१६०

महादेव उवाच

विश्वास-प्रस्तुतिः

अस्मात्तीर्थात्परं तीर्थं तीर्थराजेति विश्रुतम्
सप्तनद्यो वहन्त्यत्र चन्दनोदकमिश्रितम् ॥ १ ॥

मूलम्

अन्यतीर्थाच्छतगुणं स्नानं चात्र विशिष्यते
देवानां प्रवरो देवो यत्रास्ते वामनः स्वयम् ॥ २ ॥

द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकम्
विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छतम् ॥ ३ ॥

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥ ४ ॥

तीर्थेऽस्मिन्भोजयेद्यो वै ब्राह्मणान्गुडपायसैः
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ५