१५८

महादेव उवाच

विश्वास-प्रस्तुतिः

पिप्पलादात्ततस्तीर्थे पिचुमन्दार्कमुत्तमम्
तीर्थं साभ्रमती तीरे व्याधिदौर्गन्ध्यनाशनम् ॥ १ ॥

मूलम्

पुरा कोलाहले युद्धे दानवैर्निर्जिताः सुराः
वृक्षेषु विविशुस्तत्र सूक्ष्माः प्राणपरीप्सया ॥ २ ॥

तत्र बिल्वे स्थितः शम्भुरश्वत्थे हरिरव्ययः
शिरीषेऽभूत्सहस्राक्षो निम्बे देवः प्रभाकरः ॥ ३ ॥

एवमादि यथायोग्यं वृक्षेषु विबुधास्तथा
यावत्कोलाहलो दैत्यो विष्णुना प्रभविष्णुना ॥ ४ ॥

हतो महाहवे तावत्स्थितास्ते वृक्षमाश्रिताः
येनयेन हि यो वृक्षो विबुधेन समाश्रितः ॥ ५ ॥

स तु तन्मयतां यातस्तस्मात्तं न विनाशयेत्
इति सूर्य्यस्य विश्रामात्पिचुमन्दार्कमुत्तमम् ॥ ६ ॥

तीर्थंरोगहरं स्नानात्साभ्रमत्यास्तटेऽभवत्
अत्र गत्वा विशेषेण तं रविं यदि पूजयेत् ॥ ७ ॥

पूजयित्वा सुरश्रेष्ठे लभते वाञ्छितं फलम्
अत्र द्वादशनामानि गत्वा ये वै पठन्ति च ॥ ८ ॥

ते नराः पुण्यकर्माणो यावज्जीवं न संशयः
आदित्यं भास्करं भानुं रविं विश्वप्रकाशकम् ॥ ९ ॥

तीक्ष्णांशुं चैव मार्तण्डं सूर्यं चैव प्रभाकरम्
विभावसुं सहस्राक्षं तथा पूषणमेव च ॥ १० ॥

एवं द्वादशनामानि यः पठेत्प्रयतः सुधीः
धनं वै पुत्रपौत्रांश्च लभते नगनन्दिनि ॥ ११ ॥

एकैकं नाम आश्रित्य योऽर्चयेत नरो भुवि
सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपरागः ॥ १२ ॥

क्षत्रियो लभते राज्यं वैश्यो धनमवाप्नुयात्
शूद्रो वै लभते भक्तिं तस्मात्सूक्तं परं जपेत् ॥ १३ ॥

निम्बार्कतः परं तीर्थं न भूतं न भविष्यति
अत्र स्नात्वा च पीत्वा च मुक्तिभागी भवेद्ध्रुवम् ॥ १४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे उमामहेश्वरसंवादे निम्बार्कदेवतीर्थन्नामाष्टपञ्चाशदधिक शततमोऽध्यायः १५८