यातो देवो भवेद्ध्रुवम् ॥ ८ ॥

मूलम्

कौषीतक उवाच
तव प्रसादाद्देवेश अत्र लिङ्गं प्रजायताम्
अत्र सोमेश्वर इति ख्यातो देवो भवेद्ध्रुवम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

यत्र स्नात्वा च भुक्त्वा च वाञ्छितं फलमाप्नुयात्
अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि ॥ ९ ॥

मूलम्

यत्र स्नात्वा च भुक्त्वा च वाञ्छितं फलमाप्नुयात्
अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि ॥ ९ ॥

विश्वास-प्रस्तुतिः

कारयन्ति नरश्रेष्ठा धर्मानर्थाल्लँभन्ति ते
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ॥ १० ॥

मूलम्

कारयन्ति नरश्रेष्ठा धर्मानर्थाल्लँभन्ति ते
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

राज्यकामी तु तद्राज्यं लभते नात्र संशयः
यदि चेत्त्वं प्रसन्नोऽसि तत्सर्वं देहि मे प्रभो ॥ ११ ॥

मूलम्

राज्यकामी तु तद्राज्यं लभते नात्र संशयः
यदि चेत्त्वं प्रसन्नोऽसि तत्सर्वं देहि मे प्रभो ॥ ११ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच
तदा चैव सुरेशेन सर्वं दत्तं द्विजन्मने
तदा प्रभृति तत्तीर्थं सोमलिङ्गेति विश्रुतम् ॥ १२ ॥

मूलम्

ईश्वर उवाच
तदा चैव सुरेशेन सर्वं दत्तं द्विजन्मने
तदा प्रभृति तत्तीर्थं सोमलिङ्गेति विश्रुतम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

चन्दनैर्वा बिल्वपत्रैयेऽर्चयन्ति सदाशिवम्
लभन्ते मानुषे देहे सौख्यं पुत्रादिसम्भवम् ॥ १३ ॥

मूलम्

चन्दनैर्वा बिल्वपत्रैयेऽर्चयन्ति सदाशिवम्
लभन्ते मानुषे देहे सौख्यं पुत्रादिसम्भवम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

सोमवारे तथा प्राप्ते यो गच्छति हरालयम्
वाछितं लभते नित्यं सोमलिङ्ग प्रसादतः ॥ १४ ॥

मूलम्

सोमवारे तथा प्राप्ते यो गच्छति हरालयम्
वाछितं लभते नित्यं सोमलिङ्ग प्रसादतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

अत्र गत्वा तु यो देवि यद्ददाति फलादिकम्
यया कामनया चैव तं तं प्राप्नोति निश्चितम् ॥ १५ ॥

मूलम्

अत्र गत्वा तु यो देवि यद्ददाति फलादिकम्
यया कामनया चैव तं तं प्राप्नोति निश्चितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः
येऽर्चयन्ति च तं देवं श्रीमहेशं पिनाकिनम् ॥ १६ ॥

मूलम्

श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः
येऽर्चयन्ति च तं देवं श्रीमहेशं पिनाकिनम् ॥ १६ ॥

ते लभन्ते सुरश्रेष्ठे शैवं पदमनुत्तमम् १७