महादेव उवाच
विश्वास-प्रस्तुतिः
तस्माद्दूरतरे देवि सिद्धक्षेत्रमनुत्तमम्
अनिरुद्धो वृतः पूर्वं उषार्थे चित्रलेखया ॥ १ ॥
मूलम्

नीतो बाणासुरपुरं तिष्ठति स्म गृहे पुरा
पाशैर्बाणैश्च संरुद्धः कोटराक्षीमथास्मरत् ॥ २ ॥

साक्षाद्या वैष्णवी शक्तिः सदा रक्षण तत्परा
सेयं देवी नदीतीरे कृष्णेनात्र प्रतिष्ठिता ॥ ३ ॥

जित्वा बाणासुरं सङ्ख्ये द्वारकां प्रतिगच्छता
अनिरुद्धस्य स्तोत्रेण साक्षात्सान्निध्यमागता ॥ ४ ॥

तत्र तीर्थे नरः स्नात्वा वर्षमेकं प्रयत्नतः
कोटराक्षीमुखं दृष्ट्वा लक्ष्मीमाप्नोति पुष्कलाम् ॥ ५ ॥

सिद्धतीर्थे नरः स्नात्वा दृष्ट्वा कोटरवासिनीम्
सिंहयुक्तेन यानेन रुद्रलोके महीयते ॥ ६ ॥

यस्यां वै स्मरणादेव मुक्तः सोऽपि वरानने
अतोयेऽत्र प्रगच्छन्ति ते नरा मुक्तिभागिनः ॥ ७ ॥

तत्र गत्वा विशेषेण स्नानं कृत्वा तु पार्वति
कोटराक्ष्यास्ततः स्तोत्रं पठेद्वै बुद्धिपूर्वकम् ॥ ८ ॥

कोटराक्षी विश्वरूपा महामाया बलाधिका
त्रिपुरा त्रिपुरघ्नी च शिवा वै शिवरूपिणी ॥ ९ ॥

कन्या सारस्वती प्रोक्ता दुर्गा दुर्गतिहारिणी
भैरवी भैरवाक्षी च लक्ष्मी देवी जनप्रिया ॥ १० ॥

एतानि बहुधोक्तानि नामानि च सुरेश्वरि
ये पठन्ति नरश्रेष्ठास्ते यान्ति शिवसन्निधौ ॥ ११ ॥

अनिरुद्धकृतं स्तोत्रं ये जपन्ति मनीषिणः
मुच्यन्ते कष्टबन्धात्ते सत्यंसत्यं वरानने ॥ १२ ॥

तीर्थानां परमं तीर्थं कोटरानिर्मितं भुवि
दर्शनादेव नश्यन्ति पापानां राशयस्तथा १३